०९७

अथ सप्तनवतितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

आख्यातं भगवन्सम्यक् परं ब्रह्म त्वया मम।
विष्णुरेव जगद्धाता योगिनां वर्तते यतः ॥१॥

मूलम्

आख्यातं भगवन्सम्यक् परं ब्रह्म त्वया मम।
विष्णुरेव जगद्धाता योगिनां वर्तते यतः ॥१॥

विश्वास-प्रस्तुतिः

उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव।
अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद ॥२॥

मूलम्

उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव।
अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद ॥२॥

विश्वास-प्रस्तुतिः

येन जन्मजरामृत्युमहाग्राहभवार्णवम्।
त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् ॥३॥

मूलम्

येन जन्मजरामृत्युमहाग्राहभवार्णवम्।
त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् ॥३॥

शौनक उवाच।
तन्मम ब्रूहि तत्त्वेन प्राप्नुयां येन तत्पदम्।

विश्वास-प्रस्तुतिः

बन्धः कर्ममयो ह्यत्र यथामुक्तिविघातकृत्।
तस्यापगमने यत्नः कार्यः संसारभीरुणा ॥४॥

मूलम्

बन्धः कर्ममयो ह्यत्र यथामुक्तिविघातकृत्।
तस्यापगमने यत्नः कार्यः संसारभीरुणा ॥४॥

विश्वास-प्रस्तुतिः

सुवर्णादिमहादानपुण्यतीर्थावगाहनैः।
शारीरैश्च तथा क्लेशैः शास्त्रोक्तैस्तच्छमो भवेत् ॥५॥

मूलम्

सुवर्णादिमहादानपुण्यतीर्थावगाहनैः।
शारीरैश्च तथा क्लेशैः शास्त्रोक्तैस्तच्छमो भवेत् ॥५॥

विश्वास-प्रस्तुतिः

देवतास्तुतिसच्छास्त्रश्रवणैः पुण्यदर्शनैः।
गुरुशुश्रूषणाच्चैव पापबन्धः प्रणश्यति ॥६॥

मूलम्

देवतास्तुतिसच्छास्त्रश्रवणैः पुण्यदर्शनैः।
गुरुशुश्रूषणाच्चैव पापबन्धः प्रणश्यति ॥६॥

विश्वास-प्रस्तुतिः

प्रपाकूपतडागानि देवतायतनानि च।
कारयन्पुरुषव्याघ्र पापबन्धात्प्रमुच्यते ॥७॥

मूलम्

प्रपाकूपतडागानि देवतायतनानि च।
कारयन्पुरुषव्याघ्र पापबन्धात्प्रमुच्यते ॥७॥

विश्वास-प्रस्तुतिः

योगिनामथ शुश्रूषां तथैवावसथान्नृप।
कुर्वन्पूर्ताश्रितं चान्यत्पाअबन्धात्प्रमुच्यते ॥८॥

मूलम्

योगिनामथ शुश्रूषां तथैवावसथान्नृप।
कुर्वन्पूर्ताश्रितं चान्यत्पाअबन्धात्प्रमुच्यते ॥८॥

विश्वास-प्रस्तुतिः

विष्णुः कृष्णो वासुदेवो गोविन्दः पुष्करेक्षणः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥९॥

मूलम्

विष्णुः कृष्णो वासुदेवो गोविन्दः पुष्करेक्षणः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥९॥

विश्वास-प्रस्तुतिः

विश्वो विश्वेश्वरो विश्वविधाता धाम शाश्वतम्।
विष्णुरित्यादि च जपन्पापबन्धात्प्रमुच्यते ॥१०॥

मूलम्

विश्वो विश्वेश्वरो विश्वविधाता धाम शाश्वतम्।
विष्णुरित्यादि च जपन्पापबन्धात्प्रमुच्यते ॥१०॥

विश्वास-प्रस्तुतिः

पद्मनाभो हृषीकेशः केशवो मधुसूदनः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥११॥

मूलम्

पद्मनाभो हृषीकेशः केशवो मधुसूदनः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥११॥

विश्वास-प्रस्तुतिः

नारायणश्चक्रधरो विश्वरूपस्त्रिविक्रमः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥१२॥

मूलम्

नारायणश्चक्रधरो विश्वरूपस्त्रिविक्रमः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ॥१२॥

विश्वास-प्रस्तुतिः

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः।
विष्णुर्विश्वेश्वरो विश्वमिति भावात्प्रमुच्यते ॥१३॥

मूलम्

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः।
विष्णुर्विश्वेश्वरो विश्वमिति भावात्प्रमुच्यते ॥१३॥

विश्वास-प्रस्तुतिः

एवं संशान्तपापस्य पुण्यवृद्धिमतो नृप।
इच्छा प्रवर्तते पूंसो मुक्तिदायिषु कर्मसु ॥१४॥

मूलम्

एवं संशान्तपापस्य पुण्यवृद्धिमतो नृप।
इच्छा प्रवर्तते पूंसो मुक्तिदायिषु कर्मसु ॥१४॥

मुक्तिदायीनि कर्माणि निष्कामेन कृतानि तु।
भवन्ति दोषक्षयकाः पुण्यबन्धात्प्रमुच्यते।

विश्वास-प्रस्तुतिः

नित्यनैमित्तिकानीह कर्माण्युक्तानि यानि वै।
तेषां निष्कामकारणात्पुण्यबन्धः प्रशाम्यति ॥१५॥

मूलम्

नित्यनैमित्तिकानीह कर्माण्युक्तानि यानि वै।
तेषां निष्कामकारणात्पुण्यबन्धः प्रशाम्यति ॥१५॥

विश्वास-प्रस्तुतिः

अनेकजन्मसंसारचितस्यापि दृढात्मनः।
कर्मबन्धस्य शैथिल्यकारणं चापरं शृणु ॥१६॥

मूलम्

अनेकजन्मसंसारचितस्यापि दृढात्मनः।
कर्मबन्धस्य शैथिल्यकारणं चापरं शृणु ॥१६॥

विश्वास-प्रस्तुतिः

अहिंसा नातिमानित्वमदम्भित्वममत्सरम्।
तितिक्षा समदर्शित्वं मैत्र्यादौ दण्डसंयमः ॥१७॥

मूलम्

अहिंसा नातिमानित्वमदम्भित्वममत्सरम्।
तितिक्षा समदर्शित्वं मैत्र्यादौ दण्डसंयमः ॥१७॥

विश्वास-प्रस्तुतिः

ऋजुत्वमिन्द्रियजयः शौचमाचार्यपूजनम्।
पुण्यस्तवादिपठनमपैशुन्यमकत्थनम् ॥१८॥

मूलम्

ऋजुत्वमिन्द्रियजयः शौचमाचार्यपूजनम्।
पुण्यस्तवादिपठनमपैशुन्यमकत्थनम् ॥१८॥

विश्वास-प्रस्तुतिः

विषयान्प्रति वैराग्यमनहङ्कारमेव च।
अकामित्वं मनःस्थैर्यमद्रोहः सर्वजन्तुषु ॥१९॥

मूलम्

विषयान्प्रति वैराग्यमनहङ्कारमेव च।
अकामित्वं मनःस्थैर्यमद्रोहः सर्वजन्तुषु ॥१९॥

विश्वास-प्रस्तुतिः

अविवादस्तथा मूढैरमूढैः प्रश्नसत्कथा।
विविक्तदेशेऽभिरतिर्महाजनविवर्जनम् ॥२०॥

मूलम्

अविवादस्तथा मूढैरमूढैः प्रश्नसत्कथा।
विविक्तदेशेऽभिरतिर्महाजनविवर्जनम् ॥२०॥

विश्वास-प्रस्तुतिः

सद्भिः सहास्य सततं योगाभ्यासो मितोक्तिता।
स्त्रीभर्त्सोत्सवसंलापविवर्जनमवेक्षणम् ॥२१॥

मूलम्

सद्भिः सहास्य सततं योगाभ्यासो मितोक्तिता।
स्त्रीभर्त्सोत्सवसंलापविवर्जनमवेक्षणम् ॥२१॥

विश्वास-प्रस्तुतिः

परयोषिद्विलासानां काव्यालापविवर्जनम्।
गीतवादितनृत्तेषु मृदङ्गेष्वपरेषु च ॥२२॥

मूलम्

परयोषिद्विलासानां काव्यालापविवर्जनम्।
गीतवादितनृत्तेषु मृदङ्गेष्वपरेषु च ॥२२॥

विश्वास-प्रस्तुतिः

असक्तिर्मनसो मौनमात्मतत्त्वावलोकनम्।
तपः सन्तोषः सत्येषु स्थितिर्लोभविवर्जनम् ॥२३॥

मूलम्

असक्तिर्मनसो मौनमात्मतत्त्वावलोकनम्।
तपः सन्तोषः सत्येषु स्थितिर्लोभविवर्जनम् ॥२३॥

विश्वास-प्रस्तुतिः

तथा परिग्रहो राजन्मायाव्याजविवर्जनम्।
असृङ्मांसादिभूतत्वान्निजदेहजुगुप्सनम् ॥२४॥

मूलम्

तथा परिग्रहो राजन्मायाव्याजविवर्जनम्।
असृङ्मांसादिभूतत्वान्निजदेहजुगुप्सनम् ॥२४॥

विश्वास-प्रस्तुतिः

सर्वाण्येतानि भूतानि विष्णुरित्यचला मतिः।
तत्रैवाशेषभूतेशे भक्तिरव्यभिचारिणी ॥२५॥

मूलम्

सर्वाण्येतानि भूतानि विष्णुरित्यचला मतिः।
तत्रैवाशेषभूतेशे भक्तिरव्यभिचारिणी ॥२५॥

विश्वास-प्रस्तुतिः

एते गुणा मयाख्याता मनोनिर्वृतिकारकाः।
शैथिल्यहेतवश्चैते कर्मबन्धस्य पूर्थिव ॥२६॥

मूलम्

एते गुणा मयाख्याता मनोनिर्वृतिकारकाः।
शैथिल्यहेतवश्चैते कर्मबन्धस्य पूर्थिव ॥२६॥

विश्वास-प्रस्तुतिः

एभिः शान्तिं गते चित्ते ध्यानाकृष्टः स्थितो हरिः।
शमं नयति कर्माणि सितमिश्रासितानि वै ॥२७॥

मूलम्

एभिः शान्तिं गते चित्ते ध्यानाकृष्टः स्थितो हरिः।
शमं नयति कर्माणि सितमिश्रासितानि वै ॥२७॥

विश्वास-प्रस्तुतिः

भूयश्च शृणु शास्त्रार्थं सङ्क्षेपाद्वदतो मम।
यथा सम्प्राप्यते मुक्तिर्मनुजेन्द्रमुमुक्षुभिः ॥२८॥

मूलम्

भूयश्च शृणु शास्त्रार्थं सङ्क्षेपाद्वदतो मम।
यथा सम्प्राप्यते मुक्तिर्मनुजेन्द्रमुमुक्षुभिः ॥२८॥

विश्वास-प्रस्तुतिः

नित्यनैमित्तिकानां तु निष्कामस्य हि या क्रिया।
निसिद्धानां सकामानां तथैवाकरणं नृप ॥२९॥

मूलम्

नित्यनैमित्तिकानां तु निष्कामस्य हि या क्रिया।
निसिद्धानां सकामानां तथैवाकरणं नृप ॥२९॥

विश्वास-प्रस्तुतिः

सर्वेश्वरे च गोविन्दे भक्तिरव्यभिचारिणी।
प्रयच्छति नृणां मुक्तिं मा ते भूदत्र संशयः ॥३०॥

मूलम्

सर्वेश्वरे च गोविन्दे भक्तिरव्यभिचारिणी।
प्रयच्छति नृणां मुक्तिं मा ते भूदत्र संशयः ॥३०॥

इति विष्णुधर्मेषु पापक्षयः।