दुर्वासा उवाच ।
तद्वद् भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।
सङ्कल्प्य विधिना देवमर्च्चयेत् परमेश्वरम् ॥ ४८.१ ॥
नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।
म्लेच्छविध्वंसनायेति जगन्मूर्त्ते तथोदरम् ॥ ४८.२ ॥
शितिकण्ठाय कण्ठं तु खड्गपाणेति वै भुजौ ।
चतुर्भुजायेति हस्तौ विश्वमूर्त्ते तथा शिरः ॥ ४८.३ ॥
एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।
विन्यसेत् कल्किनं देवं सौवर्णं तत्र कारयेत् ॥ ४८.४ ॥
सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् ।
कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे ।
एवं कृते भवेद् यस्तु तन्निबोध महामुने ॥ ४८.५ ॥
पूर्वं राजा विशालोऽभूत् काश्यां पुर्यां महाबलः ।
गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाविशत् ॥ ४८.६ ॥
तस्य द्रोण्यां महाराज बदरीं प्राप्य शोभनाम् ।
हृतराज्यो विशेषेण गतश्रीको नरोत्तमः ॥ ४८.७ ॥
कदाचिदागतौ तत्र पुराणावृषिसत्तमौ ।
नरनारायणौ देवौ सर्वदेवनमस्कृतौ ॥ ४८.८ ॥
तौ दृष्ट्वा तत्र राजानं पूर्वागतमरिन्दमौ ।
ध्यायन्तं परमं ब्रह्म विष्ण्वाख्यं परमं पदम् ॥ ४८.९ ॥
तौ प्रीतावूचतुस्तं तु राजानं क्षीणकल्मषम् ।
वरं वृणीष्व राजेन्द्र वरदौ स्वस्तवागतौ ॥ ४८.१० ॥
राजोवाच ।
भवन्तौ कौ न जानामि कस्य गृह्णाम्यहं वरम् ।
आराधयामि यत् तस्माद् वरमिच्छामि शोभनम् ॥ ४८.११ ॥
एवमुक्तौ तु तौ राज्ञा कमाराधयसे प्रभो ।
कं वा वरं वृणुष्व त्वं कथयस्व कुतूहलात् ॥ ४८.१२ ॥
एवमुक्तस्ततो राजा विष्णुमाराधयाम्यहम् ।
कथयित्वा स्थितस्तूष्णीं ततस्तावूचतुः पुनः ॥ ४८.१३ ॥
राजन् तस्यैव देवस्य प्रसादादावयोर्वरः ।
दातव्यस्ते वरं ब्रूहि कस्ते मनसि वर्त्तते ॥ ४८.१४ ॥
राजोवाच ।
यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः ।
यष्टुं समर्थता मे स्यात् तथा मे ददतं वरम् ॥ ४८.१५ ॥
नर उवाच ।
स्वयं नारायणो देवो लोकमार्गप्रदर्शकः ।
मया सह तपः कुर्याद् बदर्यां लोकभावनः ॥ ४८.१६ ॥
अयं मत्स्योऽभवत् पूर्वं पुनः कूर्म्मस्वरूपवान् ।
वराहश्चाभवद् देवो नरसिंहस्ततोऽभवत् ॥ ४८.१७ ॥
वामनस्तु ततो जातो जामदग्न्यो महाबलः ।
पुनर्दाशरथिर्भूत्वा वासुदेवः पुनर्बभौ ॥ ४८.१८ ॥
बुद्धो भूत्वा जनं ह्येष मोहयामास पार्थिव ।
सपत्नान् दस्यवो म्लेच्छान् पुनर्हत्वा महीमिमाम् ।
प्रकृतिस्थां चकारायं स एष भगवान् हरिः ॥ ४८.१९ ॥
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः ।
स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ॥ ४८.२० ॥
भवोदधिनिमग्नेन वाराहः पूज्यते हरिः ।
नारसिंहेण रूपेण तद्वत् पापभयान्नरैः ॥ ४८.२१ ॥
वामनं मोहनाशाय वित्तार्थे जगदग्निजम् ।
क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ॥ ४८.२२ ॥
बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः ।
रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ॥ ४८.२३ ॥
एवमुक्त्वा नरस्तस्य इमामेवाब्रवीन्मुनिः ।
द्वादशीं कृतवान् सोऽपि चक्रवर्ती बभूव ह ।
तस्यैव नाम्ना बदरी विशालाख्याऽभवन्मुने ॥ ४८.२४ ॥
इह जन्मनि राजाऽसौ राज्यं कृत्वा इयाद् वनम् ।
यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥ ४८.२५ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥