भद्राश्व उवाच ।
मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया ।
तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ ५३.१ ॥
अगस्त्य उवाच ।
आगतेयं कथा चित्रा सर्वस्य विषये स्थिता ।
त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ ५३.२ ॥
तस्यां सम्भूतिमिच्छन् यस्तस्योपायं स्वयं परम् ।
पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ ५३.३ ॥
स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः ।
तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ॥ ५३.४ ॥
तेन प्रोक्तं तु यत्किञ्चित् चतुर्णां साधनं नृप ।
ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ ५३.५ ॥
चतुर्णां प्रथमो यस्तु चतुःश्रृङ्गसमास्थितः ।
वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः ।
चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ॥ ५३.६ ॥
सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप ।
ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ ५३.७ ॥
ततो भृत्यादिभरणं वृषभारोहणं त्रिषु ।
वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ ५३.८ ॥
अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा ।
भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ ५३.९ ॥
नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः ।
चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ ५३.१० ॥
मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः ।
न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ ५३.११ ॥
पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् ।
एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ ५३.१२ ॥
क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता ।
एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ ५३.१३ ॥
तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ ।
तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ ५३.१४ ॥
तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् ।
नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ ५३.१५ ॥
तच्चावृतं प्रधानेन दशधा संवृतो बभौ ।
चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ ५३.१६ ॥
प्रकामं तिलसञ्च्छिन्ने तदमूलौ न मे बभौ ।
अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ ५३.१७ ॥
तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत ।
अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ ५३.१८ ॥
तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत ।
कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ ५३.१९ ॥
तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् ।
तस्मिञ्च्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ ५३.२० ॥
पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत ।
तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ ५३.२१ ॥
एवं कृते शरीरं तु ददर्श स पुनः प्रभुः ।
स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ॥ ५३.२२ ॥
त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु ।
समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ॥ ५३.२३ ॥
एवंविधोऽसौ पुरुषः स्वरनामा महातपाः ।
मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ ५३.२४ ॥
एतस्मादेव तस्याशु कथया राजसत्तम ।
सम्भूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ॥ ५३.२५ ॥
एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् ।
य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ ५३.२६ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥