०६३

अगस्त्य उवाच ।
अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् ।
कथयामि समासेन तन्मे निगदतः श्रृणु ॥ ६३.१ ॥

मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर ।
अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥ ६३.२ ॥

षष्ठ्यां चैव तु सङ्कल्प्य सप्तम्यामर्चयेद् हरिम् ।
देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥ ६३.३ ॥

प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् ।
प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥ ६३.४ ॥

ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि ।
ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥ ६३.५ ॥

ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् ।
पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥ ६३.६ ॥

प्रतिमासमनेनैव विधिनोपोष्य मानवः ।
कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥ ६३.७ ॥

श्रूयते च पुरा राजा शूरसेनः प्रतापवान् ।
स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥ ६३.८ ॥

तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह ।
सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥ ६३.९ ॥

वसुदेवं महाभागमनेकक्रतुयाजिनम् ।
तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥ ६३.१० ॥

एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता ।
संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥ ६३.११ ॥

एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् ।
एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥ ६३.१२ ॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥ ६३ ॥