०८८

अथाष्टाशीतितमोऽध्यायः।
वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥१॥

मूलम्

जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥१॥

विश्वास-प्रस्तुतिः

जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् ॥२॥

मूलम्

जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् ॥२॥

विश्वास-प्रस्तुतिः

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ॥३॥

मूलम्

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ॥३॥

विश्वास-प्रस्तुतिः

प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम्।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ॥४॥

मूलम्

प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम्।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ॥४॥

विश्वास-प्रस्तुतिः

चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम्।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥५॥

मूलम्

चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम्।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥५॥

विश्वास-प्रस्तुतिः

उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम्।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ॥६॥

मूलम्

उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम्।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ॥६॥

विश्वास-प्रस्तुतिः

सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ॥७॥

मूलम्

सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ॥७॥

विश्वास-प्रस्तुतिः

एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥८॥

मूलम्

एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥८॥

विश्वास-प्रस्तुतिः

दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः।
जलशायी जगद्योनिः प्रीयतां मम केशवः ॥९॥

मूलम्

दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः।
जलशायी जगद्योनिः प्रीयतां मम केशवः ॥९॥

विश्वास-प्रस्तुतिः

इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम्।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् ॥१०॥

मूलम्

इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम्।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् ॥१०॥

विश्वास-प्रस्तुतिः

अनेन विधिना दत्त्वा जलधेनुं जनाधिप।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ॥११॥

मूलम्

अनेन विधिना दत्त्वा जलधेनुं जनाधिप।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ॥११॥

विश्वास-प्रस्तुतिः

शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥१२॥

मूलम्

शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥१२॥

विश्वास-प्रस्तुतिः

अत्रापि श्रूयते भूप पुद्गलेन महात्मना।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ॥१३॥

मूलम्

अत्रापि श्रूयते भूप पुद्गलेन महात्मना।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ॥१३॥

विश्वास-प्रस्तुतिः

स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः।
ददर्श यातना घोराः पापकर्मकृतां किल ॥१४॥

मूलम्

स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः।
ददर्श यातना घोराः पापकर्मकृतां किल ॥१४॥

विश्वास-प्रस्तुतिः

दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ॥१५॥

मूलम्

दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ॥१५॥

विश्वास-प्रस्तुतिः

व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ॥१६॥

मूलम्

व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ॥१६॥

विश्वास-प्रस्तुतिः

आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः ॥१७॥

मूलम्

आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः ॥१७॥

विश्वास-प्रस्तुतिः

तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम्।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ॥१८॥

मूलम्

तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम्।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ॥१८॥

विश्वास-प्रस्तुतिः

तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते ॥१९॥

मूलम्

तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते ॥१९॥

यम उवाच।

विश्वास-प्रस्तुतिः

तवानुभावादेतेषां नारकाणां द्विजोत्तम्।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् ॥२०॥

मूलम्

तवानुभावादेतेषां नारकाणां द्विजोत्तम्।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् ॥२०॥

विश्वास-प्रस्तुतिः

त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव ॥२१॥

मूलम्

त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव ॥२१॥

विश्वास-प्रस्तुतिः

अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ॥२२॥

मूलम्

अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ॥२२॥

विश्वास-प्रस्तुतिः

येन त्वं तपसा युक्तो मानवानामगोचरम्।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद ॥२३॥

मूलम्

येन त्वं तपसा युक्तो मानवानामगोचरम्।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद ॥२३॥

विश्वास-प्रस्तुतिः

ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि ॥२४॥

मूलम्

ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि ॥२४॥

विश्वास-प्रस्तुतिः

निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् ॥२५॥

मूलम्

निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् ॥२५॥

विश्वास-प्रस्तुतिः

आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम्।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः ॥२६॥

मूलम्

आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम्।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः ॥२६॥

विश्वास-प्रस्तुतिः

न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् ॥२७॥

मूलम्

न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् ॥२७॥

विश्वास-प्रस्तुतिः

एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् ॥२८॥

मूलम्

एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् ॥२८॥

विश्वास-प्रस्तुतिः

स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया ॥२९॥

मूलम्

स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया ॥२९॥

विश्वास-प्रस्तुतिः

कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ॥३०॥

मूलम्

कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ॥३०॥

विश्वास-प्रस्तुतिः

नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम्।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ॥३१॥

मूलम्

नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम्।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ॥३१॥

विश्वास-प्रस्तुतिः

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ॥३२॥

मूलम्

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ॥३२॥

विश्वास-प्रस्तुतिः

उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ॥३३॥

मूलम्

उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ॥३३॥

विश्वास-प्रस्तुतिः

क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम्।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ॥३४॥

मूलम्

क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम्।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ॥३४॥

विश्वास-प्रस्तुतिः

सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ॥३५॥

मूलम्

सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ॥३५॥

विश्वास-प्रस्तुतिः

स एव धाता सर्वस्य तन्नियोगकरा वयम्।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ॥३६॥

मूलम्

स एव धाता सर्वस्य तन्नियोगकरा वयम्।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ॥३६॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

इत्थं निशाम्य वचनं यमस्य वदतो मुनिम्।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ॥३७॥

मूलम्

इत्थं निशाम्य वचनं यमस्य वदतो मुनिम्।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ॥३७॥

नारका ऊचुः।

विश्वास-प्रस्तुतिः

नमः कृष्णाय हरये विष्णवे जिष्णवे नमः।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥३८॥

मूलम्

नमः कृष्णाय हरये विष्णवे जिष्णवे नमः।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥३८॥

विश्वास-प्रस्तुतिः

नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥३९॥

मूलम्

नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥३९॥

विश्वास-प्रस्तुतिः

गोविन्दाय नमो नित्यं नमश्चोदधिशायिने।
नमः करालवक्त्राय नृसिंहायातिनादिने ॥४०॥

मूलम्

गोविन्दाय नमो नित्यं नमश्चोदधिशायिने।
नमः करालवक्त्राय नृसिंहायातिनादिने ॥४०॥

विश्वास-प्रस्तुतिः

शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥४१॥

मूलम्

शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥४१॥

विश्वास-प्रस्तुतिः

वराहरूपाय तथा नमो यज्ञाङ्गधारिणे।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥४२॥

मूलम्

वराहरूपाय तथा नमो यज्ञाङ्गधारिणे।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥४२॥

विश्वास-प्रस्तुतिः

वासुदेव नमस्तुभ्यं नमः कैटभसूदन।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥४३॥

मूलम्

वासुदेव नमस्तुभ्यं नमः कैटभसूदन।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥४३॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ॥४४॥

मूलम्

नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ॥४४॥

विश्वास-प्रस्तुतिः

अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ॥४५॥

मूलम्

अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ॥४५॥

विश्वास-प्रस्तुतिः

प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ॥४६॥

मूलम्

प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ॥४६॥

विश्वास-प्रस्तुतिः

निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ॥४७॥

मूलम्

निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ॥४७॥

विश्वास-प्रस्तुतिः

ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ॥४८॥

मूलम्

ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ॥४८॥

विश्वास-प्रस्तुतिः

तं तादृशमथालक्ष्य नृप वैवस्वतो यमः।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ॥४९॥

मूलम्

तं तादृशमथालक्ष्य नृप वैवस्वतो यमः।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ॥४९॥

विश्वास-प्रस्तुतिः

ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान्।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ॥५०॥

मूलम्

ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान्।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ॥५०॥

विश्वास-प्रस्तुतिः

नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ॥५१॥

मूलम्

नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ॥५१॥

विश्वास-प्रस्तुतिः

इत्येवं वादिनस्तत्र प्रजासंयमनो यमः।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ॥५२॥

मूलम्

इत्येवं वादिनस्तत्र प्रजासंयमनो यमः।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ॥५२॥

विश्वास-प्रस्तुतिः

पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः।
समाहितमना भूत्वा धर्मराजो नरेश्वर ॥५३॥

मूलम्

पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः।
समाहितमना भूत्वा धर्मराजो नरेश्वर ॥५३॥

विश्वास-प्रस्तुतिः

विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५४॥

मूलम्

विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५४॥

विश्वास-प्रस्तुतिः

सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ॥५५॥

मूलम्

सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ॥५५॥

विश्वास-प्रस्तुतिः

तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५६॥

मूलम्

तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५६॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

एवं ते संस्तुतास्तेन धर्मराजेन नारकाः।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ॥५७॥

मूलम्

एवं ते संस्तुतास्तेन धर्मराजेन नारकाः।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ॥५७॥

विश्वास-प्रस्तुतिः

पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ॥५८॥

मूलम्

पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ॥५८॥

विश्वास-प्रस्तुतिः

संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ॥५९॥

मूलम्

संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ॥५९॥

विश्वास-प्रस्तुतिः

अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ॥६०॥

मूलम्

अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ॥६०॥

विश्वास-प्रस्तुतिः

जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ॥६१॥

मूलम्

जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ॥६१॥

विश्वास-प्रस्तुतिः

ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ॥६२॥

मूलम्

ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ॥६२॥

विश्वास-प्रस्तुतिः

न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम्।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ॥६३॥

मूलम्

न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम्।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ॥६३॥

विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये।

विश्वास-प्रस्तुतिः

तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ॥६४॥

मूलम्

तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ॥६४॥

विश्वास-प्रस्तुतिः

दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ॥६५॥

मूलम्

दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ॥६५॥

विश्वास-प्रस्तुतिः

असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ॥६६॥

मूलम्

असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ॥६६॥

विश्वास-प्रस्तुतिः

अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ॥६७॥

मूलम्

अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ॥६७॥

विश्वास-प्रस्तुतिः

ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ॥६८॥

मूलम्

ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ॥६८॥

विश्वास-प्रस्तुतिः

मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम्।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ॥६९॥

मूलम्

मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम्।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ॥६९॥

विश्वास-प्रस्तुतिः

आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ॥७०॥

मूलम्

आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ॥७०॥

विश्वास-प्रस्तुतिः

संवत्सरास्तथा मासा विफला दिवसाश्च ते।
नराणां विषयान्धानां येषु नाराधितो हरिः ॥७१॥

मूलम्

संवत्सरास्तथा मासा विफला दिवसाश्च ते।
नराणां विषयान्धानां येषु नाराधितो हरिः ॥७१॥

विश्वास-प्रस्तुतिः

यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ॥७२॥

मूलम्

यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ॥७२॥

विश्वास-प्रस्तुतिः

जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ॥७३॥

मूलम्

जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ॥७३॥

विश्वास-प्रस्तुतिः

कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥७४॥

मूलम्

कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥७४॥

विश्वास-प्रस्तुतिः

सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ॥७५॥

मूलम्

सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ॥७५॥

विश्वास-प्रस्तुतिः

ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ॥७६॥

मूलम्

ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ॥७६॥

विश्वास-प्रस्तुतिः

दुःसहो नारको वह्निरविषह्याश्च यातनाः।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ॥७७॥

मूलम्

दुःसहो नारको वह्निरविषह्याश्च यातनाः।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ॥७७॥

विश्वास-प्रस्तुतिः

अदेशिके देशिकोऽहमत्र मार्गे मयोदितम्।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ॥७८॥

मूलम्

अदेशिके देशिकोऽहमत्र मार्गे मयोदितम्।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ॥७८॥

विश्वास-प्रस्तुतिः

प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम्।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ॥७९॥

मूलम्

प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम्।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ॥७९॥

विश्वास-प्रस्तुतिः

अनेकविषयालम्बि यच्चित्तं तज्जनार्दने।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ॥८०॥

मूलम्

अनेकविषयालम्बि यच्चित्तं तज्जनार्दने।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ॥८०॥

विश्वास-प्रस्तुतिः

मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ॥८१॥

मूलम्

मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ॥८१॥

विश्वास-प्रस्तुतिः

मयोक्तमेतद्बहुशो विनष्टे तु शरीरके।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ॥८२॥

मूलम्

मयोक्तमेतद्बहुशो विनष्टे तु शरीरके।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ॥८२॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम्।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ॥८३॥

मूलम्

एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम्।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ॥८३॥

विश्वास-प्रस्तुतिः

व्रतानि सोपवासानि सर्वकामप्रदानि ते।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ॥८४॥

मूलम्

व्रतानि सोपवासानि सर्वकामप्रदानि ते।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ॥८४॥

इति विष्णुधर्मेषु पुद्गलगाथाः।