०१९

महातपा उवाच ।
विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।
तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ॥ १९.१ ॥
इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो ।
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥ १९.२ ॥
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्वाणां च सत्तम ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ॥ १९.३ ॥
त्वत्पदात् प्रतिपदं चान्या सम्भविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥ १९.४ ॥
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना ।
होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ॥ १९.५ ॥
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।
देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ॥ १९.६ ॥
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने ।
क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ॥ १९.७ ॥
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते ।
तेजस्वी रूपसम्पन्नो द्रव्यवान् जायते नरः ॥ १९.८ ॥
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते ।
तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ॥ १९.९ ॥
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥ १९.१० ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनविंशोऽध्यायः ॥ १९ ॥