०५७

अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् ।
यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ ५७.१ ॥

यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः ।
एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ ५७.२ ॥

द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने ।
नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ ५७.३ ॥

बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् ।
एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ ५७.४ ॥

परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् ।
तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ॥ ५७.५ ॥

नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च ।
यज्ञलोकाधिपतये सोमाय परमात्मने ॥ ५७.६ ॥

अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः ।
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ ५७.७ ॥

फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः ।
शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ ५७.८ ॥

आषाढादिचतुष्के तु तिलहोमं तु कारयेत् ।
तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ ५७.९ ॥

ततः संवत्सरे पूर्णे शशिनं कृतराजतम् ।
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ ५७.१० ॥

कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ ५७.११ ॥

अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः ।
दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ ५७.१२ ॥

आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप ।
तस्य व्रतान्ते सन्तुष्टः स्वयमेव जनार्दनः ।
यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ ५७.१३ ॥

तां कलां सोमराजाऽसौ तपसा लब्धवानिति ।
सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ ५७.१४ ॥

द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप ।
तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ ५७.१५ ॥

न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम ।
नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ ५७.१६ ॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ ५७ ॥