अथैकोनशततमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
कथितं योगमाहात्म्यं भवता मुनिसत्तम।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् ॥१॥
मूलम्
कथितं योगमाहात्म्यं भवता मुनिसत्तम।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् ॥१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
द्वैविध्यं नृप योगस्य परं चापरमेव च।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् ॥२॥
मूलम्
द्वैविध्यं नृप योगस्य परं चापरमेव च।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् ॥२॥
विश्वास-प्रस्तुतिः
यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ॥३॥
मूलम्
यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ॥३॥
विश्वास-प्रस्तुतिः
क्षयिष्णून्यपराणीह दानानि मनुजाधिप।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ॥४॥
मूलम्
क्षयिष्णून्यपराणीह दानानि मनुजाधिप।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ॥४॥
विश्वास-प्रस्तुतिः
दानान्येकफलानीह त्रैलोक्ये ददता सताम्।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ॥५॥
मूलम्
दानान्येकफलानीह त्रैलोक्ये ददता सताम्।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ॥५॥
विश्वास-प्रस्तुतिः
ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ॥६॥
मूलम्
ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ॥६॥
विश्वास-प्रस्तुतिः
अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ॥७॥
मूलम्
अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ॥७॥
विश्वास-प्रस्तुतिः
परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ॥८॥
मूलम्
परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ॥८॥
विश्वास-प्रस्तुतिः
अपरं च परं चैव द्वौ योगौ पृथिवीपते।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ॥९॥
मूलम्
अपरं च परं चैव द्वौ योगौ पृथिवीपते।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ॥९॥
विश्वास-प्रस्तुतिः
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते ॥१०॥
मूलम्
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते ॥१०॥
विश्वास-प्रस्तुतिः
वातालीचञ्चलं चित्तमनालम्बनमस्थिति।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ॥११॥
मूलम्
वातालीचञ्चलं चित्तमनालम्बनमस्थिति।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ॥११॥
विश्वास-प्रस्तुतिः
सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत्।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते ॥१२॥
मूलम्
सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत्।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते ॥१२॥
विश्वास-प्रस्तुतिः
यद्यन्तराय दोषेण नापकर्षो नराधिप।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ॥१३॥
मूलम्
यद्यन्तराय दोषेण नापकर्षो नराधिप।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ॥१३॥
ज्ञानं प्रयच्छतां सम्यक् किं वदतु भवेन्नृप।
विश्वास-प्रस्तुतिः
तदाप्नोति परं ब्रह्म क्लेशेन महता नृप।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः ॥१४॥
मूलम्
तदाप्नोति परं ब्रह्म क्लेशेन महता नृप।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः ॥१४॥
विश्वास-प्रस्तुतिः
विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु ॥१५॥
मूलम्
विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु ॥१५॥
विश्वास-प्रस्तुतिः
सुरूपां प्रतिमां विष्णोः
प्रसन्न-वदनेक्षणाम् ।
कृत्वा ऽऽत्मनः प्रीतिकरीं
सुवर्ण-रजतादिभिः ॥१६॥
मूलम्
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम्।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥१६॥
विश्वास-प्रस्तुतिः
तस्याश्च लक्षणं भूप शृणुष्व गदतो मम।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि ॥१७॥
मूलम्
तस्याश्च लक्षणं भूप शृणुष्व गदतो मम।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि ॥१७॥
विश्वास-प्रस्तुतिः
सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् ॥१८॥
मूलम्
सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् ॥१८॥
विश्वास-प्रस्तुतिः
कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः ॥१९॥
मूलम्
कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः ॥१९॥
विश्वास-प्रस्तुतिः
आबद्धमकुटः स्रग्वी हारभारार्पितोदरः।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा ॥२०॥
मूलम्
आबद्धमकुटः स्रग्वी हारभारार्पितोदरः।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा ॥२०॥
विश्वास-प्रस्तुतिः
स्वोष्ठेन सुकपोलेन वदनेन विराजता।
कण्ठेन शुभलेखेन वराभरणधारिणा ॥२१॥
मूलम्
स्वोष्ठेन सुकपोलेन वदनेन विराजता।
कण्ठेन शुभलेखेन वराभरणधारिणा ॥२१॥
विश्वास-प्रस्तुतिः
नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः ॥२२॥
मूलम्
नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः ॥२२॥
विश्वास-प्रस्तुतिः
मध्येन त्रिवलीभङ्गभूषितेन च चारुणा।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः ॥२३॥
मूलम्
मध्येन त्रिवलीभङ्गभूषितेन च चारुणा।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः ॥२३॥
विश्वास-प्रस्तुतिः
वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् ॥२४॥
मूलम्
वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् ॥२४॥
ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं न कारयेत्।
विश्वास-प्रस्तुतिः
निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च ॥२५॥
मूलम्
निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च ॥२५॥
कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः।
विश्वास-प्रस्तुतिः
चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम्।
कार्या वसुन्धरा देवी तत्पादतलधारिणी ॥२६॥
मूलम्
चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम्।
कार्या वसुन्धरा देवी तत्पादतलधारिणी ॥२६॥
विश्वास-प्रस्तुतिः
यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः ॥२७॥
मूलम्
यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः ॥२७॥
विश्वास-प्रस्तुतिः
ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत्।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् ॥२८॥
मूलम्
ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत्।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् ॥२८॥
विश्वास-प्रस्तुतिः
तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन्।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥२९॥
मूलम्
तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन्।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥२९॥
विश्वास-प्रस्तुतिः
सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात्।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ॥३०॥
मूलम्
सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात्।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ॥३०॥
विश्वास-प्रस्तुतिः
यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ॥३१॥
मूलम्
यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ॥३१॥
इति विष्णुधर्मेषु मूर्तिलक्षणम्।