०८७

अथ सप्ताशीतितमोऽध्यायः।
वसिष्ठ उवाच।
तिलाभावे तथा दद्याद्घृतधेनुं यतव्रतः।

विश्वास-प्रस्तुतिः

कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः।
येन भूप विधानेन तदिहैकमनाः शृणु ॥१॥

मूलम्

कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः।
येन भूप विधानेन तदिहैकमनाः शृणु ॥१॥

वासुदेवं जगन्नाथं पुरुषेशमजं विधुम्।

विश्वास-प्रस्तुतिः

सर्वपापनिहन्तारं घृतक्षीराभिषेचनात्।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः ॥२॥

मूलम्

सर्वपापनिहन्तारं घृतक्षीराभिषेचनात्।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः ॥२॥

विश्वास-प्रस्तुतिः

अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ॥३॥

मूलम्

अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ॥३॥

गव्यस्य सर्पिषः कुम्भं पुष्पमाल्यादिभूषितम्।

विश्वास-प्रस्तुतिः

कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ॥४॥

मूलम्

कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ॥४॥

विश्वास-प्रस्तुतिः

इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ॥५॥

मूलम्

इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ॥५॥

विश्वास-प्रस्तुतिः

सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम्।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ॥६॥

मूलम्

सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम्।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ॥६॥

मणिरत्नसुवर्णानां सम्यक्कल्पनया कृताम्।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम्।

विश्वास-प्रस्तुतिः

क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ॥७॥

मूलम्

क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ॥७॥

विश्वास-प्रस्तुतिः

ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ॥८॥

मूलम्

ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ॥८॥

विश्वास-प्रस्तुतिः

तं च विप्रं महाभाग मनसैव घृतार्चिषम्।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ॥९॥

मूलम्

तं च विप्रं महाभाग मनसैव घृतार्चिषम्।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ॥९॥

एतां ममोपकाराय घृह्णीष्व त्वं द्विजोत्तम।

विश्वास-प्रस्तुतिः

प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम ॥१०॥

मूलम्

प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम ॥१०॥

मणिमुक्तासुवर्णानां सम्यक्कल्पनया कृताम्।

विश्वास-प्रस्तुतिः

दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ॥११॥

मूलम्

दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ॥११॥

विश्वास-प्रस्तुतिः

घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु लोकेश स पुण्येषूपजायते ॥१२॥

मूलम्

घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु लोकेश स पुण्येषूपजायते ॥१२॥

विश्वास-प्रस्तुतिः

पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः ॥१३॥

मूलम्

पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः ॥१३॥

विश्वास-प्रस्तुतिः

सकामानामियं व्युष्टिः कथिता नृपसत्तम।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ॥१४॥

मूलम्

सकामानामियं व्युष्टिः कथिता नृपसत्तम।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ॥१४॥

विश्वास-प्रस्तुतिः

घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः ॥१५॥

मूलम्

घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः ॥१५॥

इति विष्णुधर्मेषु घृतधेनुकल्पः।