महातपा उवाच ।
श्रृणु राजन्नवहितः प्रजापाल कथामिमाम् ।
यदा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ॥ २९.१ ॥
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।
चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥ २९.२ ॥
एवं चिन्तयतस्तस्य अवकाशं प्रजास्विह ।
प्रादुर्बभूवुः श्रोत्रेभ्यः दश कन्या महाप्रभाः ॥ २९.३ ॥
पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा ।
ऊर्ध्वाऽधरा च षण्मुख्याः कन्या ह्यासंस्तदा नृप ॥ २९.४ ॥
अन्याश्चतस्त्रस्तेषां तु कन्याः परमशोभनाः ।
रूपस्विन्यो महाभागा गाम्भीर्येण समन्विताः ॥ २९.५ ॥
ता ऊचुः प्रणयाद् देवं प्रजापतिमकल्मषम् ।
अवकाशं तु नो देहि देवदेव प्रजापते ॥ २९.६ ॥
यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् ।
पतयश्च महाभागा देहि नोऽव्यक्तसम्भव ॥ २९.७ ॥
ब्रह्मोवाच ।
ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।
तस्यान्ते स्वेच्छया भद्रा उष्यतां मा विलम्बत ॥ २९.८ ॥
भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।
यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥ २९.९ ॥
एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा ।
ब्रह्मापि ससृजे तूर्णं लोकपालान् महाबलान् ॥ २९.१० ॥
सृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयत् ।
विवाहं कारयामास ब्रह्मा लोकपितामहः ॥ २९.११ ॥
एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च ।
निर्ऋताय च देवाय वरुणाय महात्मने ॥ २९.१२ ॥
वायवे धनदेशाय ईशानाय च सुव्रत ।
ऊद्र्ध्वां स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम् ॥ २९.१३ ॥
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादाद् दिशां पुनः ।
दशमीं भर्तृनाम्नस्तु दध्यन्नं भोजनं प्रभुः ॥ २९.१४ ॥
ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः ।
दशमी च तिथिस्तासामतीव दयिताभवत् ॥ २९.१५ ॥
तस्यां दध्याशनो यस्तु सुव्रती भवते नरः ।
तस्य पापक्षयं तास्तु कुर्वन्त्यहरहर्नृप ॥ २९.१६ ॥
यश्चैतच्छृणुयाज्जन्म दिशां नियतमानसः ।
स प्रतिष्ठामवाप्नोति ब्रह्मलोके न संशयः ॥ २९.१७ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनत्रिंशोऽध्यायः ॥ २९ ॥