१००

अथ शततमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते ॥१॥

मूलम्

यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते ॥१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ।
यमास्तवैते कथिता नियमानपि मे शृणु ॥२॥

मूलम्

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ।
यमास्तवैते कथिता नियमानपि मे शृणु ॥२॥

विश्वास-प्रस्तुतिः

सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ॥३॥

मूलम्

सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ॥३॥

विश्वास-प्रस्तुतिः

एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ॥४॥

मूलम्

एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ॥४॥

विश्वास-प्रस्तुतिः

मध्यमप्राणमचलं सुखदायि शुभं शुचि।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ॥५॥

मूलम्

मध्यमप्राणमचलं सुखदायि शुभं शुचि।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ॥५॥

विश्वास-प्रस्तुतिः

प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम्।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ॥६॥

मूलम्

प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम्।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ॥६॥

विश्वास-प्रस्तुतिः

एते निबोध मात्रास्तु नालम्बनगुणान्विताः।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ॥७॥

मूलम्

एते निबोध मात्रास्तु नालम्बनगुणान्विताः।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ॥७॥

विश्वास-प्रस्तुतिः

इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत्।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ॥८॥

मूलम्

इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत्।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ॥८॥

विश्वास-प्रस्तुतिः

शुभे ह्येकत्र विषये चेतसो यच्च धारणम्।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ॥९॥

मूलम्

शुभे ह्येकत्र विषये चेतसो यच्च धारणम्।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ॥९॥

विश्वास-प्रस्तुतिः

पौनःपुन्येन तत्रैव विषये सैव धारणा।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु ॥१०॥

मूलम्

पौनःपुन्येन तत्रैव विषये सैव धारणा।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु ॥१०॥

विश्वास-प्रस्तुतिः

अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ॥११॥

मूलम्

अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ॥११॥

विश्वास-प्रस्तुतिः

कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः ॥१२॥

मूलम्

कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः ॥१२॥

विश्वास-प्रस्तुतिः

योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति ॥१३॥

मूलम्

योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति ॥१३॥

विश्वास-प्रस्तुतिः

ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत्।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर ॥१४॥

मूलम्

ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत्।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर ॥१४॥

विश्वास-प्रस्तुतिः

शुभाव्यावर्तितं ध्यानमविवेकस्य जायते।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः ॥१५॥

मूलम्

शुभाव्यावर्तितं ध्यानमविवेकस्य जायते।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः ॥१५॥

विश्वास-प्रस्तुतिः

तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम्।
सर्वसंसारकान्तारपारमभ्येति मानवः ॥१६॥

मूलम्

तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम्।
सर्वसंसारकान्तारपारमभ्येति मानवः ॥१६॥

विश्वास-प्रस्तुतिः

दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम्।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने ॥१७॥

मूलम्

दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम्।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने ॥१७॥

विश्वास-प्रस्तुतिः

कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा ॥१८॥

मूलम्

कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा ॥१८॥

विश्वास-प्रस्तुतिः

शुद्धमप्येतदखिलं लोभकार्यतयानया।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् ॥१९॥

मूलम्

शुद्धमप्येतदखिलं लोभकार्यतयानया।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् ॥१९॥

विश्वास-प्रस्तुतिः

अवाञ्छितफलं लोभमलोभांशविवर्जितम्।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते ॥२०॥

मूलम्

अवाञ्छितफलं लोभमलोभांशविवर्जितम्।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते ॥२०॥

विश्वास-प्रस्तुतिः

दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते ॥२१॥

मूलम्

दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते ॥२१॥

विश्वास-प्रस्तुतिः

प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते ॥२२॥

मूलम्

प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते ॥२२॥

विश्वास-प्रस्तुतिः

ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् ॥२३॥

मूलम्

ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् ॥२३॥

विश्वास-प्रस्तुतिः

तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत्।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव ॥२४॥

मूलम्

तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत्।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव ॥२४॥

विश्वास-प्रस्तुतिः

आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः ॥२५॥

मूलम्

आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः ॥२५॥

विश्वास-प्रस्तुतिः

यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥२६॥

मूलम्

यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥२६॥

विश्वास-प्रस्तुतिः

पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥२७॥

मूलम्

पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥२७॥

विश्वास-प्रस्तुतिः

तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् ॥२८॥

मूलम्

तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् ॥२८॥

विश्वास-प्रस्तुतिः

न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् ॥२९॥

मूलम्

न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् ॥२९॥

विश्वास-प्रस्तुतिः

तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम्।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ॥३०॥

मूलम्

तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम्।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ॥३०॥

विश्वास-प्रस्तुतिः

अनिद्रमजमस्वप्नमरूपानाम शाश्वतम्।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ॥३१॥

मूलम्

अनिद्रमजमस्वप्नमरूपानाम शाश्वतम्।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ॥३१॥

निर्धूतपुण्यपापा ये ते विशन्त्येवमीश्वरम्।

विश्वास-प्रस्तुतिः

तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ॥३२॥

मूलम्

तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ॥३२॥

विश्वास-प्रस्तुतिः

अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३३॥

मूलम्

अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३३॥

विश्वास-प्रस्तुतिः

यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३४॥

मूलम्

यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३४॥

विश्वास-प्रस्तुतिः

सर्गादिकारणं यस्य स्वभावादेव शक्तयः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३५॥

मूलम्

सर्गादिकारणं यस्य स्वभावादेव शक्तयः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३५॥

विश्वास-प्रस्तुतिः

निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३६॥

मूलम्

निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३६॥

विश्वास-प्रस्तुतिः

तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ॥३७॥

मूलम्

तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ॥३७॥

विश्वास-प्रस्तुतिः

ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम्।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ॥३८॥

मूलम्

ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम्।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ॥३८॥

विश्वास-प्रस्तुतिः

संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ॥३९॥

मूलम्

संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ॥३९॥

विश्वास-प्रस्तुतिः

एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ॥४०॥

मूलम्

एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ॥४०॥

विश्वास-प्रस्तुतिः

देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ॥४१॥

मूलम्

देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ॥४१॥

विश्वास-प्रस्तुतिः

यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम्।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ॥४२॥

मूलम्

यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम्।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ॥४२॥

विश्वास-प्रस्तुतिः

योगसेवानिरोधेन प्रलीने तत्र चेतसि।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ॥४३॥

मूलम्

योगसेवानिरोधेन प्रलीने तत्र चेतसि।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ॥४३॥

विश्वास-प्रस्तुतिः

परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ॥४४॥

मूलम्

परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ॥४४॥

विश्वास-प्रस्तुतिः

परमात्मात्मनोर्योऽयमविभागः परन्तप।
स एव परमो योगः समासात्कथितस्तव ॥४५॥

मूलम्

परमात्मात्मनोर्योऽयमविभागः परन्तप।
स एव परमो योगः समासात्कथितस्तव ॥४५॥

विश्वास-प्रस्तुतिः

यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम्।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ॥४६॥

मूलम्

यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम्।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ॥४६॥

विश्वास-प्रस्तुतिः

यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत्।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ॥४७॥

मूलम्

यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत्।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ॥४७॥

विश्वास-प्रस्तुतिः

एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः।
न भेदः कलशाकाशनभसोरिव जायते ॥४८॥

मूलम्

एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः।
न भेदः कलशाकाशनभसोरिव जायते ॥४८॥

विश्वास-प्रस्तुतिः

प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान्।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ॥४९॥

मूलम्

प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान्।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ॥४९॥

विश्वास-प्रस्तुतिः

घटध्वंसे घटाकाशं न भिन्नं नभसो यथा।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ॥५०॥

मूलम्

घटध्वंसे घटाकाशं न भिन्नं नभसो यथा।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ॥५०॥

विश्वास-प्रस्तुतिः

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥५१॥

मूलम्

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥५१॥

विश्वास-प्रस्तुतिः

ततः समस्तकल्याणसमस्तसुखसम्पदाम्।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ॥५२॥

मूलम्

ततः समस्तकल्याणसमस्तसुखसम्पदाम्।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ॥५२॥

विश्वास-प्रस्तुतिः

ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ॥५३॥

मूलम्

ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ॥५३॥

विश्वास-प्रस्तुतिः

आदर्शस्य मलाभावाद्वैमल्यं काशते यथा।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ॥५४॥

मूलम्

आदर्शस्य मलाभावाद्वैमल्यं काशते यथा।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ॥५४॥

विश्वास-प्रस्तुतिः

यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ॥५५॥

मूलम्

यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ॥५५॥

विश्वास-प्रस्तुतिः

यथोदुपानकरणात्क्रियते न जलाम्बरम्।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ॥५६॥

मूलम्

यथोदुपानकरणात्क्रियते न जलाम्बरम्।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ॥५६॥

विश्वास-प्रस्तुतिः

यथा हेयगणध्वंसादवबोधादयो गुणाः।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ॥५७॥

मूलम्

यथा हेयगणध्वंसादवबोधादयो गुणाः।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ॥५७॥

विश्वास-प्रस्तुतिः

ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥५८॥

मूलम्

ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥५८॥

विश्वास-प्रस्तुतिः

एतदद्वैतमाख्यातमेष योगस्तवोदितः।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥५९॥

मूलम्

एतदद्वैतमाख्यातमेष योगस्तवोदितः।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥५९॥

विश्वास-प्रस्तुतिः

पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ॥६०॥

मूलम्

पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ॥६०॥

विश्वास-प्रस्तुतिः

आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ॥६१॥

मूलम्

आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ॥६१॥

विश्वास-प्रस्तुतिः

ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ॥६२॥

मूलम्

ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ॥६२॥

विश्वास-प्रस्तुतिः

सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ॥६३॥

मूलम्

सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ॥६३॥

विश्वास-प्रस्तुतिः

न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ॥६४॥

मूलम्

न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ॥६४॥

विश्वास-प्रस्तुतिः

तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ॥६५॥

मूलम्

तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ॥६५॥

विश्वास-प्रस्तुतिः

आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ॥६६॥

मूलम्

आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ॥६६॥

इति विष्णुधर्मेषु योगाध्यायः।