खुरमध्यगतो यस्य मेरुः खणखणायते ॥ १.१ ॥
दंष्ट्राग्रेणोद्धृता गौरुदधिपरिवृता पर्वतैर्निम्नगाभिः
साकं मृत्पिण्डवत् प्राग्बृहदुरुवपुषाऽनन्तरूपेण येन।
सोऽयं कंसासुरारिर्मुरनरकदशास्यान्तकृत्सर्वसंस्थः
कृष्णो विष्णुः सुरेशो नुदतु मम रिपूनादिदेवो वराहः॥ १.२ ॥
यः संसारार्णवे नौरिव मरणजराव्याधिनक्रोर्मिभीमे
भक्तानां भीतिहर्ता मुरनरकदशास्यान्तकृत् कोलरूपी।
विष्णुः सर्वेश्वरोऽयं यमिह कृतधियो लीलया प्राप्नुवन्ति
मुक्तात्मानो नपापं भवत्तु नुदितारातिपक्षः क्षितीशः ॥ १.३ ॥
सूत उवाच।
यस्मिन् काले क्षितिः पूर्वं वराहवपुषा तु सा।
उद्धृता विष्णुना भक्त्या पप्रच्छ परमेश्वरम् ॥ १.४ ॥
धरण्युवाच।
कल्पे कल्पे भवानेव मां समुद्धरते विभो।
न चाहं वेद ते मूर्तिं नादिसर्गं च केशव॥ १.५ ॥
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम्।
प्रविश्य तानपाकृष्य ब्रह्मणे दत्तवानसि ॥ १.६ ॥
अन्यत् सुरासुरमयं त्वं समुद्रस्य मन्थने।
धृतवानसि कौर्म्येण मन्दरं मधुसूदन ॥ १.७ ॥
पुनर्वाराहरूपेण मां गच्छन्तीं रसातलम् ।
उज्जहारैकदंष्ट्रेण भगवान् वै महार्णवात्॥ १.८ ॥
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः।
आबाधमानः पृथिवीं स त्वया विनिपातितः ।
बलिस्तु बद्धो भगवंस्त्वया वामनरूपिणा ॥ १.९ ॥
पुनर्निःक्षत्रिया देव त्वया चापि पुरा कृता ।
जामदग्न्येन रामेण त्वया भूत्वाऽसकृत्प्रभो ॥ १.१० ॥
पुनश्च रावणो रक्षः क्षपितं क्षात्रतेजसा ।
न च जानाम्यहं देव तव किञ्चिद्विचेष्टितम् ॥ १.११ ॥
उद्धृत्य मां कथं सृष्टिं सृजसे किं च सा त्वया।
सकृद् ध्रियेत कृत्वा च पाल्यते चापि केन च ॥ १.१२ ॥
केन वा सुलभो देव जायसे सततं विभो ।
कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ॥ १.१३ ॥
कथं युगस्य गणना सङ्ख्याऽस्यानुचतुर्युगम् ।
के वा विशेषास्तेष्वस्मिन् का वाऽवस्था महेश्वर ॥ १.१४ ॥
यज्वानः के च राजानः के च सिद्धिं परां गताः ।
एतत्सर्वं समासेन कथयस्व प्रसीद मे ॥ १.१५ ॥
इत्युक्तः क्रोडरूपेण जहास परमेश्वरः ।
हसतस्तस्य कुक्षौ तु जगद्धात्री ददर्श ह ॥
रुद्रान् देवान् सवसवः सिद्धसङ्घान् महर्षिभिः ॥ १.१६ ॥
सचन्द्रसूर्यग्रहसप्तलोका-
नन्तः स्थितांस्तावदुपात्तधर्मान् ।
इतीदृशं पश्यति सा समस्तं
यावत्क्षितिर्वेपितसर्वगात्रा ॥ १.१७ ॥
उन्मीलितास्यस्तु यदा महात्मा
दृष्टो धरण्याऽमलसर्वगात्र्या ।
तावत्स्वरूपेण चतुर्भुजेन
महोदधौ सुप्तमथोऽन्वपश्यत् ॥ १.१८ ॥
शेषपर्यङ्कशयने सुप्तं देवं जनार्दनम् ।
दृष्ट्वा तन्नाभिपङ्कस्थमन्तःस्थं च चतुर्मुखम्।
कृताञ्जलिपुटा देवी स्तुतिं धात्री जगाद ह ॥ १.१९ ॥
धरण्युवाच।
नमः कमलपत्राक्ष नमस्ते पीतवाससे।
नमः सुरारिविध्वंसकारिणे परमात्मने ॥ १.२० ॥
शेषपर्यङ्कशपने धृतवक्षस्थलश्रिये ।
नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ॥ १.२१ ॥
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जिते।
नमो नाभ्युत्थितमहत्कमलासनजन्मने ॥ १.२२ ॥
नमो विद्रुमरक्तास्यपाणिपल्लवशोभिने ।
शरणं त्वां प्रसन्नाऽस्मि त्राहि नारीमनागसम् ॥ १.२३ ॥
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन।
दृष्ट्वा भीताऽस्मि भूयोऽपि जगत् त्वद्देहगोचरम्।
इदानीं कुरु मे नाथ दयां त्राहि महाभयात्॥ १.२४ ॥
केशवः पातु मे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ १.२५ ॥
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः ।
ऊरुं त्रिविक्रमः पातु हृदयं पातु वामनः ॥ १.२६ ॥
श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ॥ १.२७ ॥
एवं न्यस्य हरेर्न्यासमामानि जगती तदा ।
नमस्ते भगवन् विष्णो इत्युक्त्वा विरराम ह ॥ १.२८ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रथमोऽध्यायः ॥ १ ॥