०९२

अथ द्विनवतितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

भगवंश्चञ्चलं चित्तं मनुष्याणामहर्निशम्।
विषयासङ्गदुर्दुष्टं पापायैव प्रवर्तते ॥१॥

मूलम्

मौनेन वाचिकं पापं पुम्भिर्ब्रह्मन्निवर्त्यते।
शारीरमप्यकरणात्सुनिवर्त्यं मतं मम ॥२॥

यत्त्वेतन्मानसं पापं मनुष्यैस्तन्महामते।
दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः ॥३॥

तदहं श्रोतुमिच्छामि मनुष्यैर्दुर्विचिन्तितैः।
यत्स्मर्तव्यं च जप्यं च मानसाघप्रशान्तये ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

त्वद्युक्तोऽयमनुप्रश्नः साध्वेतद्भवतोदितम्।
चआद्धि चित्तानां मानसं बहु पातकम् ॥५॥

भूमौ तृणमसङ्ख्यातं यथा च दिवि तारकाः।
तथा पापमसङ्ख्येयं चेतसा क्रियते तु यत् ॥६॥

परदारपरद्रव्यपरहिंसासु मानसम्।
अहर्निशं मनुष्याणां सातत्येन प्रवर्तते ॥७॥

यद्यस्योपशमो राजन्भुवि न क्रियते नृभिः।
तन्नास्ति नरकोत्तारो वर्षकोटीशतैरपि ॥८॥

मूलम्

यद्यस्योपशमो राजन्भुवि न क्रियते नृभिः।
तन्नास्ति नरकोत्तारो वर्षकोटीशतैरपि ॥८॥

विश्वास-प्रस्तुतिः

तदस्य प्रशमायालं प्रायश्चित्तं नराधिप।
शृणुष्व येन चित्तोत्थं सद्यः पापं व्यपोहति ॥९॥

ॐ नमो वासुदेवाय पुरुषाय महात्मने।
हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे ॥१०॥

विष्णवे जिष्णवे नित्यं शान्तायानघरूपिणे।
सर्वस्थित्यन्तकरणव्रतिने पीतवाससे ॥११॥

नारायणाय विश्वाय विश्वेशायेश्वराय च।
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च ॥१२॥

मूलम्

नारायणाय विश्वाय विश्वेशायेश्वराय च।
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च ॥१२॥

विश्वास-प्रस्तुतिः

केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः।
नमः परमकल्याणकल्याणायात्मयोनये ॥१३॥

मूलम्

केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः।
नमः परमकल्याणकल्याणायात्मयोनये ॥१३॥

विश्वास-प्रस्तुतिः

जनार्दनाय देवाय श्रीधराय सुमेधसे।
महात्मने वरेण्याय नमः पङ्कजनाभये ॥१४॥

मूलम्

जनार्दनाय देवाय श्रीधराय सुमेधसे।
महात्मने वरेण्याय नमः पङ्कजनाभये ॥१४॥

विश्वास-प्रस्तुतिः

स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे।
नमो नताय नम्रेशैरशेषैर्वासवादिभिः ॥१५॥

नमो मायाविने तुभ्यं हरये हरिमेधसे।
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥१६॥

मूलम्

नमो मायाविने तुभ्यं हरये हरिमेधसे।
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥१६॥

विश्वास-प्रस्तुतिः

गोविन्दायादिभूताय श्रादीनां महात्मने।
नमो भूतात्मभूताय आत्मने परमात्मने ॥१७॥

मूलम्

गोविन्दायादिभूताय श्रादीनां महात्मने।
नमो भूतात्मभूताय आत्मने परमात्मने ॥१७॥

विश्वास-प्रस्तुतिः

अच्युताय नमो नित्यमनन्ताय नमो नमः।
दामोदराय शुचये यज्ञेशाय नमो नमः ॥१८॥

मूलम्

अच्युताय नमो नित्यमनन्ताय नमो नमः।
दामोदराय शुचये यज्ञेशाय नमो नमः ॥१८॥

विश्वास-प्रस्तुतिः

नमो मायापटच्छन्नजगद्धाम्ने महात्मने।
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे ॥१९॥

मूलम्

नमो मायापटच्छन्नजगद्धाम्ने महात्मने।
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे ॥१९॥

विश्वास-प्रस्तुतिः

दयालवे नमो नित्यं कपिलाय सुमेधसे।
संसारसागरोत्तारज्ञानपोतप्रदायिने ॥२०॥

मूलम्

दयालवे नमो नित्यं कपिलाय सुमेधसे।
संसारसागरोत्तारज्ञानपोतप्रदायिने ॥२०॥

विश्वास-प्रस्तुतिः

अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि।
करालसौम्यरूपाय वैकुण्ठाय नमो नमः ॥२१॥

मूलम्

अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि।
करालसौम्यरूपाय वैकुण्ठाय नमो नमः ॥२१॥

विश्वास-प्रस्तुतिः

यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम्।
तथा विलयमभ्येतु ममैतद्दुर्विचिन्तितम् ॥२२॥

यथा न विष्णुभक्तेषु पापमाप्नोति संस्थितिम्।
तथा विनाशमभ्येतु ममैतद्दुर्विचिन्तितम् ॥२३॥

स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति।
तथा प्रणाशमभ्येतु ममैतद्दुर्विचिन्तितम् ॥२४॥

यथा सर्वत्रगो विष्णुस्तत्र सर्वं च संस्थितम्।
उपयातु तथा नाशं ममाघं चित्तसम्भवम् ॥२५॥

पापं प्रणाशं मम सम्प्रयातु यन्मानसं यच्च करोमि वाचा।
शारीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥२६॥

प्रयान्तु दोषा मम नाशमाशु रागादयः कारणकारणेशे।
विज्ञानदीपामलमार्गदृश्ये स्मृते जगद्धातरि वासुदेवे ॥२७॥

भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य।
मयाद्य भक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे ॥२८॥

ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित्।
भवन्तु ते सिद्धियुजो मयाद्य स्मृते जगद्धातरि वासुदेवे ॥२९॥

पुष्यन्तु मैत्रीं विरमन्तु रागादुज्झन्तु लोभं क्षमिणो भवन्तु।
आब्रह्मवृक्षान्तरगा मयाद्य स्मृते जगद्धातरि वासुदेवे ॥३०॥

ये प्राणिनः कुत्रचिदत्र सन्ति ब्रह्माण्डमध्ये परतश्च केचित्।
ते यान्तु सिद्धिं परमां मयाद्य स्मृते जगद्धातरि वासुदेवे ॥३१॥

अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः।
कुर्वन्तु भक्तिं परमामनन्ते मत्स्तोत्रतुष्टस्य हरेः प्रसादात् ॥३२॥

शृण्वन्ति ये मे पठतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम्।
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ॥३३॥

ये चापि मूका विकलेन्द्रियत्वाच्छृण्वन्ति नो नैव विलोकयन्ति।
पश्वादयः कीटपिपीलिकाश्च भवन्तु तेऽप्यच्युतयोगभाजः ॥३४॥

नामस्वनन्तस्य च कीर्तितेषु यदत्र पुण्यं जगतः प्रसूतेः।
तेनाविवेकोपहतात्मबोधा भवन्तु पुंसां मतयः सुशीलाः ॥३५॥

ये दुःखितास्ते सुखिनो भवन्तु द्वेषान्विता मैत्रगुणोपपन्नाः।
सत्यार्जवाद्यास्त्वनृता विमाया मत्संस्तवाराधितकृष्णदृष्टाः ॥३६॥

नश्यन्तु दुःखानि जगत्यपैतु लोभादिको दोषगुणः प्रजाभ्यः।
यथात्मनि भ्रातरि चात्मजे च तथा जनस्यास्तु जनेऽपि हार्दम् ॥३७॥

संसारवैद्येऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते।
संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ॥३८॥

एतत्पठन्पार्थिव सर्वपापैर्विमुच्यते विष्णुपरः सदैव।
प्राप्नोति सिद्धिं विपुलं महर्द्धिं न चाप्यनर्थेषु मतिं करोति ॥३९॥

उद्दिश्य सत्त्वानि च यानि यानि स्तोत्रं पठन्ते कृपया मनुष्याः।
सर्वाणि तान्यप्रतिघा भवन्ति प्रयान्ति सिद्धिं भगवत्प्रसादात् ॥४०॥

तस्मात्त्वयैतत्सततं निशासु दिनेषु चैवेश्वर माधवस्य।
सङ्कीर्तनं कार्यमशेषपापविमोक्षहेतोरभवाय चैव ॥४१॥

इति सकलजनोपकारकारी हरिचरणाब्जविनिष्टशुद्धबुद्धिः।
पठति खलु महीप यो मनुष्यः स लयमुपैति हरौ हृताखिलाघः ॥४२॥

इति विष्णुधर्मेषु पापप्रणाशनस्तवः।