१०१

अथैकाधिकशतमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

ममैतत्कथितं सम्यगात्मविद्याश्रितं मुने।
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे ॥१॥

मूलम्

येयं मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम।
तत्रेच्छामि मुने श्रोतुं वर्णाद्वर्णोत्तरोच्छ्रयम् ॥२॥

शूद्रोवैश्यत्वमभ्येति कथं वैश्यश्च भार्गव।
क्षत्रियत्वं द्विजश्रेष्ठ ब्राह्मणत्वं कथं ततः ॥३॥

विप्रत्वान्मुक्तियोग्यत्वं यथा याति महामुने।
तदहं श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम्।
मयोच्यमानमखिलं वर्णानामुपकारकम् ॥५॥

शूद्रधर्मानशेषेण कुर्वञ्शूद्रोयथाविधि।
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वं स्वकर्मकृत् ॥६॥

विप्रत्वं क्षत्रियः सम्यग्द्विजधर्मपरो नृप।
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः ॥७॥

सर्वेषामेव वर्णानां स्वधर्ममनुवर्तताम्।
सदोच्छ्रितिर्न्यूनकृतो हानिश्चोत्कृष्टकर्मणः ॥८॥

तेषां च ब्राह्मणादीनां वर्णधर्माननुक्रमात्।
समुच्छ्रितिप्रदान्राजन्गदतो मे निशामय ॥९॥

अनसूया दया क्षान्तिः शौचं मङ्गलमस्पृहा।
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः ॥१०॥

अष्टावेते गुणाः पुंसां परत्रेह च भूतये।
भवन्ति कुरुशार्दूल पृथग्धर्मांश्च मे शृणु ॥११॥

यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशां नृप।
साधारणानि तेषां तु जीविकाकर्म कथ्यते ॥१२॥

याजनाध्यापनैर्विप्रस्तथा शस्तप्रतिग्रहैः।
भृत्यादिभरणं कुर्याद्यज्ञांश्च विभवे सति ॥१३॥

भृत्यादिभरणे नालं स्ववृत्त्या हि यदा द्विजः।
तदा जीवेत्समालम्ब्य वृत्तिं क्षत्रियवैश्ययोः ॥१४॥

सन्त्यजेत समस्तांस्तान्न कुर्याद्वृत्तिसङ्करम्।
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते ॥१५॥

प्रजानां पालनं सम्यग्विधिः प्रथमकल्पितः।
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः ॥१६॥

तदुत्पन्नैर्धनैः कुर्यात्समस्ताः क्षत्रियक्रियाः।
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते ॥१७॥

वाणिज्यं वैश्यजातस्य पशूनां पालनं कृषिः।
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः ॥१८॥

द्विजातिजनशुश्रूषां क्रयविक्रयजैर्धनैः।
शूद्रोयजेत्पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् ॥१९॥

तस्मै शुश्रूषवे देयं जीर्णवस्त्रमुपानहौ।
छत्त्रादिकं तथा कुर्यात्सम्यग्धर्मोपपादनम् ॥२०॥

चतुर्णामपि वर्णानां धर्मस्ते कथितो मया।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः ॥२१॥

मूलम्

चतुर्णामपि वर्णानां धर्मस्ते कथितो मया।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः ॥२१॥

विश्वास-प्रस्तुतिः

कृतोपनयनः पूर्वं ब्रह्मचारी गुरोर्गृहे।
गुरुशुश्रूषणं कुर्याद्भैक्षान्नकृतभोजनः ॥२२॥

निवेद्य गुरवे भैक्षमत्तव्यं तदनुज्ञया।
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता ॥२३॥

वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च।
गुरोरर्थे सदा तोयं समिदाहरणं तथा ॥२४॥

मूलम्

वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च।
गुरोरर्थे सदा तोयं समिदाहरणं तथा ॥२४॥

विश्वास-प्रस्तुतिः

पुष्पादीनां च कुर्वीत सुप्ते तस्मिञ्शयीत च।
शयने च समुत्तिष्ठेत्तं व्रजन्तमनुव्रजेत् ॥२५॥

आहूतश्च पठेत्तेन तन्मना नान्यतोमुखः।

विश्वास-प्रस्तुतिः

व्रतानि चरता संयग्ग्राह्यो वेदो यतात्मना।
दण्डवत्प्लवनं स्नाने शस्तं नास्याङ्गशोधनम् ॥२६॥

अधीत्य वेदान्वेदौ वा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२७॥

यथेष्टां दक्षिणां दत्त्वा गुरवे कुरुनन्दन।
ततोऽनुज्ञां समासाद्य गृहस्थाश्रममावसेत् ॥२८॥

तेनैवान्तं व्रजेत्प्राज्ञस्।

विश्वास-प्रस्तुतिः

तच्छुश्रूषणतत्परः वानप्रस्थाश्रमं तस्माच्।
चतुर्थं वापि संश्रयेत्यथाक्रमं वा कुर्वीत दारसङ्ग्रहम् ॥२९॥

ततस्त्वरोगिकुलजां तुल्यां पत्नीं समुद्वहेत्।
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गां विधिना नृप ॥३०॥

आख्यातवर्णधर्मेण धनं लब्ध्वा महीपते।
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः ॥३१॥

अभ्यागतातिथीन्बन्धून्भृत्यादीनातुरांस्तथा।
तोषयेच्छक्तितोऽन्नेन वयांस्यन्त्यपशूनपि ॥३२॥

ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः।
धर्मो धर्मभृतां श्रेष्ठ यज्ञोच्छिष्टं च भोजनम् ॥३३॥

हव्येन प्रीणयेद्देवान्पितृन्कव्येन शक्तितः।
मनुष्यानन्नपानेन स्वाध्यायेन र्षितर्पणम् ॥३४॥

कुर्याच्च प्रीणनं नित्यं भूतानां बलिकर्मणा।
प्रजापतिं सुतोत्पत्त्या हार्देन सकलं जनम् ॥३५॥

शुभेन कर्मणात्मानमुपदेशेन चात्मजान्।
अनुजीविजनं वृत्या गृहस्थस्तोषयेत्सदा ॥३६॥

तथैवापरमानेभ्यः प्रदेयं गृहमेधिना।
अन्नं भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः ॥३७॥

एवं गृहाश्रमे देवाः पितरो मुनयस्तथा।
सर्वकामान्प्रयच्छन्ति मनुष्याश्च सुपूजिताः ॥३८॥

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत् ॥३९॥

पितृदेवातिथीनां तु स्मृतं तत्रापि पूजनम्।
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् ॥४०॥

ब्रह्मचर्यं महीशय्या होमस्त्रिषवणाप्लुतिः।
मौनादिकरणं शस्तं जटावल्कलधारणम् ॥४१॥

ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः।
जलशय्या च हेमन्ते भाव्यं वननिकेतनैः ॥४२॥

इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते।
श्यामाकनीवारमयं फलमूलैश्च भोजनम् ॥४३॥

अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः।
वानप्रस्थस्य ते प्रोक्तं धर्मलक्षणमादितः ॥४४॥

आश्रमणं त्वपरं भिक्षोः शृणुष्व गदतो मम।
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका ॥४५॥

सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसंयमः।
विकालभैक्षचरणमनारम्भस्तथा नृप ॥४६॥

आत्मज्ञानावबोधेच्छा ब्रह्मचर्यं समाधिना।
आत्मावलोकनं चैव भिक्षोः शस्तानि पार्थिव ॥४७॥

चतुर्थश्चैष कथितस्तव भिक्षोर्मयाश्रमः।
क्रमाद्विमुक्तिकामानां पुरुषाणामयं विधिः ॥४८॥

एवं तु वर्णधर्मेण तथा चाश्रमकर्मना।
निजेन सम्पूज्य हरिं सिद्धिमाप्नोति मानवः ॥४९॥

ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा।
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते ॥५०॥

यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन।
अंशभूता जगद्धातुर्विष्णोरव्यक्तजन्मनः ॥५१॥

विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः।
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः ॥५२॥

विशे भूतानि भूतानि यतो विष्णुस्तथर्षयः।
ततः सर्वाश्रमाणां हि पूज्य एको जनार्दनः ॥५३॥

सर्वेश्वरं सर्वमयं समस्तसंसारहेतुक्षयकारणेशम्।
वरं वरेण्यं वरदं वरिष्ठं विष्णुं क्रियावान्यजते मनुष्यः ॥५४॥

यस्योदरे जगदिदं परमाणुभूतं।
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः।

विश्वास-प्रस्तुतिः

सर्वैः समेतममितात्मतनोस्तमेकम्।
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् ॥५५॥

आराध्य यं भुवनभावनमच्युताख्यम्।
ऐश्वर्यमीप्सितमवाप पतिः सुराणाम्।

विश्वास-प्रस्तुतिः

त्रैलोक्यसारममरार्चितपादपद्मम्।
एकं तमेव हरिमर्चयतार्चनीयम् ॥५६॥

मूलम्

त्रैलोक्यसारममरार्चितपादपद्मम्।
एकं तमेव हरिमर्चयतार्चनीयम् ॥५६॥

यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्ययक्षादिभिः सकलपापमपोह्य सिद्धिः।

विश्वास-प्रस्तुतिः

सम्प्राप्यते मरणजन्मजरापहन्त्री।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ॥५७॥

मूलम्

सम्प्राप्यते मरणजन्मजरापहन्त्री।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ॥५७॥

विश्वास-प्रस्तुतिः

कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम्।
सकलभुवनकार्यकारनेशं पुरुषतनुं प्रणतोऽस्मि वासुदेवम् ॥५८॥

इति विष्णुधर्मेषु वर्णाश्रमधर्माः।