०३०

महातपा उवाच ।
श्रृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् ।
यथा वायुः शरीरस्थो धनदः सम्बभूव ह ॥ ३०.१ ॥
आद्यं शरीरं यत् तस्मिन् वायुरन्तः स्थितोऽभवत् ।
प्रयोजनान्मूर्त्तिमत्त्वमादिष्टं क्षेत्रदेवता ॥ ३०.२ ॥
तत्र मूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यये मया ।
तां श्रृणुष्व महाभाग कथ्यमानां मयानघ ॥ ३०.३ ॥
ब्रह्मणः सृष्टिकामस्य मुखाद् वायुर्विनिर्ययौ ।
प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ।
मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवत् ॥ ३०.४ ॥
सर्वेषां चैव देवानां यद् वित्तं फलमेव च ।
तत्सर्वं पाहि येनोक्तं तस्माद् धनपतिर्भवत् ॥ ३०.५ ॥
तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ।
तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ॥ ३०.६ ॥
तस्याशु धनदो देवस्तुष्टः सर्वं प्रयच्छति ।
एषा धनपतेर्मूर्तिः सर्वकिल्बिषनाशिनी ॥ ३०.७ ॥
य एतां श्रृणुयाद् भक्त्या पुरुषः पठतेऽपि वा ।
सर्वकाममवाप्नोति स्वर्गलोकं च गच्छति ॥ ३०.८ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिंशोऽध्यायः ॥ ३० ॥