०८६

अथ षडशीतितमोऽध्यायः।
वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः ॥१॥

मूलम्

तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः ॥१॥

फलमाप्नोति राजेन्द्रतद्वद्वा विधिवत्तदा।

विश्वास-प्रस्तुतिः

यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
आगारदाही गरदः सर्वपापरतोऽपि वा ॥२॥

मूलम्

यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
आगारदाही गरदः सर्वपापरतोऽपि वा ॥२॥

विश्वास-प्रस्तुतिः

महापातकयुक्तो यो युक्तो यश्चोपपातकैः।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ॥३॥

मूलम्

महापातकयुक्तो यो युक्तो यश्चोपपातकैः।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ॥३॥

विश्वास-प्रस्तुतिः

स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ॥४॥

मूलम्

स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ॥४॥

विश्वास-प्रस्तुतिः

सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम्।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥५॥

मूलम्

सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम्।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥५॥

विश्वास-प्रस्तुतिः

इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥६॥

मूलम्

इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥६॥

स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम्।

विश्वास-प्रस्तुतिः

फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम्।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ॥७॥

मूलम्

फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम्।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ॥७॥

शुभवस्त्रयुगच्छन्नां चारुच्छत्त्रसमन्विताम्।

विश्वास-प्रस्तुतिः

ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ॥८॥

मूलम्

ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ॥८॥

विश्वास-प्रस्तुतिः

सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥९॥

मूलम्

सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥९॥

प्रपितामहं तथा पूर्वं पुरुषाणां चतुष्टयम्।

विश्वास-प्रस्तुतिः

आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम्।
तारयत्यवनीपाल तिलधेनुप्रदो नरः ॥१०॥

मूलम्

आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम्।
तारयत्यवनीपाल तिलधेनुप्रदो नरः ॥१०॥

विश्वास-प्रस्तुतिः

यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान्।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ॥११॥

मूलम्

यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान्।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ॥११॥

विश्वास-प्रस्तुतिः

दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥१२॥

मूलम्

दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥१२॥

विश्वास-प्रस्तुतिः

प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे ॥१३॥

मूलम्

प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे ॥१३॥

विश्वास-प्रस्तुतिः

त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर ॥१४॥

मूलम्

त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर ॥१४॥

विश्वास-प्रस्तुतिः

दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् ॥१५॥

मूलम्

दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् ॥१५॥

इति विष्णुधर्मेषु तिलधेनुविधिः।