महातपा उवाच ।
ब्रह्मणो मानसः पुत्रः अत्रिर्नाम महातपाः ।
तस्य पुत्रोऽभवत्सोमो दक्षजामातृतां गतः ॥ ३५.१ ॥
सप्तविंशति याः कन्या दाक्षायण्यः प्रकीर्त्तिताः ।
सोमपत्न्योऽतिमन्तव्यास्तासां श्रेष्ठा तु रोहिणि ॥ ३५.२ ॥
तामेव रमते सोमो नेतरा इति शुश्रुमः ।
इतराः प्रोचुरागत्य दक्षस्यासमतां शशेः ॥ ३५.३ ॥
दक्षोऽप्यसकृदागत्य तमुवाच स नाकरोत् ।
समतां सोऽपि तं दक्षः शशापान्तर्हितो भव ॥ ३५.४ ॥
एवं शप्तस्तु दक्षेण सोमो देहं त्यजेदथ ।
उवाच सोमो दक्षं तु भवानेवं भविष्यति ।
अनेकजो विहायेमं ब्रह्मदेहं सनातनम् ॥ ३५.५ ॥
एवमुक्त्वा क्षयं सोम अगमद् दक्षशापतः ।
देवा मनुष्याः पशवो नष्टे सोमे सवीरुधः ॥ ३५.६ ॥
क्षीणाभवंस्तदा सर्वा ओषध्यश्च विशेषतः ।
क्षयं गच्छद्भिरत्यर्थमोषधीभिः सुरर्षभाः ॥ ३५.७ ॥
मूलेषु वीरुधां सोमः स्थित इत्यूचुरातुराः ।
तेषां चिन्ताऽभवत् तीव्रा विष्णुं च शरणं ययुः ॥ ३५.८ ॥
भगवानाह तान् सर्वान् ब्रूत किं क्रियते मया ।
ते चोचुर्देव दक्षेण शप्तः सोमो विनाशितः ॥ ३५.९ ॥
तानुवाच तदा देवो मथ्यतां कलशोदधिः ।
ओषध्यः सर्वतो देवाः प्रक्षिप्याशु सुसंयतैः ॥ ३५.१० ॥
एवमुक्त्वा ततो देवान् दध्यौ रुद्रं हरिः स्वयम् ।
ब्रह्माणं च तथा दध्यौ वासुकिं नेत्रकारणात् ॥ ३५.११ ॥
ते सर्वे तत्र सहिता ममन्थुर्वरुणालयम् ।
तस्मिंस्तु मथिते जातः पुनः सोमो महीपते ॥ ३५.१२ ॥
योऽसौ क्षेत्रज्ञसञ्ज्ञो वै देहेऽस्मिन् पुरुषः परः ।
स एव सोमो मन्तव्यो देहिनां जीवसञ्ज्ञितः ।
परेच्छया स मूर्त्तिं तु पृथक् सौम्यां प्रपेदिवान् ॥ ३५.१३ ॥
तमेव देवमनुजाः षोडशेमाश्च देवताः ।
उपजीवन्ति वृक्षाश्च तथैवोषधयः प्रभुम् ॥ ३५.१४ ॥
रुद्रस्तमेव सकलं दधार शिरसा तदा ।
तदात्मिका भवन्त्यापो विश्वमूर्तिरसौ स्मृतः ॥ ३५.१५ ॥
तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं प्रभुः ।
तस्यामुपोषयेद् राजंस्तमर्थं प्रतिपादयेत् ॥ ३५.१६ ॥
यवान्नहारश्च भवेत् तस्य ज्ञानं प्रयच्छति ।
कान्तिं पुष्टिं च राजेन्द्र धनं धान्यं च केवलम् ॥ ३५.१७ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥