१०२

अथ द्व्यधिकशततमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम्।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः ॥१॥

मूलम्

श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम्।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः ॥१॥

विश्वास-प्रस्तुतिः

अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् ॥२॥

मूलम्

अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् ॥२॥

विश्वास-प्रस्तुतिः

क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ॥३॥

मूलम्

क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ॥३॥

विश्वास-प्रस्तुतिः

सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम्।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥४॥

मूलम्

सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम्।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम्।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ॥५॥

मूलम्

सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम्।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ॥५॥

विश्वास-प्रस्तुतिः

पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर।
देवदेवो जगद्धाता परमात्मा जनार्दनः ॥६॥

मूलम्

पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर।
देवदेवो जगद्धाता परमात्मा जनार्दनः ॥६॥

विश्वास-प्रस्तुतिः

जगतः पालनार्थाय दुर्वृत्तनिधनाय च।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ॥७॥

मूलम्

जगतः पालनार्थाय दुर्वृत्तनिधनाय च।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ॥७॥

विश्वास-प्रस्तुतिः

स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ॥८॥

मूलम्

स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ॥८॥

विश्वास-प्रस्तुतिः

तुरीयांशेन धर्मस्य भगवान्भूतभावनः।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ॥९॥

मूलम्

तुरीयांशेन धर्मस्य भगवान्भूतभावनः।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ॥९॥

विश्वास-प्रस्तुतिः

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥१०॥

मूलम्

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥१०॥

विश्वास-प्रस्तुतिः

तेषां नारायणनरौ गन्धमादनपर्वते।
आत्मन्यात्मानमाधाय तेपते परमं तपः ॥११॥

मूलम्

तेषां नारायणनरौ गन्धमादनपर्वते।
आत्मन्यात्मानमाधाय तेपते परमं तपः ॥११॥

ध्यायमानावनौपम्यं स्वकारणमकारणम्।

विश्वास-प्रस्तुतिः

वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम्।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ ॥१२॥

मूलम्

वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम्।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ ॥१२॥

विश्वास-प्रस्तुतिः

तयोस्तपःप्रभावेण न तताप दिवाकरः।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः ॥१३॥

मूलम्

तयोस्तपःप्रभावेण न तताप दिवाकरः।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः ॥१३॥

विश्वास-प्रस्तुतिः

शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ॥१४॥

मूलम्

शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ॥१४॥

विश्वास-प्रस्तुतिः

तयोर्गौरवभारार्ता पृथिवी पृथिवीपते।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः ॥१५॥

मूलम्

तयोर्गौरवभारार्ता पृथिवी पृथिवीपते।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः ॥१५॥

विश्वास-प्रस्तुतिः

देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः।
बभूवुरवनीपाल परमं क्षोभमागताः ॥१६॥

मूलम्

देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः।
बभूवुरवनीपाल परमं क्षोभमागताः ॥१६॥

विश्वास-प्रस्तुतिः

देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया ॥१७॥

मूलम्

देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया ॥१७॥

इन्द्रउवाच।

विश्वास-प्रस्तुतिः

रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते ॥१८॥

मूलम्

रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते ॥१८॥

अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि।

विश्वास-प्रस्तुतिः

विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम्।
गन्धमादनमासाद्य कुरुध्वं वचनं मम ॥१९॥

मूलम्

विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम्।
गन्धमादनमासाद्य कुरुध्वं वचनं मम ॥१९॥

विश्वास-प्रस्तुतिः

नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् ॥२०॥

मूलम्

नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् ॥२०॥

विश्वास-प्रस्तुतिः

तावस्माकं वरारोहाः कुर्वाणौ परमं तपः।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ ॥२१॥

मूलम्

तावस्माकं वरारोहाः कुर्वाणौ परमं तपः।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ ॥२१॥

विश्वास-प्रस्तुतिः

तद्गच्छत न भीः कार्या भवतीभिरिदं वचः।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ॥२२॥

मूलम्

तद्गच्छत न भीः कार्या भवतीभिरिदं वचः।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ॥२२॥

विश्वास-प्रस्तुतिः

रूपं च वः समालोक्य मदनोद्दीपनं परम्।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥२३॥

मूलम्

रूपं च वः समालोक्य मदनोद्दीपनं परम्।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥२३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

इत्युक्ता देवराजेन मदनेन समं तदा।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥२४॥

मूलम्

इत्युक्ता देवराजेन मदनेन समं तदा।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥२४॥

विश्वास-प्रस्तुतिः

गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम्।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥२५॥

मूलम्

गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम्।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥२५॥

विश्वास-प्रस्तुतिः

प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् ॥२६॥

मूलम्

प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् ॥२६॥

विश्वास-प्रस्तुतिः

गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥२७॥

मूलम्

गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥२७॥

विश्वास-प्रस्तुतिः

वराङ्गनाश्च ताः सर्वा नरनारायणावृषी।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः ॥२८॥

मूलम्

वराङ्गनाश्च ताः सर्वा नरनारायणावृषी।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः ॥२८॥

विश्वास-प्रस्तुतिः

जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः।
अवादयंस्तथैवान्या मनोहरतरं नृप ॥२९॥

मूलम्

जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः।
अवादयंस्तथैवान्या मनोहरतरं नृप ॥२९॥

विश्वास-प्रस्तुतिः

हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥३०॥

मूलम्

हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥३०॥

विश्वास-प्रस्तुतिः

तथापि न तयोः कश्चिन्मनसः पृथिवीपते।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥३१॥

मूलम्

तथापि न तयोः कश्चिन्मनसः पृथिवीपते।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥३१॥

विश्वास-प्रस्तुतिः

निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ॥३२॥

मूलम्

निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ॥३२॥

विश्वास-प्रस्तुतिः

पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ॥३३॥

मूलम्

पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ॥३३॥

विश्वास-प्रस्तुतिः

सर्वभूतहितौ ब्रह्म वासुदेवमयं परम्।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ॥३४॥

मूलम्

सर्वभूतहितौ ब्रह्म वासुदेवमयं परम्।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ॥३४॥

विश्वास-प्रस्तुतिः

स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः।
विद्यामयं दीपयुतमन्धकारमिवालयम् ॥३५॥

मूलम्

स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः।
विद्यामयं दीपयुतमन्धकारमिवालयम् ॥३५॥

विश्वास-प्रस्तुतिः

पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम्।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥३६॥

मूलम्

पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम्।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥३६॥

विश्वास-प्रस्तुतिः

यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम्।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥३७॥

मूलम्

यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम्।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥३७॥

विश्वास-प्रस्तुतिः

दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥३८॥

मूलम्

दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥३८॥

विश्वास-प्रस्तुतिः

ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥३९॥

मूलम्

ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥३९॥

विश्वास-प्रस्तुतिः

ततो गुरुतरं यत्नं वसन्तमदनौ नृप।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ॥४०॥

मूलम्

ततो गुरुतरं यत्नं वसन्तमदनौ नृप।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ॥४०॥

विश्वास-प्रस्तुतिः

अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ॥४१॥

मूलम्

अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ॥४१॥

विश्वास-प्रस्तुतिः

त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ॥४२॥

मूलम्

त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ॥४२॥

विश्वास-प्रस्तुतिः

तां विलोक्य महीपाल चकम्पे माधवानिलम्।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ॥४३॥

मूलम्

तां विलोक्य महीपाल चकम्पे माधवानिलम्।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ॥४३॥

विश्वास-प्रस्तुतिः

रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ॥४४॥

मूलम्

रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ॥४४॥

विश्वास-प्रस्तुतिः

ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥४५॥

मूलम्

ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥४५॥

विश्वास-प्रस्तुतिः

प्रसीदतु जगद्धाता यस्य देवस्य मायया।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ॥४६॥

मूलम्

प्रसीदतु जगद्धाता यस्य देवस्य मायया।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ॥४६॥

विश्वास-प्रस्तुतिः

प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ॥४७॥

मूलम्

प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ॥४७॥

विश्वास-प्रस्तुतिः

नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥४८॥

मूलम्

नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥४८॥

विश्वास-प्रस्तुतिः

निधानं सर्वविद्यानां सर्वपापेन्धनानलः।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ॥४९॥

मूलम्

निधानं सर्वविद्यानां सर्वपापेन्धनानलः।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ॥४९॥

विश्वास-प्रस्तुतिः

शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ॥५०॥

मूलम्

शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ॥५०॥

विश्वास-प्रस्तुतिः

जटाकलापबन्धोऽयमनयोरक्षयात्मनोः।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ॥५१॥

मूलम्

जटाकलापबन्धोऽयमनयोरक्षयात्मनोः।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ॥५१॥

विश्वास-प्रस्तुतिः

प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ॥५२॥

मूलम्

प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ॥५२॥

विश्वास-प्रस्तुतिः

क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ॥५३॥

मूलम्

क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ॥५३॥

विश्वास-प्रस्तुतिः

तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम्।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ॥५४॥

मूलम्

तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम्।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ॥५४॥

विश्वास-प्रस्तुतिः

शरणं च प्रपन्नानां तवास्मीति च वादिनाम्।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥५५॥

मूलम्

शरणं च प्रपन्नानां तवास्मीति च वादिनाम्।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥५५॥

विश्वास-प्रस्तुतिः

एष एव वरोऽस्माकमविवेकाहृतो महान्।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ॥५६॥

मूलम्

एष एव वरोऽस्माकमविवेकाहृतो महान्।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ॥५६॥

विश्वास-प्रस्तुतिः

प्रसीद देव विज्ञानघनमूढदृशामपि।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ॥५७॥

मूलम्

प्रसीद देव विज्ञानघनमूढदृशामपि।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ॥५७॥

विश्वास-प्रस्तुतिः

दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम्।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥५८॥

मूलम्

दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम्।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥५८॥

विश्वास-प्रस्तुतिः

तेन सत्येन सत्यात्मन्परमात्मन्सनातनम्।
नारायण प्रसीदेति सर्वलोकपरायण ॥५९॥

मूलम्

तेन सत्येन सत्यात्मन्परमात्मन्सनातनम्।
नारायण प्रसीदेति सर्वलोकपरायण ॥५९॥

विश्वास-प्रस्तुतिः

प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥६०॥

मूलम्

प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥६०॥

विश्वास-प्रस्तुतिः

नमस्यामो नरं देवं तथा नारायणं हरिम्।
नमो नराय नम्याय नमो नारायणाय च ॥६१॥

मूलम्

नमस्यामो नरं देवं तथा नारायणं हरिम्।
नमो नराय नम्याय नमो नारायणाय च ॥६१॥

विश्वास-प्रस्तुतिः

प्रसन्नानामनाथानामपराधवतां प्रभुः।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥६२॥

मूलम्

प्रसन्नानामनाथानामपराधवतां प्रभुः।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥६२॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ॥६३॥

मूलम्

एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ॥६३॥

विश्वास-प्रस्तुतिः

स्वागतं मधवे काम भवतोऽप्सरसामपि।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ॥६४॥

मूलम्

स्वागतं मधवे काम भवतोऽप्सरसामपि।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ॥६४॥

विश्वास-प्रस्तुतिः

यूयं संसिद्धये नूनमस्माकं वलशत्रुणा।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ॥६५॥

मूलम्

यूयं संसिद्धये नूनमस्माकं वलशत्रुणा।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ॥६५॥

विश्वास-प्रस्तुतिः

न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ॥६६॥

मूलम्

न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ॥६६॥

विश्वास-प्रस्तुतिः

शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ॥६७॥

मूलम्

शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ॥६७॥

विश्वास-प्रस्तुतिः

ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ॥६८॥

मूलम्

ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ॥६८॥

विश्वास-प्रस्तुतिः

योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ॥६९॥

मूलम्

योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ॥६९॥

विश्वास-प्रस्तुतिः

उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ॥७०॥

मूलम्

उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ॥७०॥

विश्वास-प्रस्तुतिः

वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ॥७१॥

मूलम्

वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ॥७१॥

विश्वास-प्रस्तुतिः

तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ॥७२॥

मूलम्

तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ॥७२॥

विश्वास-प्रस्तुतिः

वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ॥७३॥

मूलम्

वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ॥७३॥

विश्वास-प्रस्तुतिः

तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥७४॥

मूलम्

तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥७४॥

विश्वास-प्रस्तुतिः

तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ॥७५॥

मूलम्

तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ॥७५॥

विश्वास-प्रस्तुतिः

आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ॥७६॥

मूलम्

आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ॥७६॥

विश्वास-प्रस्तुतिः

ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान्।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ॥७७॥

मूलम्

ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान्।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ॥७७॥

विश्वास-प्रस्तुतिः

यक्षराक्षसभूतादीन्नागसर्पसरीसृपान्।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥७८॥

मूलम्

यक्षराक्षसभूतादीन्नागसर्पसरीसृपान्।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥७८॥

विश्वास-प्रस्तुतिः

मक्षिकामशकादंशाञ्शलभानलसान्कृमीन्।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ॥७९॥

मूलम्

मक्षिकामशकादंशाञ्शलभानलसान्कृमीन्।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ॥७९॥

विश्वास-प्रस्तुतिः

यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ॥८०॥

मूलम्

यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ॥८०॥

विश्वास-प्रस्तुतिः

जानमानः कथं विष्णुमात्मानं परमं च यत्।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥८१॥

मूलम्

जानमानः कथं विष्णुमात्मानं परमं च यत्।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥८१॥

विश्वास-प्रस्तुतिः

सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ॥८२॥

मूलम्

सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ॥८२॥

विश्वास-प्रस्तुतिः

एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ॥८३॥

मूलम्

एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ॥८३॥

विश्वास-प्रस्तुतिः

सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ॥८४॥

मूलम्

सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ॥८४॥

विश्वास-प्रस्तुतिः

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ॥८५॥

मूलम्

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ॥८५॥

विश्वास-प्रस्तुतिः

भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥८६॥

मूलम्

भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥८६॥

विश्वास-प्रस्तुतिः

यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ॥८७॥

मूलम्

यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ॥८७॥

विश्वास-प्रस्तुतिः

भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ॥८८॥

मूलम्

भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ॥८८॥

विश्वास-प्रस्तुतिः

भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥८९॥

मूलम्

भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥८९॥

विश्वास-प्रस्तुतिः

यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ॥९०॥

मूलम्

यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ॥९०॥

विश्वास-प्रस्तुतिः

प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम्।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥९१॥

मूलम्

प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम्।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥९१॥

विश्वास-प्रस्तुतिः

किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ॥९२॥

मूलम्

किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ॥९२॥

विश्वास-प्रस्तुतिः

भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम्।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ॥९३॥

मूलम्

भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम्।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ॥९३॥

विश्वास-प्रस्तुतिः

यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ॥९४॥

मूलम्

यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ॥९४॥

विश्वास-प्रस्तुतिः

तदियं देवराजाय नीयतां वरवर्णिनी।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥९५॥

मूलम्

तदियं देवराजाय नीयतां वरवर्णिनी।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥९५॥

विश्वास-प्रस्तुतिः

वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात्।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ॥९६॥

मूलम्

वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात्।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ॥९६॥

विश्वास-प्रस्तुतिः

सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम्।
तपो नरेण सहितो जगतः पालनोद्यतः ॥९७॥

मूलम्

सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम्।
तपो नरेण सहितो जगतः पालनोद्यतः ॥९७॥

विश्वास-प्रस्तुतिः

यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर।
तमहं वारयिष्यामि निर्वृतो भव वासव ॥९८॥

मूलम्

यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर।
तमहं वारयिष्यामि निर्वृतो भव वासव ॥९८॥

विश्वास-प्रस्तुतिः

कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित्।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ॥९९॥

मूलम्

कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित्।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ॥९९॥

विश्वास-प्रस्तुतिः

एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥१००॥

मूलम्

एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥१००॥

विश्वास-प्रस्तुतिः

या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति ॥१०१॥

मूलम्

या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति ॥१०१॥

इति विष्णुधर्मेषूर्वशीशम्भवः।