१०५

अथ पञ्चाधिकशततमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

चतुर्युगं नः कथितं सङ्क्षेपाद्भवताखिलम्।
कलिं विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव ॥१॥

मूलम्

भगवत्यमले विष्णौ क्रीडया कृष्णतां गते।
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा ॥२॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः।
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् ॥३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

तपः परं कृतयुगे त्रेतायां यज्ञ एव हि।
प्रधानं द्वापरे दानं सत्यमेव कलौ युगे ॥४॥

कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ॥५॥

मूलम्

कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ॥५॥

विश्वास-प्रस्तुतिः

रागादिदोषदुष्टेन मनसा यत्तपो नृप।
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये ॥६॥

त्रेतायां तु क्रियायज्ञान्मनोयज्ञांस्ततो नराः।
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो ॥७॥

द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत्।
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः ॥८॥

न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ।
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् ॥९॥

यथा सत्यं तथा क्षान्तिरहिंसा च कलौ युगे।
परोपतापाद्विरतिर्नराणामुपकारिका ॥१०॥

तस्मिन्घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते।
यादृग्रूपं जगदिदं भवतीह शृणुष्व तत् ॥११॥

राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर।
व्याजधर्मपराश्चैव धर्मवैतंसिका जनाः ॥१२॥

सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः।
सत्यहान्या ततस्तेषां स्वल्पमायुर्भविष्यति ॥१३॥

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्।
विद्याहीनानबुद्धींस्तांल्लोभोऽप्यभिभविष्यति ॥१४॥

लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ॥१५॥

मूलम्

लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ॥१५॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः ॥१६॥

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः।
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते ॥१७॥

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः।
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे ॥१८॥

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः।
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप ॥१९॥

सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥२०॥

अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात्पुरुषर्षभ।
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः ॥२१॥

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः ॥२२॥

प्रायशः कृपणानां च तथा बन्धिमतामपि।
विधवानां च वित्तानि हरिष्यन्ति बलान्विताः ॥२३॥

अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम्।
वेश्यालावण्यभावेषु स्पृहां योषित्करिष्यति ॥२४॥

कन्यां न याचिता कश्चिन्न च कन्याप्रदो नरः।
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् ॥२५॥

भार्या न पतिशुश्रूषां तदा काचित्करिष्यति।
नरा देवद्विजांस्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः ॥२६॥

यज्ञभागभुजो देवा ये वेदपठिता द्विजाः।

विश्वास-प्रस्तुतिः

ब्रह्माद्यास्तान्परित्यज्य नराः कालबलात्कृताः।
हेतुवादपरा देवान्करिष्यन्त्यपरांस्तदा ॥२७॥

ये यवान्ना जनपदा गोधूमान्नास्तथैव च।
तान्देशान्संश्रयिष्यन्ति नराः कलियुगे नृप ॥२८॥

न श्राद्धैश्च पितॄंश्चापि तर्पयिष्यन्ति मानवाः।
बहु मंस्यन्ति ते स्नानं नापि शौचपरा नराः ॥२९॥

न विष्णुभक्तिप्रवणं नराणां नृप मानसम्।
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते ॥३०॥

विनिन्दां प्रथमे पादे करिष्यन्ति हरेर्नराः।
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति ॥३१॥

धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः।
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः ॥३२॥

ध्यायन्हरिं कृतयुगे त्रेताद्वापरयोर्यजन्।
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् ॥३३॥

हरिर्हरति पापानि नाम भक्त्या यदीरितम्।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ॥३४॥

मूलम्

हरिर्हरति पापानि नाम भक्त्या यदीरितम्।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ॥३४॥

विश्वास-प्रस्तुतिः

बहुपाषण्डसङ्कीर्णे जगत्यस्मिन्कलौ युगे।
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति ॥३५॥

हेतुवादबलैर्मोहं कुहकैश्च जने तदा।
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः ॥३६॥

पाषण्डभूतमत्यर्थं जगदेतदसत्कृतम्।
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् ॥३७॥

न तु द्विजातिशुश्रूषां न स्वधर्मानुपालनम्।
करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनो वृथा ॥३८॥

उत्कोचाः सौगताश्चैव महायानरतास्तथा।
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा ॥३९॥

वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे।
भविष्यन्ति दुरात्मानः शूद्राः कलियुगे नृप ॥४०॥

निःशौचा वक्रमतयः परपाकान्नभोजनाः।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तदा ॥४१॥

एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे ॥४२॥

राजशुल्कहराः क्षुद्रागृहस्थपरिमोषकाः।
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः ॥४३॥

न द्विजान्न कलौ देवान्पूजयिष्यन्ति मानवाः।
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः ॥४४॥

एवं तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः।
भविष्यन्त्यपरे दुष्टास्तेषां मार्गानुयायिनः ॥४५॥

असंस्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः।
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः ॥४६॥

तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते।
जगत्यत्र तदा नॄणां स्वल्पमायुर्भविष्यति ॥४७॥

परमायुश्च भविता तदा वर्षाणि षोडश।
ततः प्राणान्प्रहास्यन्ति कृष्णे कृष्णत्वमागते ॥४८॥

पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते।
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा ॥४९॥

अल्पद्रव्या वृथालिङ्गा हिंसारतिपरायणाः।
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः ॥५०॥

शुक्लादानपराः क्षुद्राः परपाकाशिनो द्विजाः।
वैश्यास्तथा तु राजानो न तु क्षत्रियवंशजाः ॥५१॥

शूद्राभिक्षवता विप्राः शुश्रूषाविपणाश्रिताः।
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते ॥५२॥

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा।
न भार्या न पतिर्भूप भविता तत्र सङ्कुले ॥५३॥

एतत्कालस्वरूपं ते शतानीक मयोदितम्।
विष्णुभक्तान्नरश्रेष्ठ न नरान्बाधते कलिः ॥५४॥

येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम्।
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ॥५५॥

ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः संस्थितास्तथा।
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते ॥५६॥

सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः।
यस्य भावो न तं भूप कदाचिद्बाधते कलिः ॥५७॥

न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते।
भगवत्यच्युते नित्यं येन भावः समर्पितः ॥५८॥

कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः।
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः ॥५९॥

कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ॥६०॥

अनिष्ट्वापि महायज्ञैरकृत्वापि पितृस्वधाम्।
कृष्णमभ्यर्च्य यद्भक्त्या नैनं श्वोमरणं तपेत् ॥६१॥

यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥६२॥

एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ।
तन्मना भव तच्चित्तस्तन्मना नावसीदति ॥६३॥

परमार्थमशेषस्य जगतः प्रभवाव्ययम्।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ॥६४॥

कलिकल्मषकक्षाग्निं निर्वाणं पदमव्ययम्।
सर्वकारणमव्यक्तं विष्णुं ध्यायन्न सीदति ॥६५॥

यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते।
यत्रार्चितेऽर्चनीयश्च जायते तं नमाम्यहम् ॥६६॥

जगत्स्रष्टारमिशेशमनादिं परतः परम्।
सर्वास्पदं सर्वभूतं गच्छन्सर्वात्मना हरिम् ॥६७॥

हरत्यघमशेषं यो हरिरित्यभिसंस्तुतः।
अशेषाघहरं विष्णुं हरिवर्णं हरिं नमः ॥६८॥

यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः।
तमात्मनि स्थितं भूप पुण्डरीकेक्षणं नमः ॥६९॥

अपवित्रः पवित्रो वा सर्वावस्थगतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥७०॥

यद्यप्युपहतः पापैर्यदि वात्यन्तदुष्कृतैः।
तथापि संस्मरन्विष्णुं स बाह्याभ्यन्तरः शुचिः ॥७१॥

कलावत्रातिदोषाढ्ये विषयासक्तमानसः।
कृत्वापि पापं गोविन्दं ध्यायन्पापैर्विमुच्यते ॥७२॥

तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः।
तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥७३॥

नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप।
परमार्थपदं ब्रूयाद्यदेतत्ते मयोदितम् ॥७४॥

संसारे भ्रमता लभ्यं पुत्रदारधनं वसु।
सुहृदश्च तथिवान्ये नोपदेशो नृपेदृशः ॥७५॥

किं पुत्रदारैर्वित्तैर्वा न मित्रे क्षेत्रबान्धवैः।
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये ॥७६॥

यो नैकाग्रमना विष्णाविति ज्ञात्वापि पार्थिव।
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् ॥७७॥

द्विविधो भूतसर्गोऽयं दैव आसुर एव च।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥७८॥

उपदेशप्रदानेन सम्भूतित्रय आसुरः।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ॥७९॥

मूलम्

उपदेशप्रदानेन सम्भूतित्रय आसुरः।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ॥७९॥

विश्वास-प्रस्तुतिः

उपदेशेषु सोऽत्यन्तं संरम्भी युक्तियोजितम्।
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् ॥८०॥

स्नातस्य देवकार्येषु तथापत्सु कथासु च।
आसुरस्यापि तन्मात्रा जायते नृपते मतिः ॥८१॥

इति मत्वातिसद्भावं रहस्यं परमीरितम्।
त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन ॥८२॥

अप्राप्य वाञ्छति रतिं सर्वदैव नृणां मनः।
इहैवाच्युतसंसर्गि यदि तत्किं प्रहीयते ॥८३॥

तदलं तव राज्येन बलकोशादिभिस्तथा।
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा ॥८४॥

एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनम्।
सुखप्रीतिकरं नॄणां पततां निर्वृतिप्रदम् ॥८५॥

येषां गृहेषु लिखितमेतत्स्थास्यति नित्यदा।
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः ॥८६॥

किं तीर्थैः किं प्रदानैर्वा किं यज्ञैः किमुपोषितैः।
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः ॥८७॥

यओ ददाति तिलप्रस्थं सुवर्णस्य च मासकम्।
शृणोति श्लोकमेकं च धर्मस्यास्य समं हि तत् ॥८८॥

अध्यायपारणं चास्य गोप्रदानाः विशिष्यते।
शृण्वंश्चास्य दशाध्यायान्सद्यः पापैः प्रमुच्यते ॥८९॥

रात्र्या यदेनः कुरुते दिवसेन च मानवः।
श्रोतुं वाञ्छा समस्तं तत्पार्थिवस्य व्यपोहति ॥९०॥

कपिलानां शते दत्ते यद्भवेज्ज्येष्टपुष्करे।
नरेन्द्रविष्णुधर्माणां तदावाप्नोति पारणे ॥९१॥

प्रवृत्तौ च निवृत्तौ च धर्मं धर्मभृतां वर।
नास्त्यन्यद्विष्णुधमाणां सदृशं शास्त्रमुत्तमम् ॥९२॥

मैत्रीं करोति भूतेषु भक्तिमत्यन्तमच्युते।
श्रुत्वा धर्मानिमान्वेत्ति अभेदेनात्मनो जगत् ॥९३॥

पठन्ननुदिनं धर्मानेताञ्शृण्वंस्तथापि वा।
भक्त्या मतिमतां श्रेष्ठ सर्वपापैः प्रमुच्यते ॥९४॥

नोपसर्गो न चानर्थो न चौराग्निभयं गृहे।
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकं स्थितम् ॥९५॥

न गर्भहारिणी भीतिर्न च बालग्रहा गृहे।
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् ॥९६॥

शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः।
ऋद्धिं प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥९७॥

यश्चैतान्नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः।
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः ॥९८॥

तस्य पापं तथा रोगान्दुःस्वप्नाद्याभिचारुकान्।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ॥९९॥

हेमन्ते य इमान्धर्माञ्शृणोति वसुधाधिप।
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलं लभेत् ॥१००॥

शिशिरे च नरव्याघ्र यः शृणोति यथाविधि।
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलं नरः ॥१०१॥

मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान्।
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलं फलम् ॥१०२॥

शृण्वन्नेतान्निदाघे च धर्मान्धर्मभृतां वर।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१०३॥

वर्षासु चेमान्यो धर्मान्संशृण्वन्वसुधाधिप।
राजसूयक्रतोः पुण्यमखिलं समवाप्नुयात् ॥१०४॥

शरत्काले च संशृण्वन्धर्मानेतान्नरर्षभ।
प्राप्नोति गोसवफलं सम्यक् श्रद्धासमन्वितः ॥१०५॥

ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव।
फलं भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः ॥१०६॥

कपिलानां शतस्योक्तं यत्फलं ज्येष्ठपुष्करे।
भूयो भूयस्तदाप्नोति पारणे पारणे गते ॥१०७॥

भक्त्या पठति यश्चैतान्देवस्य पुरतो हरेः।
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् ॥१०८॥

सर्वाबाधास्तथा पापमखिलं मनुजेश्वर।
विष्णुधर्मा व्यपोहन्ति संस्मृताः पठिताः श्रुताः ॥१०९॥

एतत्ते सर्वमाख्यातं रहस्यं परमं हरेः।
नातः परतरं किञ्चिच्छ्राव्यं शुतिसुखावहम् ॥११०॥

अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः।
न दुर्लभं नरव्याघ्र परमं ब्रह्म शाश्वतम् ॥१११॥

इति विष्णुधर्मेषु शास्त्रमाहात्म्यं परामृतं धर्मोत्तमं परिसमाप्तमिति।