०९३

अथ त्रिनवतितमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

इदं च शृणु भूपाल नश्यते दुर्विचिन्तितम्।
येनोपायेन वै पुंसां योषितां वाप्यसंशयम् ॥१॥

मूलम्

इदं च शृणु भूपाल नश्यते दुर्विचिन्तितम्।
येनोपायेन वै पुंसां योषितां वाप्यसंशयम् ॥१॥

विश्वास-प्रस्तुतिः

परदारपरद्रव्यजीवहिंसादिके सदा।
प्रवर्तते नृणां चित्तं तदेतदभिसंस्मरेत् ॥२॥

मूलम्

परदारपरद्रव्यजीवहिंसादिके सदा।
प्रवर्तते नृणां चित्तं तदेतदभिसंस्मरेत् ॥२॥

विश्वास-प्रस्तुतिः

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः।
जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ॥३॥

मूलम्

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः।
जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ॥३॥

नमामि विष्णुं बुद्धिस्थमहङ्कारगतं हरिम्।

विश्वास-प्रस्तुतिः

चित्तस्थमीशमव्यक्तमनन्तमपराजितम्।
विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ॥४॥

मूलम्

चित्तस्थमीशमव्यक्तमनन्तमपराजितम्।
विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ॥४॥

विश्वास-प्रस्तुतिः

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत्।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥५॥

मूलम्

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत्।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥५॥

विश्वास-प्रस्तुतिः

करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च।
तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ॥६॥

मूलम्

करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च।
तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ॥६॥

विश्वास-प्रस्तुतिः

ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः।
तमुपेन्द्रमहं विष्णुं प्रणतोऽर्तिहरं हरिम् ॥७॥

मूलम्

ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः।
तमुपेन्द्रमहं विष्णुं प्रणतोऽर्तिहरं हरिम् ॥७॥

विश्वास-प्रस्तुतिः

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः।
हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ॥८॥

मूलम्

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः।
हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ॥८॥

विश्वास-प्रस्तुतिः

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥९॥

मूलम्

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥९॥

विश्वास-प्रस्तुतिः

नृसिंहानन्त गोविन्द भूतभावन केशव।
दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते ॥१०॥

मूलम्

नृसिंहानन्त गोविन्द भूतभावन केशव।
दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते ॥१०॥

विश्वास-प्रस्तुतिः

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना।
नरकावहमत्युग्रं तच्छमं नय केशव ॥११॥

मूलम्

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना।
नरकावहमत्युग्रं तच्छमं नय केशव ॥११॥

विश्वास-प्रस्तुतिः

ब्रह्मण्यदेव गोविन्द परमार्थ परायण।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१२॥

मूलम्

ब्रह्मण्यदेव गोविन्द परमार्थ परायण।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१२॥

विश्वास-प्रस्तुतिः

यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि।
कायेन मनसा वाचा कृतं पापमजानता ॥१३॥

मूलम्

यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि।
कायेन मनसा वाचा कृतं पापमजानता ॥१३॥

विश्वास-प्रस्तुतिः

जानता वा हृषीकेश पुण्डरीकाक्ष माधव।
नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् ॥१४॥

मूलम्

जानता वा हृषीकेश पुण्डरीकाक्ष माधव।
नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् ॥१४॥

विश्वास-प्रस्तुतिः

शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम्।
पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव ॥१५॥

मूलम्

शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम्।
पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव ॥१५॥

विश्वास-प्रस्तुतिः

यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः।
कृतवांश्चापि यच्चाहं कायेन मनसा गिरा ॥१६॥

मूलम्

यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः।
कृतवांश्चापि यच्चाहं कायेन मनसा गिरा ॥१६॥

विश्वास-प्रस्तुतिः

महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम्।
आतु प्रशमं सर्वं वासुदेवस्य कीर्तनात् ॥१७॥

मूलम्

महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम्।
आतु प्रशमं सर्वं वासुदेवस्य कीर्तनात् ॥१७॥

विश्वास-प्रस्तुतिः

परं ब्रह्म परं धाम पवित्रं परमं च यत्।
तस्मिन्सङ्कीर्तिते विष्णोः पदे पापं प्रणश्यतु ॥१८॥

मूलम्

परं ब्रह्म परं धाम पवित्रं परमं च यत्।
तस्मिन्सङ्कीर्तिते विष्णोः पदे पापं प्रणश्यतु ॥१८॥

विश्वास-प्रस्तुतिः

सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः।
ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् ॥१९॥

मूलम्

सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः।
ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् ॥१९॥

विश्वास-प्रस्तुतिः

यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम्।
पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् ॥२०॥

मूलम्

यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम्।
पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् ॥२०॥

विश्वास-प्रस्तुतिः

सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम्।
प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् ॥२१॥

मूलम्

सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम्।
प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् ॥२१॥

शारीरे मानसे चैव पापे वाग्जे च पार्थिव।

विश्वास-प्रस्तुतिः

कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः।
मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् ॥२२॥

मूलम्

कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः।
मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् ॥२२॥

विश्वास-प्रस्तुतिः

उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे।
विलयं पापमायाति भाण्डमाममिवाम्भसि ॥२३॥

मूलम्

उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे।
विलयं पापमायाति भाण्डमाममिवाम्भसि ॥२३॥

विश्वास-प्रस्तुतिः

तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते।
जप्तव्यमेतत्पापस्य प्रशमाय महीपते ॥२४॥

मूलम्

तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते।
जप्तव्यमेतत्पापस्य प्रशमाय महीपते ॥२४॥

इति विष्णुधर्मेषु द्वितीयः पापप्रशमनस्तवः।