दुर्वासा उवाच ।
ज्येष्ठमासेऽप्येवमेवं सङ्कल्प्य विधिना नरः ।
अर्चयेत् परमं देवं पुष्पैर्नानाविधैः शुभैः ॥ ४५.१ ॥
नमो रामाभिरामाय पादौ पूर्वं समर्चयेत् ।
त्रिविक्रमायेति कटिं धृतविश्वाय चोदरम् ॥ ४५.२ ॥
उरः संवत्सरायेति कण्ठं संवर्त्तकाय च ।
सर्वास्त्रधारिणे बाहू स्वनाम्नाऽब्जरथाङ्गकौ ॥ ४५.३ ॥
सहस्त्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः ।
एवमभ्यर्च्य विधिवत् प्रागुक्तं कुम्भं विन्यसेत् ॥ ४५.४ ॥
प्राग्वद् वस्त्रयुगच्छन्नौ सौवर्णौ रामलक्ष्मणौ ।
अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ ।
दातव्यौ मनसा काममीहता पुरुषेण तु ॥ ४५.५ ॥
अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन च ।
पुत्रकामपरः पश्चाद् वसिष्ठः परमार्चितः ॥ ४५.६ ॥
इदमेव विधानं तु कथयामास स द्विजः ।
प्राग्रहस्यं विदित्वा तु स राजा कृतवानिदम् ॥ ४५.७ ॥
तस्य पुत्रः स्वयं जज्ञे रामनामा सुतो बली ।
चतुर्द्धा सोऽव्ययो विष्णुः परितुष्टो महामुने ।
एतदैहिकमाख्यातं पारत्रिकमतः श्रृणु ॥ ४५.८ ॥
तावद् भोगान् भुञ्जते स्वर्गसंस्थो
यावदिन्द्रा दश च द्विद्विसङ्ख्या ।
अतीतकाले पुनरेत्य मर्त्त्यो
भवेत राजा शतयज्ञयाजी ।
नश्यन्ति पापानि च तस्य पुंसः
प्राप्नोति निर्वाणमलं च शाश्वतम् ॥ ४५.९ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥