अथैकोननवतितमोऽध्यायः।
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् ॥१॥
मूलम्
भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् ॥१॥
विश्वास-प्रस्तुतिः
परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप।
भविष्यति शमीकस्य शिष्यः परमसम्मतः ॥२॥
मूलम्
परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप।
भविष्यति शमीकस्य शिष्यः परमसम्मतः ॥२॥
विश्वास-प्रस्तुतिः
स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ॥३॥
मूलम्
स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ॥३॥
विश्वास-प्रस्तुतिः
पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ॥४॥
मूलम्
पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ॥४॥
विश्वास-प्रस्तुतिः
भगवन्भवभीतोऽहमभवाय ततो भवान्।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ॥५॥
मूलम्
भगवन्भवभीतोऽहमभवाय ततो भवान्।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ॥५॥
विश्वास-प्रस्तुतिः
सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत।
कृष्णाराधनकामस्य मनसो देशिको भव ॥६॥
मूलम्
सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत।
कृष्णाराधनकामस्य मनसो देशिको भव ॥६॥
विश्वास-प्रस्तुतिः
आराधनेन येनेशो जगतामीश्वरेश्वरः।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ॥७॥
मूलम्
आराधनेन येनेशो जगतामीश्वरेश्वरः।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ॥७॥
विश्वास-प्रस्तुतिः
तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ॥८॥
मूलम्
तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ॥८॥
विश्वास-प्रस्तुतिः
एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ॥९॥
मूलम्
एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ॥९॥
विश्वास-प्रस्तुतिः
नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने।
परमेशसुरेशाय हृषीकेशाय वेधसे ॥१०॥
मूलम्
नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने।
परमेशसुरेशाय हृषीकेशाय वेधसे ॥१०॥
विश्वास-प्रस्तुतिः
वरार्थिनाममोघाय परस्मै हरिमेधसे।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ॥११॥
मूलम्
वरार्थिनाममोघाय परस्मै हरिमेधसे।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ॥११॥
विश्वास-प्रस्तुतिः
वरासिचर्मावितते क्रूरशान्तात्ममूर्तये।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे ॥१२॥
मूलम्
वरासिचर्मावितते क्रूरशान्तात्ममूर्तये।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे ॥१२॥
विश्वास-प्रस्तुतिः
परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे ॥१३॥
मूलम्
परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे ॥१३॥
विश्वास-प्रस्तुतिः
श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि ॥१४॥
मूलम्
श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि ॥१४॥
विश्वास-प्रस्तुतिः
तमजं शाश्वतं नित्यं परिणामविवर्जितम्।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि ॥१५॥
मूलम्
तमजं शाश्वतं नित्यं परिणामविवर्जितम्।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि ॥१५॥
विश्वास-प्रस्तुतिः
तत्र तत्रात्मनो नित्यं परिणामविवर्जितम्।
प्रणम्य जगतामीशमनन्तं परतः परम् ॥१६॥
मूलम्
तत्र तत्रात्मनो नित्यं परिणामविवर्जितम्।
प्रणम्य जगतामीशमनन्तं परतः परम् ॥१६॥
विश्वास-प्रस्तुतिः
परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम्।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् ॥१७॥
मूलम्
परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम्।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् ॥१७॥
विश्वास-प्रस्तुतिः
अशेषजगतां मूलमनादिनिधनस्थितिम्।
परापरस्वरूपस्थमविकारस्वरूपिणम् ॥१८॥
मूलम्
अशेषजगतां मूलमनादिनिधनस्थितिम्।
परापरस्वरूपस्थमविकारस्वरूपिणम् ॥१८॥
विश्वास-प्रस्तुतिः
यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः ॥१९॥
मूलम्
यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः ॥१९॥
विश्वास-प्रस्तुतिः
तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते ॥२०॥
मूलम्
तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते ॥२०॥
गौरमुख उवाच।
विश्वास-प्रस्तुतिः
देवकी नाम राजेन्द्रदेवकस्याभवत्सुता।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी ॥२१॥
मूलम्
देवकी नाम राजेन्द्रदेवकस्याभवत्सुता।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी ॥२१॥
विश्वास-प्रस्तुतिः
भार्या सा वसुदेवस्य सत्यधर्मपरायणा।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः ॥२२॥
मूलम्
भार्या सा वसुदेवस्य सत्यधर्मपरायणा।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः ॥२२॥
भार्गव उवाच।
विश्वास-प्रस्तुतिः
किमर्थं तप्यते भद्रेतपः परमदुश्चरम्।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् ॥२३॥
मूलम्
किमर्थं तप्यते भद्रेतपः परमदुश्चरम्।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् ॥२३॥
देवक्युवाच।
विश्वास-प्रस्तुतिः
अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् ॥२४॥
मूलम्
अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् ॥२४॥
विश्वास-प्रस्तुतिः
तपस्तावत्करिष्यामि परमेण समाधिना।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम ॥२५॥
मूलम्
तपस्तावत्करिष्यामि परमेण समाधिना।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम ॥२५॥
भार्गव उवाच।
विश्वास-प्रस्तुतिः
गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् ॥२६॥
मूलम्
गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् ॥२६॥
विश्वास-प्रस्तुतिः
प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः ॥२७॥
मूलम्
प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः ॥२७॥
बाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम्।
विश्वास-प्रस्तुतिः
दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत्।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् ॥२८॥
मूलम्
दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत्।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् ॥२८॥
विश्वास-प्रस्तुतिः
अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात्।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् ॥२९॥
मूलम्
अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात्।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् ॥२९॥
विश्वास-प्रस्तुतिः
स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम्।
परापवादपैशून्यं परपीडाकरं तथा ॥३०॥
मूलम्
स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम्।
परापवादपैशून्यं परपीडाकरं तथा ॥३०॥
विश्वास-प्रस्तुतिः
सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ॥३१॥
मूलम्
सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ॥३१॥
विश्वास-प्रस्तुतिः
इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ॥३२॥
मूलम्
इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ॥३२॥
विश्वास-प्रस्तुतिः
कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ॥३३॥
मूलम्
कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ॥३३॥
विश्वास-प्रस्तुतिः
मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम्।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ॥३४॥
मूलम्
मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम्।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ॥३४॥
विश्वास-प्रस्तुतिः
परमान्नं च देवाय विप्राय च पुनर्घृतम्।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ॥३५॥
मूलम्
परमान्नं च देवाय विप्राय च पुनर्घृतम्।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ॥३५॥
विश्वास-प्रस्तुतिः
तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ॥३६॥
मूलम्
तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ॥३६॥
विश्वास-प्रस्तुतिः
पुष्पधूपोपहारेषु विशेषो दक्षिणासु च।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ॥३७॥
मूलम्
पुष्पधूपोपहारेषु विशेषो दक्षिणासु च।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ॥३७॥
विश्वास-प्रस्तुतिः
अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ॥३८॥
मूलम्
अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ॥३८॥
विश्वास-प्रस्तुतिः
बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ॥३९॥
मूलम्
बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ॥३९॥
श्वेतैस्ततो मालिकया तथा मल्लिकया ततः।
विश्वास-प्रस्तुतिः
दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ॥४०॥
मूलम्
दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ॥४०॥
विश्वास-प्रस्तुतिः
कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम्।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ॥४१॥
मूलम्
कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम्।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ॥४१॥
विश्वास-प्रस्तुतिः
वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ॥४२॥
मूलम्
वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ॥४२॥
विश्वास-प्रस्तुतिः
कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ॥४३॥
मूलम्
कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ॥४३॥
विश्वास-प्रस्तुतिः
घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम्।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ॥४४॥
मूलम्
घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम्।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ॥४४॥
विश्वास-प्रस्तुतिः
यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम्।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ॥४५॥
मूलम्
यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम्।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ॥४५॥
विश्वास-प्रस्तुतिः
योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि।
करोति या सा सकलानवाप्नोति मनोरथान् ॥४६॥
मूलम्
योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि।
करोति या सा सकलानवाप्नोति मनोरथान् ॥४६॥
विश्वास-प्रस्तुतिः
व्रतेनाराधितो विष्णुरनेन जगतः पतिः।
ददात्यभिमतान्कामानल्पकालेन भामिनि ॥४७॥
मूलम्
व्रतेनाराधितो विष्णुरनेन जगतः पतिः।
ददात्यभिमतान्कामानल्पकालेन भामिनि ॥४७॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ॥४८॥
मूलम्
धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ॥४८॥
विश्वास-प्रस्तुतिः
व्रतेनानेन शुद्धानामब्देनैकेन केशवः।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ॥४९॥
मूलम्
व्रतेनानेन शुद्धानामब्देनैकेन केशवः।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ॥४९॥
विश्वास-प्रस्तुतिः
कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम्।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ॥५०॥
मूलम्
कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम्।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ॥५०॥
विश्वास-प्रस्तुतिः
तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ॥५१॥
मूलम्
तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ॥५१॥
विश्वास-प्रस्तुतिः
यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ॥५२॥
मूलम्
यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ॥५२॥
विश्वास-प्रस्तुतिः
शुद्धिव्रतमिदं तस्मान्महापातकनाशनम्।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ॥५३॥
मूलम्
शुद्धिव्रतमिदं तस्मान्महापातकनाशनम्।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ॥५३॥
विश्वास-प्रस्तुतिः
तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम्।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ॥५४॥
मूलम्
तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम्।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ॥५४॥
इति विष्णुधर्मेषु शुद्धिव्रतम्।