०४६

दुर्वासा उवाच ।
आषाढेऽप्येवमेवं तु सङ्कल्प्य विधिना नरः ।
अर्चयेत् परमं देवं गन्धपुष्पैरनेकशः ॥ ४६.१ ॥
वासुदेवाय पादौ तु कटिं सङ्कर्षणाय च ।
प्रद्युम्नायेति जठरं अनिरुद्धाय वै उरः ॥ ४६.२ ॥
चक्रपाणयेति भुजौ कण्ठं भूपतये तथा ।
स्वनाम्ना शङ्खचक्रौ तु पुरुषायेति वै शिरः ॥ ४६.३ ॥
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।
विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ।
काञ्चनं वासुदेवं तु चतुर्व्यूहं सनातनम् ॥ ४६.४ ॥
तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ।
प्राग्वत् तं ब्राह्मणे दद्याद् वेदवादिनि सुव्रते ।
एवं नियमयुक्तस्य यत्पुण्यं तच्छृणुष्व मे ॥ ४६.५ ॥
वसुदेवोऽभवद् राजा यदुवंशविवर्द्धनः ।
देवकी तस्य भार्या तु समानव्रतधारिणी ॥ ४६.६ ॥
सा त्वपुत्राऽभवत् साध्वी पतिधर्मपरायणा ।
तस्य कालेन महता नारदोऽभ्यगमद् गृहम् ॥ ४६.७ ॥
वसुदेवेनासौ भक्त्या पूजितो वाक्यमब्रवीत् ।
वसुदेव श्रुणुष्व त्वं देवकार्यं ममानघ ।
श्रुत्वैतां च कथां शीघ्रमागतोऽस्मि तवान्तिकम् ॥ ४६.८ ॥
पृथिवी देवसमितौ मया दृष्टा यदूत्तम ।
गत्वा च जल्पती भारं न शक्ता ऊहितुं सुराः ॥ ४६.९ ॥
सौभकंसजरासन्धाः पुनर्नरक एव च ।
कुरुपाञ्चालभोजाश्च बलिनो दानवाः सुराः ।
पीडयन्ति समेता मां तान् हनध्वं सुरोत्तमाः ॥ ४६.१० ॥
एवमुक्ताः पृथिव्या ते देवा नारायणं गताः ।
मनसा स च देवेशः प्रत्यक्षस्तत् क्षणात् बभौ ॥ ४६.११ ॥
उवाच च सुरश्रेष्ठः स्वयं कार्यमिदं सुराः ।
साधयामि न सन्देहो मर्त्यं गत्वा मनुष्यवत् ॥ ४६.१२ ॥
किन्त्वाषाढे शुक्लपक्षे या नारी सह भर्त्तृणा ।
उपोष्यति मनुष्येषु तस्या गर्भे भवाम्यहम् ॥ ४६.१३ ॥
एवमुक्त्वा गतो देवः स्वयं चाहमिहागतः ।
उपदिष्टं तु भवतो अपुत्रस्य विशेषतः ।
उपोष्य लभते पुत्रं सहभार्यो न संशयः ॥ ४६.१४ ॥
एतां च द्वादशीं कृत्वा वसुदेवस्तथाप्तवान् ।
महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ॥ ४६.१५ ॥
भुक्त्वा राज्यश्रियं सोऽथ गतः परमिकां गतिम् ।
एष ते विधिरुद्दिष्ट आषाढे मासि वै मुने ॥ ४६.१६ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥