अथ चतुर्नवतितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
संसारार्णवमग्नेन पुरुषेण महामुने।
विषयासक्तचित्तेन यत्कार्यं तद्वदस्व मे ॥१॥
मूलम्

भ्राम्यतां सङ्कटे दुर्गे संसारे विषयैषिणाम्।
स्वकर्मभिर्मनुष्याणामुपकारकमुच्यताम् ॥२॥

क्षीप्ते मनस्यनायत्ते वृद्धे लोभादिके गणे।
शरणं यन्मनुष्याणां तदाचक्ष्व महामुने ॥३॥

शौनक उवाच।
विश्वास-प्रस्तुतिः
संसाराणवपोताय हरये हरिमेधसे।
नमस्कृत्य प्रवक्ष्यामि नराणामुपकारकम् ॥४॥

सम्यगाराधितो भक्त्या वेदभारगुरोर्गुरुः।
कृष्णद्वैपायनः प्राह यच्छिष्याय सुमन्तवे ॥५॥

पुरा किल दुराचारो दुर्बुद्धिरजितेन्द्रियः।
क्षत्रबन्धुरभूत्पापः परमर्मावघट्टकः ॥६॥

मातापित्रोरशुश्रूषुद्रोर्ग्धा! बन्धुजनस्य च।
गुरुदेवद्विजातीनां निन्दासु सततोद्यतः ॥७॥

मोष्टा विश्वसतां नित्यमप्रीतिः प्रीतिमिच्छताम्।
ऋजूनामनृजुः क्षुद्रः परहिंसापरायणः ॥८॥

स बान्धवैः परित्यक्तस्तथान्यैः साधुवृत्तिभिः।
अवृत्तिमानविश्वास्यो मृगयाजीवनोऽभवत् ॥९॥

अहन्यहनि चक्राङ्गानेणकादींस्तथा मृगान्।
हत्वात्मपोषणं चक्रे व्याधवृत्तिरतोऽधमः ॥१०॥

एतया तस्य दुष्टस्य कुवृत्त्या पापचेतसः।
जगाम सुमहान्कालः कुर्वतो दारपोषणम् ॥११॥
मूलम्
एतया तस्य दुष्टस्य कुवृत्त्या पापचेतसः।
जगाम सुमहान्कालः कुर्वतो दारपोषणम् ॥११॥
विश्वास-प्रस्तुतिः
एकदा तु मुनिस्तेन निदाघे विजने वने।
मृगयामटता दृष्टो वर्त्मनः प्रच्युतः पथि ॥१२॥

क्षुत्क्षामकण्ठः सुश्रान्तः शुष्कजिह्वास्यतालुकः।
तृट्परीतोऽतिविभ्रान्तः कान्दिग्भूतोऽल्पचेतनः ॥१३॥

श्वासायासश्लथैरङ्गैः कृच्छ्रादात्मानमुद्वहन्।
सूर्यांशुतापात्प्रगलत्स्वेदार्द्रचरणो नृप ॥१४॥

तस्मिन्दृष्टे ततस्तस्य क्षत्रबन्धोरजायत।
कारुण्यं दारुणस्यापि व्याधवृत्तिपरिग्रहात् ॥१५॥

तमुपेत्य च भूपाल क्षत्रबन्धुः स तापसम्।
उवाच विप्रप्रवरं विमार्गे वर्तते भवान् ॥१६॥

नैष पन्था द्विजश्रेष्ठ विपिनोऽयं महाटविः।
मामन्वेहि त्वरायुक्तो मा विपत्तिं समेष्यसि ॥१७॥

निशाम्य तद्वचः श्रान्तः क्षत्रबन्धोर्महानुनिः।
अनुवव्राज राजेन्द्रजलाशाजनितोद्यमः ॥१८॥

किञ्चिद्भूभागमासाद्य ददर्श च महामुनिः।
हंसकारण्डवाकीर्णं प्रोत्फुल्लनलिनं सरः ॥१९॥

सारसाभिरुतं रम्यं सूपतीर्थमकर्दमम्।
पद्मोत्पलयुतं चारु पूर्णं स्वच्छेन वारिणा ॥२०॥

सुशीतवनषण्डैश्च समन्तात्परिवेष्टितम्।
तत्क्षणात्तृट्परीतानां चक्षुषो ह्लादकारिणम् ॥२१॥

दृष्ट्वैव स मुनिस्तत्र तदामलजलं सरः।
सूर्यांशुतप्तो घर्मार्तो निपपात तदम्भसि ॥२२॥

तत्राश्वास्य कृताह्लादः पपौ वारि नराधिप।
उज्जीवयन्मुनिवरो जिह्वातालु शनैः शनैः ॥२३॥

सोऽपि क्षत्रियदायादो मुनित्राणपरायणः।
विहाय सशरं चापमुज्जहार बिसान्यथ ॥२४॥
मूलम्
सोऽपि क्षत्रियदायादो मुनित्राणपरायणः।
विहाय सशरं चापमुज्जहार बिसान्यथ ॥२४॥
विश्वास-प्रस्तुतिः
ददौ च तस्मै राजेन्द्रक्षुधिताय तपस्विने।
ययौ च तृप्तिं विप्रोऽपि बिसनालाम्बुभक्षणात् ॥२५॥

तमाश्वस्तं कृताहारमुपविष्टं सुशीतले।
विश्वास-प्रस्तुतिः
न्यग्रोधशाखासञ्छन्ने निष्पङ्के सरसस्तटे।
संवाहयामास च तं क्षत्रबन्धुः शनैः शनैः ॥२६॥

पादजङ्घोरुपृष्टेषु तेन संवाहितो मुनिः।
जहौ श्रमममित्रघ्न वाक्यं चेदमुवाच ह ॥२७॥

ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
कस्त्वं भद्रमुखाद्येह मम प्राणपरिक्षये।
हस्तावलम्बदो धात्रा जनितो विपिने वने ॥२८॥

विभ्रष्टमार्गो मूढोऽहं क्षुत्पिपासाश्रमातुरः।
त्रातस्त्वयामहाभाग कस्त्वमत्र वनेऽजने ॥२९॥

क्षुत्पिपासाश्रमार्तस्य यस्त्राणं विपिने वने।
करोति पुरुषव्याघ्र तस्य लोका मधुश्च्युतः ॥३०॥

स त्वं ब्रूहि महाभाग ममाभ्युद्धारकारकः।
येषां प्रख्यातयशसां समुत्पन्नः कुले भवान् ॥३१॥

क्षत्रबन्धुरुवाच।
विश्वास-प्रस्तुतिः
हर्यश्वस्य कुले जातः पुत्रश्चित्ररथस्य च।
विमतिर्नाम नाम्नाहं हन्तुमभ्यागतो मृगान् ॥३२॥
मूलम्
हर्यश्वस्य कुले जातः पुत्रश्चित्ररथस्य च।
विमतिर्नाम नाम्नाहं हन्तुमभ्यागतो मृगान् ॥३२॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
पित्रर्थं मृगयेयं ते लक्ष्यार्थं वा महामते।
आहारार्थमुताहोऽत्र मृगया व्यसनं तु ते ॥३३॥
मूलम्
पित्रर्थं मृगयेयं ते लक्ष्यार्थं वा महामते।
आहारार्थमुताहोऽत्र मृगया व्यसनं तु ते ॥३३॥
क्षत्रबन्धुरुवाच।
विश्वास-प्रस्तुतिः
वृत्तिरेषा मम ब्रह्मन्परित्यक्तस्य बान्धवैः।
भृत्यैरन्यैश्च नष्टेऽर्थे निर्धनस्यामिषाशिनः ॥३४॥
मूलम्
वृत्तिरेषा मम ब्रह्मन्परित्यक्तस्य बान्धवैः।
भृत्यैरन्यैश्च नष्टेऽर्थे निर्धनस्यामिषाशिनः ॥३४॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
किमर्थं त्वं परित्यक्तो भृत्यस्वजनबन्धुभिः।
पातकी कीकटः क्षुद्रैरुपजप्तः परेण वा ॥३५॥
मूलम्
किमर्थं त्वं परित्यक्तो भृत्यस्वजनबन्धुभिः।
पातकी कीकटः क्षुद्रैरुपजप्तः परेण वा ॥३५॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्युक्तः सोऽभवन्मौनी पश्यन्दोषं नृपात्मनि।
अदुष्टांश्चात्मनो भृत्यान्विचिन्त्यातीव दुर्मनाः ॥३६॥

अवेक्ष्य तं साध्वसिनं क्षत्रबन्धुं महामुनिः।
ध्यात्वा चिरमथापश्यत्क्षत्रबन्धुं स्वदोषिणम् ॥३७॥

सन्त्यक्तबन्धुलोके च तस्मिन्दुर्वृत्तचेतसि।
विश्वास-प्रस्तुतिः
कृपां चकार स मुनिः।
क्षत्रबन्धौ दयापरः ॥३८॥
मूलम्
कृपां चकार स मुनिः।
क्षत्रबन्धौ दयापरः ॥३८॥
विश्वास-प्रस्तुतिः
उवाच च मुनिर्भूयः क्षत्रबन्धुं कृपालुकः।
उपकारिणमुग्रेण कर्मणा तं विदूषितम् ॥३९॥

अपि शक्नोषि संयन्तुमकार्यप्रसृतं मनः।
प्राणि पीडानिवृत्तिं च कर्तुं क्रोधादिसंयमम् ॥४०॥

अपि मैत्रीं जने कर्तुं शक्नोषि त्वं मुधैव या।
ऐहिकामुष्मिकी वीर क्रियमाणा महाफला ॥४१॥
मूलम्
अपि मैत्रीं जने कर्तुं शक्नोषि त्वं मुधैव या।
ऐहिकामुष्मिकी वीर क्रियमाणा महाफला ॥४१॥
क्षत्रबन्धुरुवाच।
विश्वास-प्रस्तुतिः
न शक्नोमि क्षमां कर्तुं न मैत्रीं मम चेतसि।
प्राणिनामवधाद्ब्रह्मन्नास्ति दारादिपोषणम् ॥४२॥

अनायत्तं च मे चित्तं विषयानेव धावति।
तदप्राप्तौ च सर्वेषां क्रोधादीनां समुद्भवः ॥४३॥

सोऽहं न मैत्रीं न क्षान्तिं न हिंसादिविवर्जनम्।
कर्तुं शक्नोमि यत्कार्यं तदन्यदुपदिश्यताम् ॥४४॥

तेनैवमुक्तो विप्रोऽसौ तमुपेक्ष्यममन्यत।
तथाप्यतिकृपालुत्वात्क्षत्रबन्धुमभाषत ॥४५॥
मूलम्
तेनैवमुक्तो विप्रोऽसौ तमुपेक्ष्यममन्यत।
तथाप्यतिकृपालुत्वात्क्षत्रबन्धुमभाषत ॥४५॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीहि मे।
स्वल्पमन्यन्मयोक्तं हि करिष्यति भवान्यदि ॥४६॥
मूलम्
यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीहि मे।
स्वल्पमन्यन्मयोक्तं हि करिष्यति भवान्यदि ॥४६॥
क्षत्रबन्धुरुवाच।
विश्वास-प्रस्तुतिः
अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः।
वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ॥४७॥
मूलम्
अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः।
वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ॥४७॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता।
गोविन्देति सदा वाच्यं क्षुतप्रस्खलितादिषु ॥४८॥

कार्यं वर्त्मनि मूढानां क्षेममार्गेऽवतारणम्।
हितं च वाच्यं पृष्टेन शत्रूणामपि जानता ॥४९॥

एतत्तवोपकाराय भविष्यत्यनुपालितम्।
यद्यन्यदुपसंहर्तुं न शक्नोषि महीपते ॥५०॥

इत्युक्त्वा प्रययौ विप्रस्तेन वर्त्मनि दर्शिते।
सोऽपि तच्छासनं सर्वं क्षत्रबन्धुश्चकार ह ॥५१॥

गोविन्देति क्षुते गच्छन्प्रस्थानस्खलितादिषु।
उदीरयन्नवापाग्र्यां रतिं तत्र शनैः शनैः ॥५२॥

ततः कालेन महता क्षत्रबन्धुर्ममार वै।
अजायत च विप्रस्य कुले जातिस्मरो नृप ॥५३॥

तस्य संस्मरतो जातीः शतशोऽथ सहस्रशः।
विश्वास-प्रस्तुतिः
निर्वेदः सुमहाञ्जज्ञे संसारेऽत्रातिदुःखदे।
स चिन्तयामास जगत्सर्वमेतदचेतनम् ॥५४॥

अहमेकोऽत्र सञ्ज्ञावान्गोविन्दोदीरितं हि यत्।
विश्वास-प्रस्तुतिः
यच्चाध्वनि विमूढानां कृतं वर्त्मावतारणम्।
हितमुक्तं च पृष्टेन तस्य जातिस्मृतिः फलम् ॥५५॥

सोऽहं जातिस्मरो भूयः करिष्याम्यतिसङ्कटे।
तदा संसारचक्रेऽस्मिन्येन प्राप्स्यामि निर्वृतिम् ॥५६॥

यस्योच्चारणमात्रेण जाता जातिस्मृतिर्मम।
तमेवाराधयिष्यामि जगतामीश्वरं हरिम् ॥५७॥
मूलम्
यस्योच्चारणमात्रेण जाता जातिस्मृतिर्मम।
तमेवाराधयिष्यामि जगतामीश्वरं हरिम् ॥५७॥
विश्वास-प्रस्तुतिः
यन्मयं परमं ब्रह्म तदव्यक्तं च यन्मयम्।
यन्मयं व्यक्तमप्येतद्भविष्यामि हि तन्मयः ॥५८॥

यद्यनाराधिते विष्णौ ममैतज्जन्म यास्यति।
ध्रुवं बन्धवतो मुक्तिर्नैव जातूपपद्यते ॥५९॥

अहो दुःखमहो दुःखमहो दुःखमतीव हि।
स्वरूपमतिघोरस्य संसारस्यातिदुर्लभम् ॥६०॥

विण्मूत्रपूयकलिले गर्भवासेऽतिपीडनात्।
अशुचावतिबीभत्से दुःखमत्यन्तदुःसहम् ॥६१॥
मूलम्
विण्मूत्रपूयकलिले गर्भवासेऽतिपीडनात्।
अशुचावतिबीभत्से दुःखमत्यन्तदुःसहम् ॥६१॥
विश्वास-प्रस्तुतिः
दुःखं च जायमानानां गात्रभङ्गादिपीडनात्।
वातेन प्रेर्यमाणानां मूर्छाकार्यतिभीतिदम् ॥६२॥

बालत्वे निर्विवेकानां भूतदेवात्मसम्भवम्।
यौवने वार्द्धके चैव मरणे चातिदारुणम् ॥६३॥

शीतोष्णतृष्णाक्षुद्रोगज्वरादिपरिवारितः।
सर्वदैव पुमानास्ते यावज्जन्मान्तसंस्थितिः ॥६४॥

दुःखातिशयभूतं हि यदन्ते वासुखं नृणाम्।
तस्यानुमानं नैवास्ति कार्येणैवानुमीयते ॥६५॥

कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुःसहम्।
दुःखं तत्संस्मृतिप्राप्तं करोति मम वेपथुम् ॥६६॥

कुम्भीपाके तप्तकुम्भे महारौरवरौरवे।
कालसूत्रे महायन्त्रे शूकरे कूटशाल्मलौ ॥६७॥

असिपत्रवने दुःखमप्रतिष्ठे च यन्महत्।
विडालवक्त्रे च तथा तमस्युग्रे च दुःसहम् ॥६८॥

शस्त्राग्नियन्त्रवेगेषु शीतोष्णादिषु दारुणम्।
ततश्च मुक्तस्य पुनर्योनिसङ्क्रमणेषु यत् ॥६९॥

गर्भस्थस्य च यद्दुःखमतिदुःसहमुल्वणम्।
पुनश्च जायमानस्य जन्म यौवनजं च यत् ॥७०॥
मूलम्
गर्भस्थस्य च यद्दुःखमतिदुःसहमुल्वणम्।
पुनश्च जायमानस्य जन्म यौवनजं च यत् ॥७०॥
विश्वास-प्रस्तुतिः
दुःखान्येतान्यसह्यानि संसारान्तर्विवर्तिभिः।
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ॥७१॥

न वै सुखकला काचित्तत्रास्त्यत्यन्तदुःखदे।
संसारसङ्कटे तीव्रे उपेतानां कदाचन ॥७२॥

विषयासक्तचित्तानां मनुष्याणां कदा मतिः।
संसारोत्तारणे वाञ्छां करिष्यति हि चञ्चला ॥७३॥

गोविन्दनाम्ना सततं समुच्चारणसम्भवम्।
जातिस्मरत्वमेतन्नः किं वृथैव प्रयास्यति ॥७४॥

सोऽहं मुक्तिप्रदानार्थमनन्तमजमव्ययम्।
तच्चित्तस्तन्मयो भूत्वा तोषयिष्यामि केशवम् ॥७५॥

आत्मानमात्मनैवं स प्रोक्त्वा जातिस्मरो द्विजः।
तुष्टाव वाग्भिरिष्टाभिः प्रणतः पुरुषोत्तमम् ॥७६॥
मूलम्
आत्मानमात्मनैवं स प्रोक्त्वा जातिस्मरो द्विजः।
तुष्टाव वाग्भिरिष्टाभिः प्रणतः पुरुषोत्तमम् ॥७६॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम्।
यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ॥७७॥

कर्तारमकृतं विष्णुं सर्वकारणकारणम्।
अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ॥७८॥
मूलम्
कर्तारमकृतं विष्णुं सर्वकारणकारणम्।
अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ॥७८॥
विश्वास-प्रस्तुतिः
परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम्।
तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ॥७९॥

सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन।
संसाराब्धिमहापोत समुद्धर महार्णवात् ॥८०॥

व्योमानिलाग्न्यम्बुधरास्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप।
अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ॥८१॥

तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः।
त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ॥८२॥

प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति।
तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ॥८३॥

यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति।
त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ॥८४॥

त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम्।
यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ॥८५॥

किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे।
ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ॥८६॥

तया विमूढेन मयाभनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित्।
भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्तादिषु दुःखितेन ॥८७॥

न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम्।
स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे॥८८॥

सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक्।
देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ॥८९॥

त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि।
रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ॥९०॥

एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः।
मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ॥९१॥

न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः।
अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ॥९२॥

सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः।
तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ॥९३॥

उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि।
तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ॥९४॥

ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि।
भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ॥९५॥

दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य।
भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ॥९६॥

दुःखानि बालेषु महन्ति नाथ कौमारके यौवनिनश्च पुंसः।
ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ॥९७॥

करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः।
यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ॥९८॥

दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम्।
प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ॥९९॥

शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः ॥१००॥

मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम्।
मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव ॥१०१॥

सोऽहं भृशार्तः करुणां कुरु त्वं संसारगात्रे पतितस्य विष्णो।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि ॥१०२॥

परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः ॥१०३॥

प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार।
मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण ॥१०४॥

धर्मात्मनामविकलां त्वयि नाथ भक्तिं।
श्रद्धावतां सततमुद्वहतां वरेण्य।
विश्वास-प्रस्तुतिः
कार्यं कियन्मम विमूढधियोऽधमस्य।
भूत्वा कृपालुरमलामज देहि बुद्धिम् ॥१०५॥
मूलम्
कार्यं कियन्मम विमूढधियोऽधमस्य।
भूत्वा कृपालुरमलामज देहि बुद्धिम् ॥१०५॥
ज्ञात्वा ययाखिलमसारमसारमेव।
भूतेन्द्रियादिकमपारममुक्तिमूलम्।
विश्वास-प्रस्तुतिः
मायान्तरेयमचलां तव विश्वरूप।
सम्मोहितं सकलमेव जगद्ययैतत् ॥१०६॥
मूलम्
मायान्तरेयमचलां तव विश्वरूप।
सम्मोहितं सकलमेव जगद्ययैतत् ॥१०६॥
ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या।
ज्ञातुं न यं परमगुह्यतमं समर्थाः।
विश्वास-प्रस्तुतिः
न त्वामलं स्तुतिपथेष्वहमीशितारं।
स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः ॥१०७॥

यस्मादिदं भवति यत्र जगत्तथेदं।
यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः।
विश्वास-प्रस्तुतिः
तं सर्गसंस्थितिविनाशनिमित्तभूतं।
स्तोतुं भवन्तमलमीश न कश्चिदस्ति ॥१०८॥
मूलम्
तं सर्गसंस्थितिविनाशनिमित्तभूतं।
स्तोतुं भवन्तमलमीश न कश्चिदस्ति ॥१०८॥
मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं।
क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि।
विश्वास-प्रस्तुतिः
इत्थं कृपां कुरु मयि प्रणते किलेश।
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥१०९॥

यस्योदरे सकल एव महीध्रचन्द्रदेवेन्द्ररुद्रमरुदश्विदिवाकराग्निभूम्यम्बुवायुगगनं जगतां समुहां।
स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ॥११०॥

यस्याग्निरुद्रकमलोद्भववासवाद्यैः।
स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम्।
विश्वास-प्रस्तुतिः
अभ्यर्च्यते वद हरे स कथं मयाद्य।
सम्पूजितः परमुपैष्यसि तोषमीश ॥१११॥
मूलम्
अभ्यर्च्यते वद हरे स कथं मयाद्य।
सम्पूजितः परमुपैष्यसि तोषमीश ॥१११॥
न स्तोतुमच्युत भवन्तमहं समर्थो।
नैवार्चनैरलमहं तव देव योग्यः।
विश्वास-प्रस्तुतिः
चित्तं च न त्वयि समाहितमीश दोषैर्।
आक्षिप्यते कथय किं नु करोमि पापः ॥११२॥
मूलम्
चित्तं च न त्वयि समाहितमीश दोषैर्।
आक्षिप्यते कथय किं नु करोमि पापः ॥११२॥
तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे।
विष्णो कृपां परमकारुणिकः किल त्वम्।
विश्वास-प्रस्तुतिः
संसारसागरनिमग्नमनन्त दीनम्।
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥११३॥
मूलम्
संसारसागरनिमग्नमनन्त दीनम्।
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥११३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्थं तेन नरव्याघ्र स्तुतो भक्तिमता ततः।
संसारबन्धभीतेन कृष्णः प्रत्यक्षतां ययौ ॥११४॥

स तं प्रत्यक्षमीशानमनन्तमपराजितम्।
देवदेवमुवाचेदमनादिनिधनं हरिम् ॥११५॥
मूलम्
स तं प्रत्यक्षमीशानमनन्तमपराजितम्।
देवदेवमुवाचेदमनादिनिधनं हरिम् ॥११५॥
विश्वास-प्रस्तुतिः
शिरसा धरणीं गत्वा यतवाक्कायमानसः।
परापरेश्वरं विष्णुं जिष्णुमाद्यमनोपमम् ॥११६॥

दिव्याक्षरपदानन्त प्रसन्नो भगवान्यदि।
तद्देव देहि दीनाय मह्यमेकमिमं वरम् ॥११७॥

देवदेव उवाच।
विश्वास-प्रस्तुतिः
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते।
वरार्थिनां द्विजश्रेष्ठ नाफलं मम दर्शनम् ॥११८॥
मूलम्
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते।
वरार्थिनां द्विजश्रेष्ठ नाफलं मम दर्शनम् ॥११८॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
जन्मसम्पच्चिता देव पापसम्पन्ममाखिला।
प्रयातु नाशमीशेश त्वत्प्रसादादधोक्षज ॥११९॥
मूलम्
जन्मसम्पच्चिता देव पापसम्पन्ममाखिला।
प्रयातु नाशमीशेश त्वत्प्रसादादधोक्षज ॥११९॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
भक्तिभावपरेणाद्य मन्मयेन द्विजोत्तम।
यः स्तुतोऽस्मि क्षयं पापं तेनैवाखिलमागतम् ॥१२०॥

अस्मत्तो वरयेहाद्य द्विजवर्यापरं वरम्।
मयि भक्तिमतामत्र लोके किञ्चिन्न दुर्लभम् ॥१२१॥
मूलम्
अस्मत्तो वरयेहाद्य द्विजवर्यापरं वरम्।
मयि भक्तिमतामत्र लोके किञ्चिन्न दुर्लभम् ॥१२१॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
धन्योऽस्मि सर्वनाथेन यत्कृतो मय्यनुग्रहः।
तदेकमेव त्वत्तोऽहं वरमिच्छामि केशव ॥१२२॥

निर्धूतसर्वपापेभ्यो नाथ पुण्यक्षयान्मम।
त्वत्परस्यास्तु गोविन्द मा पुनर्देहसम्भवः ॥१२३॥

यदक्षरं यदचलं व्यापि सूक्ष्मं च यत्परम्।
विशेषाइरविशेषं च गच्छेयं तत्पदं तव ॥१२४॥

एवं भविष्यतीत्युक्त्वा प्रसादसुमुखस्ततः।
भूपाल तं द्विजश्रेष्ठं गतोऽन्तर्धानमीश्वरः ॥१२५॥

तत्प्रसादाद्द्विजः सोऽपि तन्मयस्तद्व्यपाश्रयः।
प्रक्षीणकर्मबन्धस्तु प्रयातः परमं पदम् ॥१२६॥

एवमक्षीणपापोऽपि जगतामीश्वरेश्वरम्।
व्यपाश्रितो हरिं याति पापमुक्तः परं पदम् ॥१२७॥

एतत्त्वया नाव्रतिने न चाशुश्रूषवे परम्।
आख्येयं राजशार्दूल यश्च नार्चयते हरिम् ॥१२८॥

विष्णुभक्ताय दान्ताय व्रतिने पुण्यशीलिने।
कथनीयमिदं भूप रहस्यं परमं हरेः ॥१२९॥

इति विष्णुधर्मेषु क्षत्रबन्धूपाख्याने कारुण्यस्तवः।