०९६

अथ षड्नवतितमोध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

आख्यातं भवता ब्रह्मन्नेतद्ब्रह्म सनातनम्।
यस्मादुत्पद्यते कृत्स्नं जगदेतच्चराचरम् ॥१॥

मूलम्

आख्यातं भवता ब्रह्मन्नेतद्ब्रह्म सनातनम्।
यस्मादुत्पद्यते कृत्स्नं जगदेतच्चराचरम् ॥१॥

विश्वास-प्रस्तुतिः

किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन।
तदहं श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् ॥२॥

मूलम्

किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन।
तदहं श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् ॥२॥

विश्वास-प्रस्तुतिः

यदेतद्भवताख्यातं ब्रह्म ब्रह्मविदां वर।
परिणामो न तस्यास्ति निर्गुणं सर्वगं यतः ॥३॥

मूलम्

यदेतद्भवताख्यातं ब्रह्म ब्रह्मविदां वर।
परिणामो न तस्यास्ति निर्गुणं सर्वगं यतः ॥३॥

विश्वास-प्रस्तुतिः

सनातनात्सर्वगतात्परिणामविवर्जितात्।
कथं सञ्जायते कृत्स्नं तस्मादपगुणादपि ॥४॥

मूलम्

सनातनात्सर्वगतात्परिणामविवर्जितात्।
कथं सञ्जायते कृत्स्नं तस्मादपगुणादपि ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

द्विविधं कारणं भूप निबोध गदतो मम।
निमित्तकारणं पूर्वं द्वितीयं परिणामि च ॥५॥

मूलम्

द्विविधं कारणं भूप निबोध गदतो मम।
निमित्तकारणं पूर्वं द्वितीयं परिणामि च ॥५॥

विश्वास-प्रस्तुतिः

यथा कुम्भस्य करणे कुलालः प्रथमं नृप।
कारणं परिणामाख्यं मृद्द्रव्यमपरं स्मृतम् ॥६॥

मूलम्

यथा कुम्भस्य करणे कुलालः प्रथमं नृप।
कारणं परिणामाख्यं मृद्द्रव्यमपरं स्मृतम् ॥६॥

विश्वास-प्रस्तुतिः

धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते।
कारणं परिणामाख्यं निमित्ताख्यं तु तत्परम् ॥७॥

मूलम्

धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते।
कारणं परिणामाख्यं निमित्ताख्यं तु तत्परम् ॥७॥

विश्वास-प्रस्तुतिः

कारणं कालगगने यथा सन्निधिमात्रतः।
अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर ॥८॥

मूलम्

कारणं कालगगने यथा सन्निधिमात्रतः।
अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर ॥८॥

विश्वास-प्रस्तुतिः

अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः।
अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः ॥९॥

मूलम्

अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः।
अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः ॥९॥

विश्वास-प्रस्तुतिः

कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः।
क्रियते सर्वभूतस्य सर्वगस्याव्ययात्मनः ॥१०॥

मूलम्

कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः।
क्रियते सर्वभूतस्य सर्वगस्याव्ययात्मनः ॥१०॥

विश्वास-प्रस्तुतिः

यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः।
कर्तृत्वमुपचारेण ततस्तस्यापि भूपते ॥११॥

मूलम्

यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः।
कर्तृत्वमुपचारेण ततस्तस्यापि भूपते ॥११॥

विश्वास-प्रस्तुतिः

भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम्।
तयोः स्वरूपं नृपते श्रूयतामुभयोरपि ॥१२॥

मूलम्

भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम्।
तयोः स्वरूपं नृपते श्रूयतामुभयोरपि ॥१२॥

विश्वास-प्रस्तुतिः

अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया।
व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् ॥१३॥

मूलम्

अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया।
व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् ॥१३॥

विश्वास-प्रस्तुतिः

पश्यत्वात्मानमन्यत्र यावद्वै परमात्मनः।
तावत्सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा ॥१४॥

मूलम्

पश्यत्वात्मानमन्यत्र यावद्वै परमात्मनः।
तावत्सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा ॥१४॥

विश्वास-प्रस्तुतिः

सङ्क्षीनाशेषकर्मा तु परं ब्रह्म प्रपश्यति।
अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयोऽक्षयम् ॥१५॥

मूलम्

सङ्क्षीनाशेषकर्मा तु परं ब्रह्म प्रपश्यति।
अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयोऽक्षयम् ॥१५॥

विश्वास-प्रस्तुतिः

भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः।
सङ्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह ॥१६॥

मूलम्

भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः।
सङ्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह ॥१६॥

उपास्योपास्यकतया भेदो यैरपि कथ्यते।
तौ हि शुद्ध्यर्थमिच्छन्ति मलानां तदुपासनम्।
परोऽसावपरेणात्मा सन्त्यक्तममतेन तु।
उपास्यते तदा सोऽपि तद्भावं प्रतिपद्यते।

विश्वास-प्रस्तुतिः

कर्मिणां कर्मभेदेन भेदादेवादयो यतः।
कर्मक्षयादशेषाणां भेदानां सङ्क्षयस्ततः ॥१७॥

मूलम्

कर्मिणां कर्मभेदेन भेदादेवादयो यतः।
कर्मक्षयादशेषाणां भेदानां सङ्क्षयस्ततः ॥१७॥

विश्वास-प्रस्तुतिः

अविद्या तु क्रिया सर्वा विद्या ज्ञानं प्रचक्षते।
कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते ॥१८॥

मूलम्

अविद्या तु क्रिया सर्वा विद्या ज्ञानं प्रचक्षते।
कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते ॥१८॥

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते।

विश्वास-प्रस्तुतिः

उभयं ब्रह्मणो रूपं द्वैताद्वैतविभेदतः।
तयोः स्वरूपं वदतो निबोध मम पार्थिव ॥१९॥

मूलम्

उभयं ब्रह्मणो रूपं द्वैताद्वैतविभेदतः।
तयोः स्वरूपं वदतो निबोध मम पार्थिव ॥१९॥

विश्वास-प्रस्तुतिः

देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः।
चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः ॥२०॥

मूलम्

देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः।
चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः ॥२०॥

विश्वास-प्रस्तुतिः

अहमन्योऽपरश्चायममी चात्र तथापरे।
विज्ञानमेतत्तद्द्वैतं यदन्यच्छ्रूयतां परम् ॥२१॥

मूलम्

अहमन्योऽपरश्चायममी चात्र तथापरे।
विज्ञानमेतत्तद्द्वैतं यदन्यच्छ्रूयतां परम् ॥२१॥

विश्वास-प्रस्तुतिः

ममेत्यहमितिप्रज्ञावियुक्तमविकल्पवत्।
अविकारमनाख्येयमद्वैतमपि भूपते ॥२२॥

मूलम्

ममेत्यहमितिप्रज्ञावियुक्तमविकल्पवत्।
अविकारमनाख्येयमद्वैतमपि भूपते ॥२२॥

विश्वास-प्रस्तुतिः

अभेदेन तवाख्यातं यदेतद्ब्रह्म शाश्वतम्।
ज्ञानज्ञेयैक्यसद्भावं तदेवाद्वैतसञ्ज्ञितम् ॥२३॥

मूलम्

अभेदेन तवाख्यातं यदेतद्ब्रह्म शाश्वतम्।
ज्ञानज्ञेयैक्यसद्भावं तदेवाद्वैतसञ्ज्ञितम् ॥२३॥

विश्वास-प्रस्तुतिः

यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः।
मनोवृत्तिमयं द्वैतमद्वैतं परमाथतः ॥२४॥

मूलम्

यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः।
मनोवृत्तिमयं द्वैतमद्वैतं परमाथतः ॥२४॥

विश्वास-प्रस्तुतिः

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः।
निरोधव्यास्तन्निरोधाद्द्वैतं नैवोपपद्यते ॥२५॥

मूलम्

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः।
निरोधव्यास्तन्निरोधाद्द्वैतं नैवोपपद्यते ॥२५॥

विश्वास-प्रस्तुतिः

मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम्।
मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् ॥२६॥

मूलम्

मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम्।
मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् ॥२६॥

विश्वास-प्रस्तुतिः

मनो हि विषयं यद्वदादत्ते तद्वदेव तत्।
भवत्यपास्तविषयं ग्राहिधर्मे च जायते ॥२७॥

मूलम्

मनो हि विषयं यद्वदादत्ते तद्वदेव तत्।
भवत्यपास्तविषयं ग्राहिधर्मे च जायते ॥२७॥

विश्वास-प्रस्तुतिः

अग्राहि तच्च विधृतं योगिनां विषयं प्रति।
निरोधे योगसामर्थ्याद्ब्रह्मग्राह्येव जायते ॥२८॥

मूलम्

अग्राहि तच्च विधृतं योगिनां विषयं प्रति।
निरोधे योगसामर्थ्याद्ब्रह्मग्राह्येव जायते ॥२८॥

विश्वास-प्रस्तुतिः

ग्राह्यं च परमं ब्रह्म योगिचित्तस्य पार्थिव।
समुज्झितग्राह्यवृत्तिरमलस्य मलं महत् ॥२९॥

मूलम्

ग्राह्यं च परमं ब्रह्म योगिचित्तस्य पार्थिव।
समुज्झितग्राह्यवृत्तिरमलस्य मलं महत् ॥२९॥

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
येऽपि कर्माणि कुर्वन्ति भगवन्तमपाश्रिताः।
क्रियायोगपरा राजन्कामाकाङ्क्षाविवर्जिताः।
ब्रह्मनिष्ठा ध्यानपरा ब्रह्मण्येव व्यवस्थिताः।

विश्वास-प्रस्तुतिः

तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः।
योगिनस्तं प्रपश्यन्ति समर्था नैव चोदितुम् ॥३०॥

मूलम्

तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः।
योगिनस्तं प्रपश्यन्ति समर्था नैव चोदितुम् ॥३०॥

विश्वास-प्रस्तुतिः

कर्मणो भावना येयं सा ब्रह्मपरिपन्थिनी।
कर्मभावनया तुल्यं विज्ञानमुपपद्यते ॥३१॥

मूलम्

कर्मणो भावना येयं सा ब्रह्मपरिपन्थिनी।
कर्मभावनया तुल्यं विज्ञानमुपपद्यते ॥३१॥

विश्वास-प्रस्तुतिः

तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना।
क्षये तस्याः परं ब्रह्म स्वयमेव प्रकाशते ॥३२॥

मूलम्

तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना।
क्षये तस्याः परं ब्रह्म स्वयमेव प्रकाशते ॥३२॥

विश्वास-प्रस्तुतिः

एवमेतन्मया भूप यथावत्कथितं तव।
द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् ॥३३॥

मूलम्

एवमेतन्मया भूप यथावत्कथितं तव।
द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् ॥३३॥

यथावत्कर्मनिष्ठानां तत्प्राप्तिः कथितं तथा।

विश्वास-प्रस्तुतिः

स्वरूपं ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक्।
वासुदेवमयस्यान्यत्किं भूयः कथयामि ते ॥३४॥

मूलम्

स्वरूपं ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक्।
वासुदेवमयस्यान्यत्किं भूयः कथयामि ते ॥३४॥

इति विष्णुधर्मेषु ब्रह्माभिव्यञ्जकः।