०९०

अथ नवतितमोऽध्यायः।
गौरमुख उवाच।

विश्वास-प्रस्तुतिः

देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यं नराधिप।
शुद्धिकामा चचाराथ सर्वकामप्रदं व्रतम् ॥१॥

मूलम्

देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यं नराधिप।
शुद्धिकामा चचाराथ सर्वकामप्रदं व्रतम् ॥१॥

विश्वास-प्रस्तुतिः

व्रतेनाराधितस्तेन तदा देव्या जनार्दनः।
ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः ॥२॥

मूलम्

व्रतेनाराधितस्तेन तदा देव्या जनार्दनः।
ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः ॥२॥

विश्वास-प्रस्तुतिः

दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे।
कृत्वा प्रणाममाहेदं भक्तिनम्राथ देवकी ॥३॥

मूलम्

दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे।
कृत्वा प्रणाममाहेदं भक्तिनम्राथ देवकी ॥३॥

विश्वास-प्रस्तुतिः

जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय।
समस्तदेवतादेव वासुदेव नमोऽस्तु ते ॥४॥

मूलम्

जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय।
समस्तदेवतादेव वासुदेव नमोऽस्तु ते ॥४॥

विश्वास-प्रस्तुतिः

प्रधानपुंसोरजयोर्यः कारणमकारणम्।
अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ॥५॥

मूलम्

प्रधानपुंसोरजयोर्यः कारणमकारणम्।
अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ॥५॥

विश्वास-प्रस्तुतिः

त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ॥६॥

मूलम्

त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ॥६॥

विश्वास-प्रस्तुतिः

प्रसीद देव देवानामरिशातन वामन।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ॥७॥

मूलम्

प्रसीद देव देवानामरिशातन वामन।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ॥७॥

देवदेव उवाच।

विश्वास-प्रस्तुतिः

अदितिस्त्वं महाभागे भुवं प्राप्ता सुरारणि।
भर्ता च ते कश्यपोऽयं देयस्तव वरो मया ॥८॥

मूलम्

अदितिस्त्वं महाभागे भुवं प्राप्ता सुरारणि।
भर्ता च ते कश्यपोऽयं देयस्तव वरो मया ॥८॥

देवक्युवाच।

विश्वास-प्रस्तुतिः

अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः।
प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् ॥९॥

मूलम्

अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः।
प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् ॥९॥

देवदेव उवाच।

विश्वास-प्रस्तुतिः

भविष्यत्यचिराद्देवि मदंशेन सुतस्तव।
हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः ॥१०॥

मूलम्

भविष्यत्यचिराद्देवि मदंशेन सुतस्तव।
हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः ॥१०॥

देवक्युवाच।

विश्वास-प्रस्तुतिः

त्वामहं जगद्धातारमुदारोरुपराक्रमम्।
धारयिष्यामि गर्भेण कथमच्युत शंस मे ॥११॥

मूलम्

त्वामहं जगद्धातारमुदारोरुपराक्रमम्।
धारयिष्यामि गर्भेण कथमच्युत शंस मे ॥११॥

देवदेव उवाच।

विश्वास-प्रस्तुतिः

तवोदरेऽवतारं वै पुरापि बलिबन्धने।
कुर्वता विधृताः सप्त लोकास्त्वं चात्ममायया ॥१२॥

मूलम्

तवोदरेऽवतारं वै पुरापि बलिबन्धने।
कुर्वता विधृताः सप्त लोकास्त्वं चात्ममायया ॥१२॥

विश्वास-प्रस्तुतिः

तथा साम्प्रतमप्येतांल्लोकान्सस्थाणुजङ्गमान्।
धारयिष्याम्यथात्मानं त्वां च देवकि लीलया ॥१३॥

मूलम्

तथा साम्प्रतमप्येतांल्लोकान्सस्थाणुजङ्गमान्।
धारयिष्याम्यथात्मानं त्वां च देवकि लीलया ॥१३॥

गौरमुख उवाच।

विश्वास-प्रस्तुतिः

इत्येवमुक्त्वा तां देवीं देवकीं भगवान्प्रभुः।
तिरोबभूव गोविन्दो भूर्भुवःप्रभवो विभुः ॥१४॥

मूलम्

इत्येवमुक्त्वा तां देवीं देवकीं भगवान्प्रभुः।
तिरोबभूव गोविन्दो भूर्भुवःप्रभवो विभुः ॥१४॥

विश्वास-प्रस्तुतिः

अवाप च ततो गर्भं देवकी वसुदेवतः।
अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः ॥१५॥

मूलम्

अवाप च ततो गर्भं देवकी वसुदेवतः।
अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः ॥१५॥

विश्वास-प्रस्तुतिः

नीलोत्पलदलश्यामं ताम्रायतविलोचनम्।
चतुर्बाहुमुदाराङ्गं श्रीवत्साङ्कितवक्षसम् ॥१६॥

मूलम्

नीलोत्पलदलश्यामं ताम्रायतविलोचनम्।
चतुर्बाहुमुदाराङ्गं श्रीवत्साङ्कितवक्षसम् ॥१६॥

विश्वास-प्रस्तुतिः

तं जातं देवकी देवं निधानं सर्वतेजसाम्।
प्रणिपत्याभितुष्टाव सम्प्रस्तुतपयोधरा ॥१७॥

मूलम्

तं जातं देवकी देवं निधानं सर्वतेजसाम्।
प्रणिपत्याभितुष्टाव सम्प्रस्तुतपयोधरा ॥१७॥

विश्वास-प्रस्तुतिः

अबालो बालरूपेण येनेश त्वमिहास्थितः।
त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् ॥१८॥

मूलम्

अबालो बालरूपेण येनेश त्वमिहास्थितः।
त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् ॥१८॥

विश्वास-प्रस्तुतिः

नमस्ते सर्वभूतेश नमस्ते मधुसूदन।
नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन ॥१९॥

मूलम्

नमस्ते सर्वभूतेश नमस्ते मधुसूदन।
नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन ॥१९॥

विश्वास-प्रस्तुतिः

नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये।
उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः ॥२०॥

मूलम्

नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये।
उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः ॥२०॥

विश्वास-प्रस्तुतिः

नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः।
अशेषभूतरूपाय तथारूपाय ते नमः ॥२१॥

मूलम्

नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः।
अशेषभूतरूपाय तथारूपाय ते नमः ॥२१॥

विश्वास-प्रस्तुतिः

अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः।
सर्वेश्वराय सर्वाय सर्वभूताय ते नमः ॥२२॥

मूलम्

अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः।
सर्वेश्वराय सर्वाय सर्वभूताय ते नमः ॥२२॥

नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण।
अशेषभूतरूपाय तथाभूताय ते नमः।
नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः।
अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः।

विश्वास-प्रस्तुतिः

नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण।
नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते ॥२३॥

मूलम्

नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण।
नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते ॥२३॥

विश्वास-प्रस्तुतिः

विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम।
नमो नारायण हरे नमस्तेऽस्तु सदाच्युत ॥२४॥

मूलम्

विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम।
नमो नारायण हरे नमस्तेऽस्तु सदाच्युत ॥२४॥

विश्वास-प्रस्तुतिः

नमो नमस्ते गोविन्द नमस्ते गरुडध्वज।
श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते ॥२५॥

मूलम्

नमो नमस्ते गोविन्द नमस्ते गरुडध्वज।
श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते ॥२५॥

विश्वास-प्रस्तुतिः

नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर।
हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर ॥२६॥

मूलम्

नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर।
हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर ॥२६॥

विश्वास-प्रस्तुतिः

नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक।
नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक ॥२७॥

मूलम्

नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक।
नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक ॥२७॥

विश्वास-प्रस्तुतिः

मायावामनरूपाय तुभ्यं देव नमो नमः।
त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्ति दुर्जय ॥२८॥

मूलम्

मायावामनरूपाय तुभ्यं देव नमो नमः।
त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्ति दुर्जय ॥२८॥

विश्वास-प्रस्तुतिः

ऋग्यजुःसामभूताय वेदाहरणकर्मणे।
प्रणवोद्गीतवचसे महाश्वशिरसे नमः ॥२९॥

मूलम्

ऋग्यजुःसामभूताय वेदाहरणकर्मणे।
प्रणवोद्गीतवचसे महाश्वशिरसे नमः ॥२९॥

विश्वास-प्रस्तुतिः

निःक्षत्रियोर्वीकरण विकरालपराक्रम।
जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ॥३०॥

मूलम्

निःक्षत्रियोर्वीकरण विकरालपराक्रम।
जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ॥३०॥

विश्वास-प्रस्तुतिः

पौलस्त्यकुलनाशाय साहुमार्गविचारिणे।
नलसेतुकृते तुभ्यं नमो राघवरूपिणे ॥३१॥

मूलम्

पौलस्त्यकुलनाशाय साहुमार्गविचारिणे।
नलसेतुकृते तुभ्यं नमो राघवरूपिणे ॥३१॥

विश्वास-प्रस्तुतिः

साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे।
स्वमायाबालरूपाय नमः कृष्णाय वै हरे ॥३२॥

मूलम्

साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे।
स्वमायाबालरूपाय नमः कृष्णाय वै हरे ॥३२॥

विश्वास-प्रस्तुतिः

यावन्ति तव रूपाणि यावत्यश्च विभूतयः।
नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ॥३३॥

मूलम्

यावन्ति तव रूपाणि यावत्यश्च विभूतयः।
नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ॥३३॥

विश्वास-प्रस्तुतिः

स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम्।
यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ॥३४॥

मूलम्

स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम्।
यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ॥३४॥

विश्वास-प्रस्तुतिः

परमेश परेशेश तिर्यगीश नरेश्वर।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ॥३५॥

मूलम्

परमेश परेशेश तिर्यगीश नरेश्वर।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ॥३५॥

गौरमुख उवाच।

विश्वास-प्रस्तुतिः

एवं स्तुतस्तया देव्या देवक्या मधुसूदनः।
बालरूपी जगादैवं वसुदेवस्य शृण्वतः ॥३६॥

मूलम्

एवं स्तुतस्तया देव्या देवक्या मधुसूदनः।
बालरूपी जगादैवं वसुदेवस्य शृण्वतः ॥३६॥

विश्वास-प्रस्तुतिः

सम्यगाराधितेनोक्तं यत्प्रसन्नेन वै शुभे।
तत्कृतं सकलं भूयो यद्वृणोषि ददामि तत् ॥३७॥

मूलम्

सम्यगाराधितेनोक्तं यत्प्रसन्नेन वै शुभे।
तत्कृतं सकलं भूयो यद्वृणोषि ददामि तत् ॥३७॥

विश्वास-प्रस्तुतिः

अवतारे तथैवास्मिन्वर्षाणामधिकं शतम्।
स्थास्यामि नरतां प्राप्तो दुष्टदैत्यनिबर्हणः ॥३८॥

मूलम्

अवतारे तथैवास्मिन्वर्षाणामधिकं शतम्।
स्थास्यामि नरतां प्राप्तो दुष्टदैत्यनिबर्हणः ॥३८॥

विश्वास-प्रस्तुतिः

तत्त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
दास्याम्यहमसन्दिग्धं यद्यपि स्यात्सुदुर्लभम् ॥३९॥

मूलम्

तत्त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
दास्याम्यहमसन्दिग्धं यद्यपि स्यात्सुदुर्लभम् ॥३९॥

देवक्युवाच।

विश्वास-प्रस्तुतिः

यदि देव प्रसन्नस्त्वं प्रददासि ममेप्सितम्।
वृणोमि तदहं नित्यं तव केशव दर्शनम् ॥४०॥

मूलम्

यदि देव प्रसन्नस्त्वं प्रददासि ममेप्सितम्।
वृणोमि तदहं नित्यं तव केशव दर्शनम् ॥४०॥

विश्वास-प्रस्तुतिः

तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना।
नालं वियोगं संसोढुं तवाहं मधुसूदन ॥४१॥

मूलम्

तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना।
नालं वियोगं संसोढुं तवाहं मधुसूदन ॥४१॥

देवदेव उवाच।

विश्वास-प्रस्तुतिः

दाक्षायणी त्वमदितिः सम्भूता वसुधातले।
नित्यमेव जगद्धात्रि प्रसादं ते करोम्यहम् ॥४२॥

मूलम्

दाक्षायणी त्वमदितिः सम्भूता वसुधातले।
नित्यमेव जगद्धात्रि प्रसादं ते करोम्यहम् ॥४२॥

विश्वास-प्रस्तुतिः

षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि।
त्वं मां द्रक्ष्यस्यसन्दिग्धं प्रसादस्ते कृतो मया ॥४३॥

मूलम्

षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि।
त्वं मां द्रक्ष्यस्यसन्दिग्धं प्रसादस्ते कृतो मया ॥४३॥

विश्वास-प्रस्तुतिः

अनेनैव महाभागे बालरूपेण संवृतः।
तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः ॥४४॥

मूलम्

अनेनैव महाभागे बालरूपेण संवृतः।
तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः ॥४४॥

विश्वास-प्रस्तुतिः

तस्मिन्काले च लोकास्त्वां पूजयिष्यन्ति देवकि।
मां च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् ॥४५॥

मूलम्

तस्मिन्काले च लोकास्त्वां पूजयिष्यन्ति देवकि।
मां च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् ॥४५॥

विश्वास-प्रस्तुतिः

सम्पूजितोऽहं लोकानां तस्मिन्काले सुतोषितः।
प्रदास्यामि जगद्धात्रि यथाभिलषितं वरम् ॥४६॥

मूलम्

सम्पूजितोऽहं लोकानां तस्मिन्काले सुतोषितः।
प्रदास्यामि जगद्धात्रि यथाभिलषितं वरम् ॥४६॥

विश्वास-प्रस्तुतिः

अपुत्राणां वरान्पुत्रानधनानां तथा धनम्।
शुभान्दारानदाराणां सरोगाणामरोगताम् ॥४७॥

मूलम्

अपुत्राणां वरान्पुत्रानधनानां तथा धनम्।
शुभान्दारानदाराणां सरोगाणामरोगताम् ॥४७॥

विश्वास-प्रस्तुतिः

सुगतिं गतिकामानां विद्यां विद्यार्थिनामपि।
प्रदास्यसि महाभागे मत्प्रसादोपवृंहिता ॥४८॥

मूलम्

सुगतिं गतिकामानां विद्यां विद्यार्थिनामपि।
प्रदास्यसि महाभागे मत्प्रसादोपवृंहिता ॥४८॥

विश्वास-प्रस्तुतिः

प्रसादिता हि मर्त्यानां यत्त्वं दास्यसि शोभने।
तत्तेषां मत्प्रसादेन भविष्यति न दुर्लभम् ॥४९॥

मूलम्

प्रसादिता हि मर्त्यानां यत्त्वं दास्यसि शोभने।
तत्तेषां मत्प्रसादेन भविष्यति न दुर्लभम् ॥४९॥

विश्वास-प्रस्तुतिः

त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम्।
सर्वकामानवाप्स्यन्ति काले षट्पक्षसञ्ज्ञिते ॥५०॥

मूलम्

त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम्।
सर्वकामानवाप्स्यन्ति काले षट्पक्षसञ्ज्ञिते ॥५०॥

त्वदङ्कस्थं च मां बालं संस्मरिष्यन्ति भक्तितः।

विश्वास-प्रस्तुतिः

प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति।
मम चैवाखिलान्कामान्सम्प्राप्नोत्यपकल्मषः ॥५१॥

मूलम्

प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति।
मम चैवाखिलान्कामान्सम्प्राप्नोत्यपकल्मषः ॥५१॥

गौरमुख उवाच।

विश्वास-प्रस्तुतिः

एवं पूर्वं हृषीकेशो देवक्याः प्रददौ वरम्।
तस्मात्कृष्णाष्टमी पुंसामशेषाघौघहारिणी ॥५२॥

मूलम्

एवं पूर्वं हृषीकेशो देवक्याः प्रददौ वरम्।
तस्मात्कृष्णाष्टमी पुंसामशेषाघौघहारिणी ॥५२॥

विश्वास-प्रस्तुतिः

तस्यां हि पूजितः कृष्णो देवकी च समाधिना।
पापापनोदं कुरुते ददाति च मनोरथान् ॥५३॥

मूलम्

तस्यां हि पूजितः कृष्णो देवकी च समाधिना।
पापापनोदं कुरुते ददाति च मनोरथान् ॥५३॥

विश्वास-प्रस्तुतिः

तदेष पुष्टिकामानां नॄणां पुण्यार्थिनामपि।
उपवासो महीपाल शस्तः केशवतोषदः ॥५४॥

मूलम्

तदेष पुष्टिकामानां नॄणां पुण्यार्थिनामपि।
उपवासो महीपाल शस्तः केशवतोषदः ॥५४॥

इति विष्णुधर्मेषु देवकीव्रतम्।