पूर्वं ब्रह्माऽव्ययः शुद्धः परादपरसञ्ज्ञितः ।
स सिसृक्षुः प्रजास्त्वादौ पालनं च विचिन्तयत् ॥ ३२.२ ॥
तस्य चिन्तयतस्त्वङ्गाद् दक्षिणाच्छ्वेतकुण्डलः ।
प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ॥ ३२.३ ॥
तं दृष्ट्वोवाच भगवांश्चतुष्पादं वृषाकृतिम् ।
पालयेमाः प्रजाः साधो त्वं ज्येष्ठो जगतो भव ॥ ३२.४ ॥
इत्युक्तः समवस्थोऽसौ चतुःपद्भ्यां कृते युगे ।
त्रेतायां स समस्तृभ्यां द्वे चैव द्वापरेऽभवत् ।
कलावेकेन पादेन प्रजाः पालयते प्रभुः ॥ ३२.५ ॥
षड्भेदो ब्राह्मणानां स त्रिधा क्षत्रे व्यवस्थितः ।
द्विधा वैश्येकधा शूद्रे स्थितः सर्वगतः प्रभुः ।
रसातलेषु सर्वेषु द्वीपवर्षे स्वयं प्रभुः ॥ ३२.६ ॥
द्रव्यगुणक्रियाजातिचतुःपादः प्रकीर्तितः ।
संहितापदक्रमश्चैव त्रिश्रृङ्गोऽसौ स्मृतो बुधैः ॥ ३२.७ ॥
तथा आद्यन्त ओङ्कार द्विशिराः सप्तहस्तवान् ।
त्रिबद्धबद्धो विप्राणां मुख्यः पालयते जगत् ॥ ३२.८ ॥
स धर्मः पीडितः पूर्वं सोमेनाद्भुतकर्मण ।
तारां जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य ह ॥ ३२.९ ॥
सोऽपायाद् भीषितस्तेन बलिना क्रूरकर्मणा ।
अरण्यं गहनं घोरमाविवेश तदा प्रभुः ॥ ३२.१० ॥
तस्मिन् गते सुराः सर्वे असुराणां तु पत्नयः ।
जिघृक्षन्तस्तदौकांसि बभ्रमुर्धर्मवञ्चिताः ।
असुरा अपि तद्वच्च सुरवेश्मनि बभ्रमुः ॥ ३२.११ ॥
निर्मर्यादे तथा जाते धर्मनाशे च पार्थिव ।
देवासुरा युयुधिरे सोमदोषेण कोपिताः ।
स्त्रीहेतोश्च महाभाग विविधायुधपाणयः ॥ ३२.१२ ॥
तान् दृष्ट्वा युध्यतो देवानसुरैः सह कोपितान् ।
नारदः प्राह सङ्गम्य पित्रे ब्रह्मणि हर्षितः ॥ ३२.१३ ॥
स हंसयानमारुह्य सर्वलोकपितामहः ।
निवारयामास तदा कस्यार्थे युद्धमब्रवीत् ॥ ३२.१४ ॥
सर्वे शशंसुः सोमं तु स तु बुद्ध्वा स्वकं सुतम् ।
पीडनादपयातं तु गहनं वनमाश्रितम् ॥ ३२.१५ ॥
ततो ब्रह्मा ययौ तत्र देवासुरयुतस्त्वरन् ।
ददर्श च सुरैः सार्द्धं चतुष्पादं वृषाकृतिम् ।
चरन्तं शशिसङ्काशं दृष्ट्वा देवानुवाच ह ॥ ३२.१६ ॥
ब्रह्मा उवाच ।
अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ।
पत्नीं जिघृक्षता भ्रातुर्द्धर्मसञ्ज्ञो महामुनिः ॥ ३२.१७ ॥
इदानीं तोषयध्वं वै सर्व एव सुरासुराः ।
येन स्थितिर्वो भवति समं देवासुरा इति ॥ ३२.१८ ॥
ततः सर्वे स्तुतिं चक्रुस्तस्य देवस्य हर्षिताः ।
विदित्वा ब्रह्मणो वाक्यात् सम्पूर्णशशिसन्निभम् ॥ ३२.१९ ॥
देवा ऊचुः ।
नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक ।
कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ ३२.२० ॥
त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।
जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ ३२.२१ ॥
न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् ।
विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥ ३२.२२ ॥
त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।
राजसानां रजस्त्वं च तामसानां तम एव च ॥ ३२.२३ ॥
चतुष्पादो भवान् देव चतुश्श्रृङ्गस्त्रिलोचनः ।
सप्तहस्तस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ॥ ३२.२४ ॥
त्वया हीना वयं देव सर्व उन्मार्गवर्त्तिनः ।
तन्मार्गं यच्छ मूढानां त्वं हि नः परमा गतिः ॥ ३२.२५ ॥
एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः ।
तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ॥ ३२.२६ ॥
दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा ।
क्षणेन गतसम्मोहाः सम्यक्सद्धर्मसंहिताः ॥ ३२.२७ ॥
असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् ।
अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ॥ ३२.२८ ॥
यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् ।
कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ॥ ३२.२९ ॥
यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो ।
ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ॥ ३२.३० ॥
चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वं
कृतादिभिर्ल्लक्ष्यसे येन लोकैः ।
तथा तथा कर्मभूमौ नभश्च
प्रायोयुक्तः स्वगृहं पाहि विश्वम् ॥ ३२.३१ ॥
इत्युक्तमात्रः प्रपितामहोऽधुना
सुरासुराणामथ पश्यतां नृप ।
अदृश्यतामगमत् स्वालयांश्च
जग्मुः सुराः सवृषा वीतशोकाः ॥ ३२.३२ ॥
धर्मोत्पत्तिं य इमां श्रावयीत
तदा श्राद्धे तर्पयेत पितॄंश्च ।
त्रयोदश्यां पायसेन स्वशक्त्या
स स्वर्गगामी तु सुरानुपेयात् ॥ ३२.३३ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वात्रिंशोऽध्यायः ॥ ३२ ॥