०९५

पञ्चनवतितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

बहुशो भवता प्रोक्तं साम्प्रतं च यदीरितम्।
श्रोतुमिच्छामि विप्रेन्द्रतद्विष्णोः परमं पदम् ॥१॥

मूलम्

यत्स्वरूपं यदाधारं यत्प्रमाणं यदात्मकम्।
सर्वधातुः पदं तन्मे श्रोतुमिच्छा प्रवर्तते ॥२॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

साध्वेतद्भवता पृष्टं पृष्टमात्मज्ञानसमाश्रितम्।
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परं पदम् ॥३॥

यत्तद्ब्रह्म यतः सर्वं यद्सर्वं सर्वसंस्थितिः।
अग्राह्यकमनिर्देश्यं तदेव भगवत्पदम् ॥४॥

तत्स्वरूपं च राजेन्द्रशृणुष्वेह समाहितः।
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम ॥५॥

प्रधानादिविशेषान्तं यदेतत्पठ्यते जगत्।
चराचरस्य तस्याद्यं परं ब्रह्म विलक्षणम् ॥६॥

जन्मस्वप्नादिरूपादिदुःखादिरहितं च यत्।
नोपचर्यमनिर्देश्यं स्वप्रतिष्ठं च तत्परम् ॥७॥

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
योगिनस्तत्प्रपश्यन्ति समर्था नैव चोदितुम् ॥८॥

तत्सर्वं सर्वभावस्थं विशेषेण विवर्जितम्।
पश्यतामप्यनिर्देश्यं यतो वाग्विषये न तत् ॥९॥

कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थं च देवताः।
ब्रह्म प्रकाशते तेषां तद्वरेणैव सर्वगम् ॥१०॥

प्रधानादिविशेषान्तं यत्रैतदखिलं जगत्।
तस्यानन्तस्य कः शक्तः प्रमाणं गदितुं नरः ॥११॥

सूक्ष्माणां तत्परं सूक्ष्मं स्थूलानां तन्महत्तरम्।
सर्वव्याप्यपि राजेन्द्रदूरस्थं चान्तिके च तत् ॥१२॥

पराङ्मुखानां गोविन्दे विषयाक्रान्तचेतसाम्।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥१३॥

न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि।
संसाराध्वनि राजेन्द्रततो दूरतरे हि तत् ॥१४॥

तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥१५॥

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥

सर्वेन्द्रियगुनाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैनन्निर्गुणं गुणभोक्तृ च ॥१७॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१८॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्यधिष्ठितम् ॥१९॥

तच्चाद्यो जगतामीशः परेशः परमेश्वरः।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥२०॥

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम्।
केचिद्विष्णुं हरिं केचित्केचित्केशवसञ्ज्ञितम् ॥२१॥

केचिद्गोविन्दनामानं पुण्डरीकाक्षमच्युतम्।
केचिज्जनार्दनं त्वन्ये वदन्ति पुरुषोत्तमम् ॥२२॥

केचिद्विरिञ्चिं ब्राह्मणमब्जयोनिं तथापरे।
शर्वमीशमजं रुद्रंशूलिनं चापरे नृप ॥२३॥

वरुणं केचिदादित्यमिन्द्रमग्निमथापरे।
यमं धनेशमपरे सोममन्ये प्रजापतिम् ॥२४॥

मूलम्

वरुणं केचिदादित्यमिन्द्रमग्निमथापरे।
यमं धनेशमपरे सोममन्ये प्रजापतिम् ॥२४॥

हिरण्यगर्भं कपिलं क्षेत्रज्ञं कालमीश्वरम्।

विश्वास-प्रस्तुतिः

स्वभावमन्तरात्मानमात्मानं बुद्धिरूपिणम्।
वदन्ति नामभिश्चान्यैरनामानमरूपिणम् ॥२५॥

श्रूयतां तु नरव्याघ्र वेदवेदान्तनिश्चयः।
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः ॥२६॥

तद्विष्णोः परमं ब्रह्म यतो नावर्तते पुनः।
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः ॥२७॥

ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च।
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः ॥२८॥

सञ्ज्ञा तु तस्य नैवास्ति न रूपं नापि कल्पना।
स सर्वभूतानुगतः परमात्मा सनातनः ॥२९॥

इति विष्णुधर्मेषु परमपदाख्यानम्।