अथैकनवतितमोऽध्यायः।
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते नृप।
गोप्रदानेन गोविन्दो यत्पूर्वं कथितं तव ॥१॥
मूलम्

पौषशुक्ले तु तद्वच्च द्वादश्यां घृतधेनुकाम्।
घृतार्चिः प्रीणनायालं प्रदद्यात्फलदायिनीम् ॥२॥

तथैव माघद्वादश्यां प्रदत्ता तिलगौर्नृप।
केशवं प्रीणयत्याशु सर्वकामान्प्रयच्छति ॥३॥

ज्यैष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुका।
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् ॥४॥

लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः।
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः ॥५॥

सर्वभोगमहाभोगान्भ्राजिष्मन्तो मनोरमान्।
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे ॥६॥

पौषमासे तु यो दद्याद्घृतं विप्राय पार्थिव।
समभ्यर्च्याच्युतं सोऽपि सर्वकामानवाप्नुयात् ॥७॥

माघमासे तु सम्पूज्य माधवं ब्राह्मणाय यः।
प्रयच्छति तिलांल्लोकान्सम्प्राप्नोत्यभिवाञ्छितान् ॥८॥

फाल्गुने पुण्डरीकाक्षं यः समभ्यर्च्य यच्छति।
सप्तधान्यं नरश्रेष्ठ स सर्वस्येश्वरो भवेत् ॥९॥

चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम्।
पूजयित्वा स वै भोगान्विचित्रांल्लभते नरः ॥१०॥

वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः।
लोकानैन्द्रान्समासाद्य मोदते विगतज्वरः ॥११॥

दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः।
विश्वास-प्रस्तुतिः
ज्यैष्ठेऽभ्यर्च्य हृषीकेशमुदकुम्भप्रदो हि यः।
स परां निर्वृतिं याति सप्त जन्मान्तराणि वै ॥१२॥

आषाढमासे च हरिं यः समभ्यर्च्य यच्छति।
विप्राय चन्दनं सोऽपि परमाह्लादभाजनम् ॥१३॥

यो नृसिंहं समभ्यर्च्य ब्राह्मणाय प्रयच्छति।
श्रावणे नवनीतं तु स स्वर्गं सुकृती व्रजेत् ॥१४॥

छत्त्रं च यो भाद्रपदे वासुदेवाभिपूजकः।
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् ॥१५॥

गुडशर्करया युक्तं मोदकं च प्रयच्छति।
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तं सोऽमरो भवेत् ॥१६॥

नारायणं समभ्यर्च्य यः प्रयच्छति कार्त्तिके।
दीपकं विप्रगेहेषु विमानं सोऽधिरोहति ॥१७॥

काम्यान्येतान्यशेषाणि यः सम्पूज्य जगत्पतिम्।
विश्वास-प्रस्तुतिः
दानानि यच्छति नरः स सम्पूर्णमनोरथः।
सर्वश्रेष्ठः समस्तानां बन्धूनामाश्रयो भवेत् ॥१८॥

एवं सर्वाणि दानानि प्रीणनायाच्युतस्य यः।
प्रयच्छति स सर्वेषां फलानां भुवि भाजनम् ॥१९॥

तस्मान्नरेन्द्रविप्रेभ्यः प्रीणनाय जगद्गुरोः।
प्रयच्छैतानि दानानि यच्चान्यद्दयितं तव ॥२०॥

यदीच्छसि पुनः प्राप्तुं भूतिमभ्रंशनीं नृप।
तदाराधय गोविन्दं नान्यथा स्युर्विभूतयः ॥२१॥

प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
एवं वसिष्ठेन तदा मान्धाता नृप बोधितः।
सह पत्न्या महीपालः परितोषं परं ययौ ॥२२॥
मूलम्
एवं वसिष्ठेन तदा मान्धाता नृप बोधितः।
सह पत्न्या महीपालः परितोषं परं ययौ ॥२२॥
विश्वास-प्रस्तुतिः
जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम्।
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् ॥२३॥

राजोवाच।
विश्वास-प्रस्तुतिः
धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो।
अनासज्य मनः कृष्णे विषयासक्तचेतसः ॥२४॥
मूलम्
धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो।
अनासज्य मनः कृष्णे विषयासक्तचेतसः ॥२४॥
विश्वास-प्रस्तुतिः
ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः।
नराणां सफला येषु चिन्तितो भगवान्हरिः ॥२५॥

चिन्त्यमानः समस्तानां पापानां हाणिदो हि सः।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते ॥२६॥

कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः ॥२७॥
मूलम्
कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः ॥२७॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
एवं विनिन्द्य सोऽत्मानां मान्धाता पृथिवीपतिः।
चकाराराधने यत्नं देवदेवस्य शार्ङ्गितिणः ॥२८॥

तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर।
प्राप सिद्धिं परां पूर्वं दक्षः प्राचेतसो यथा ॥२९॥

तथा त्वमपि राजेन्द्रसर्वभावेन केशवम्।
समाराधय गोविन्दं तमाराध्य न सीदति ॥३०॥
मूलम्
तथा त्वमपि राजेन्द्रसर्वभावेन केशवम्।
समाराधय गोविन्दं तमाराध्य न सीदति ॥३०॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवं स दैत्यराजेन्द्रः प्रह्रादेनावबोधितः।
बलिराराधने यत्नं चक्रे चक्रभृतस्तदा ॥३१॥

पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः।
वासोभिर्भूषणैः सम्यग्ब्राह्मणानां च तर्पणैः ॥३२॥

जपैर्होमैर्व्रतैश्चैव यथोक्तं पुरुषर्षभ।
सह पत्न्या तथैव त्वं समाराधय केशवम् ॥३३॥

इति विष्णुधर्मेषु प्रह्लादबलिसंवादः।