०२५

प्रजापाल उवाच ।
अहङ्कारात् कथं जज्ञे कार्त्तिकेयो द्विजोत्तम ।
एतन्मे संशयं छिन्धि पृच्छतो वै महामुने ॥ २५.१ ॥
महातपा उवाच ।
सर्वेषामेव तत्त्वानां यः परः पुरुषः स्मृतः ।
तस्मादव्यक्तमुत्पन्नं तत्त्वादि त्रिविधं तु तत् ॥ २५.२ ॥
पुरुषाव्यक्तयोर्मध्ये महत्त्वं समपद्यत ।
स चाहङ्कार इत्युक्तो यो महान् समुदाहृतः ॥ २५.३ ॥
पुरुषो विष्णुरित्युक्तः शिवो वा नामतः स्मृतः ।
अव्यक्तं तु उमा देवी श्रीर्वा पद्मनिभेक्षणा ॥ २५.४ ॥
तत्संयोगादहङ्कारः स च सेनापतिर्गुहः ।
तस्योत्पत्तिं प्रवक्ष्यामि श्रृणु राजन् महामते ॥ २५.५ ॥
आद्यो नारायणो देवस्तस्माद् ब्रह्मा ततोऽभवत् ।
अतः स्वयम्भुवश्चान्ये मरीच्याद्यार्कसम्भवाः ॥ २५.६ ॥
तेष्वारभ्य सुरा दैत्या गन्धर्वा मानुषाः खगाः ।
पशवः सर्वभूतानि सृष्टिरेषा प्रकीर्तिता ॥ २५.७ ॥
सृष्ट्यां विस्तारितायां तु देवदैत्या महाबलाः ।
सापत्न्यं भावमास्थाय युयुधुर्विजिगीषवः ॥ २५.८ ॥
दैत्यानां बलिनः सन्ति नायका युद्धदुर्मदाः ।
हिरण्यकशिपुः पूर्वं हिरण्याक्षो महाबलः ।
विप्रचित्तिर्विचित्तिश्च भीमाक्षः क्रौञ्च एव च ॥ २५.९ ॥
एतेऽतिबलिनः शूरा देवसैन्यं महामृधे ।
अनारतं सितैर्बाणैर्जयन्तेऽनुदिनं मृधे ॥ २५.१० ॥
तेषां पराजयं दृष्ट्वा देवानां तु बृहस्पतिः ।
उवाच हीनं वः सैन्यं नायकेन विना सुराः ॥ २५.११ ॥
एकेनेन्द्रेण दिव्यं तु सैन्यं पातुं न शक्यते ।
अतः सेनापतिं किञ्चिदन्वेषयत माचिरम् ॥ २५.१२ ॥
एवमुक्तास्ततो देवा जग्मुर्लोकपितामहम् ।
सेनापतिं च नो देहि वाक्यमूचुः ससम्भ्रमम् ॥ २५.१३ ॥
ततो दध्यौ चतुर्वक्त्रः किमेषां क्रियते मया ।
ब्रह्माऽथ चिन्तयामास रुद्रं प्रति मनोगतम् ॥ २५.१४ ॥
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
ब्रह्माणं पुरतः कृत्वा जग्मुः कैलासपर्वतम् ॥ २५.१५ ॥
तत्र दृष्ट्वा महादेवं शिवं पशुपतिं विभुम् ।
तुष्टवुर्विविधैस्तोत्रैः शक्राद्यास्त्रिदिवौकसः ॥ २५.१६ ॥
देवा ऊचुः ।
नमाम सर्वे शरणार्थिनो वयं
महेश्वरं त्र्यम्बकभूतभावनम् ।
उमापते विश्वपते मरुत्पते
जगत्पते शङ्कर पाहि नः स्वयम् ॥ २५.१७ ॥
जटाकलापाग्रशशाङ्कदीधिति-
प्रकाशिताशेषजगत्त्रयामल ।
त्रिशूलपाणे पुरुषोत्तमाच्युत
प्रपाहि दैत्याच्च जगत्त्रयोदरे ॥ २५.१८ ॥
त्वमादिदेवः पुरुषोत्तमो हरि-
र्भवो महेशस्त्रिपुरान्तको विभुः ।
भगाक्षिहा दैत्यरिपुः पुरातनो
वृषध्वजः पाहि सुरोत्तमोत्तम ॥ २५.१९ ॥
गिरीशजानाथ गिरिप्रियाप्रिय
प्रभो समस्तामरलोकपूजित ।
गणेश भूतेश शिवाक्षयाव्यय
प्रपाहि नो दैत्यवरान्तकाच्युत ॥ २५.२० ॥
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो
ध्वनिस्वरूपो गगने विशेषतः ।
वायौ द्विधा तेजसि च त्रिधा जले
चतुः क्षितौ पञ्चगुणः प्रपाहि नः ॥ २५.२१ ॥
अग्निस्वरूपोऽसि तरौ तथोपले
सत्त्वस्वरूपोऽसि तथा जलेष्वपि ।
तेजःस्वरूपो भगवान् महेश्वरः
प्रपाहि नो दैत्यगणार्दितान् हर ॥ २५.२२ ॥
नासीद्यदाऽकाण्डमिदं त्रिलोचन
प्रभाकरेन्द्रद्रविणाधिपाः कुतः ।
तदा भवानेव विरुद्धलोचन
प्रमाणबाधादिविवर्जितः स्थितः ॥ २५.२३ ॥
कपालमालिन् शशिखण्डशेखर
श्मशानवासिन् सितभस्मगुण्ठित ।
फणीन्द्रसंवीततनोऽन्तकापह
प्रपाहि नो दक्षधिया सुरेश्वर ॥ २५.२४ ॥
भवान् पुमान् शक्तिरियं गिरेः सुता
सर्वाङ्गरूपा भगवंस्तथा त्वयि ।
त्रिशूलरूपेण जगत्त्रयं करे
स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ॥ २५.२५ ॥
जटास्वरूपेण समस्तसागराः
कुलाचलाः सिन्धुवहाश्च सर्वशः ।
शशी परं ज्ञानमिदं तव स्थितं
न देव पश्यन्ति कुदृष्टयो जनाः ॥ २५.२६ ॥
नारायणस्त्वं जगतां समुद्भव-
स्तथा भवः सैव चतुर्मुखो भवान् ।
सत्त्वादिभेदेन तथाग्निभेदतो
युगादिभेदेन च संस्थितस्त्रिधा ॥ २५.२७ ॥
भवन्तमेते सुरनायकाः प्रभो
भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।
यतस्ततो नो भव भूतिभूषण
प्रपाहि विश्वेश्वर रुद्र ते नमः ॥ २५.२८ ॥
महातपा उवाच ।
एवं स्तुतस्तदा देवो रुद्रः पशुपतिः सुरैः ।
उवाच देवानव्यग्रः किं कार्यं ब्रूत मा चिरम् ॥ २५.२९ ॥
देवा ऊचुः ।
सेनापतिं नो देवेश देहि दैत्यवधाय वै ।
देवानां ब्रह्ममुख्यानामेतदेव हितं भवेत् ॥ २५.३० ॥
रुद्र उवाच ।
ददामि सेनानाथं वो देवा भवत विज्वराः ।
भविष्यमस्ति पौराणं योगादीनामचिन्तयन् ॥ २५.३१ ॥
एवमुक्त्वा हरो देवान् विसृज्य स्वाङ्गसंस्थिताम् ।
शक्तिं सङ्क्षोभयामास पुत्रहेतोः परन्तप ॥ २५.३२ ॥
तस्य क्षोभयतः शक्तिं ज्वलनार्कसमप्रभः ।
कुमारः सहजां शक्तिं बिभ्रज्ज्ञानैकशालिनीम् ॥ २५.३३ ॥
उत्पत्तिस्तस्य राजेन्द्र बहुरूपा व्यवस्थिता ।
मन्वन्तरेष्वनेकेषु देवसेनापतिः किल ॥ २५.३४ ॥
योऽसौ शरीरगो देवः अहङ्कारेति कीर्त्तितः ।
प्रयोजनवशाद् देवः सैव सेनापतिर्विभो ॥ २५.३५ ॥
तस्मिन् जाते स्वयं ब्रह्मा सर्वदैवैः समन्वितः ।
पूजयामास देवेशं शिवं पशुपतिं तदा ॥ २५.३६ ॥
सर्वैश्च देवै ऋषिभिश्च सिद्धैः
सेनापतिर्वरदानेन तेन ।
आप्यायितः सोऽपि सुरानुवाच
सखायार्थं क्रडने कार्यमेव ॥ २५.३७ ॥
श्रुत्वा वचस्तस्य् महानुभावो
महादेवो वाक्यमिदं जगाद ।
ददामि ते क्रीडनकं तु कुक्कुटं
तथानुगौ शाखविशाखसञ्ज्ञौ ।
कुमार भूतग्रहनायको भवान्
भवस्व देवेश्वर सेनयापतिः ॥ २५.३८ ॥
एवमुक्त्वा ततो देवः सर्वे देवाश्च पार्थिव ।
तुष्टुवुर्वाग्भिरिष्टाभिः स्कन्दं सेनापतिं तदा ॥ २५.३९ ॥
देवा ऊचुः ।
भवस्व देवसेनानीर्महेश्वरसुत प्रभो ।
षण्मुख स्कन्द विश्वेश कुक्कुटध्वज पावके ॥ २५.४० ॥
कम्पितारे कुमारेश स्कन्द बालग्रहानुग ।
जितारे क्रौञ्चविध्वंस कृत्तिकासुत मातृज ॥ २५.४१ ॥
भूतग्रहपतिश्रेष्ठ पावकि प्रियदर्शन ।
महाभूतपतेः पुत्र त्रिलोचन नमोऽस्तु ते ॥ २५.४२ ॥
एवं स्तुतस्तदा देवैर्ववर्ध भवनन्दनः ।
द्वादशादित्यसङ्काशो बभूवाद्भुतदर्शनः ।
त्रैलोक्यमपि तत्तेजस्तापयामास पार्थिव ॥ २५.४३ ॥
प्रजापाल उवाच ।
कथं तं कृत्रिकापुत्रमुक्तवन्तः सुरं गुरुम् ।
कथं च पावकिरसौ कथं वा मातृनन्दनः ॥ २५.४४ ॥
महातपा उवाच ।
आदिमन्वन्तरे देव उत्पत्तिर्या मयोदिता ।
परोक्षदर्शिभिर्देवैरेवमेव स्तुतः प्रभुः ॥ २५.४५ ॥
कृत्तिका पावकस्त्वन्यमातरो गिरिजा तथा ।
द्विजीयजन्मनि गुहस्यैते उत्पत्तिहेतवः ॥ २५.४६ ॥
एवमेतत् तवाख्यातं पृच्छतः पार्थिवोत्तम ।
आत्मविद्याऽमृतं गुह्यमहङ्कारस्य सम्भवः ॥ २५.४७ ॥
स्वयं स्कन्दो महादेवः सर्वपापप्रणाशनः ।
तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ॥ २५.४८ ॥
एतां फलाशनो यस्तु क्षयेन्नियतमानसः ।
अपुत्रोऽपि लभेत् पुत्रानधनोऽपि धनं लभेत् ।
यं यमिच्छेत मनसा तं तं लभति मानवः ॥ २५.४९ ॥
यश्चैतत् पठति स्तोत्रं कार्तिकेयस्य मानवः ।
तस्य गेहे कुमाराणां क्षेमारोग्यं भविष्यति ॥ २५.५० ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चविंशोऽध्यायः ॥ २५ ॥