०८५

अथ पञ्चाशीतितमोऽध्यायः।
राजोवाच।

विश्वास-प्रस्तुतिः

विष्णोराराधनार्थाय यानि दानानि सत्तम।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम ॥१॥

मूलम्

विष्णोराराधनार्थाय यानि दानानि सत्तम।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम ॥१॥

विश्वास-प्रस्तुतिः

येन चैव विधानेन दानं पुंसः सुखावहम्।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् ॥२॥

मूलम्

येन चैव विधानेन दानं पुंसः सुखावहम्।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् ॥२॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ॥३॥

मूलम्

कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ॥३॥

विश्वास-प्रस्तुतिः

समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ॥४॥

मूलम्

समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ॥४॥

विश्वास-प्रस्तुतिः

सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ॥५॥

मूलम्

सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ॥५॥

विश्वास-प्रस्तुतिः

हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत्।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ॥६॥

मूलम्

हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत्।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ॥६॥

विश्वास-प्रस्तुतिः

सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत्।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ॥७॥

मूलम्

सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत्।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ॥७॥

विश्वास-प्रस्तुतिः

अनेन विधिना धेनुं यो विप्राय प्रयच्छति।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ॥८॥

मूलम्

अनेन विधिना धेनुं यो विप्राय प्रयच्छति।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ॥८॥

विश्वास-प्रस्तुतिः

सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ॥९॥

मूलम्

सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ॥९॥

विश्वास-प्रस्तुतिः

पदे पदे च यज्ञस्य गोसवस्य स मानवः।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः ॥१०॥

मूलम्

पदे पदे च यज्ञस्य गोसवस्य स मानवः।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः ॥१०॥

विश्वास-प्रस्तुतिः

सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ॥११॥

मूलम्

सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ॥११॥

विश्वास-प्रस्तुतिः

सर्वेषामेव पापानां कृतानामविजानता।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् ॥१२॥

मूलम्

सर्वेषामेव पापानां कृतानामविजानता।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् ॥१२॥

विश्वास-प्रस्तुतिः

इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना।
ततः स लोकानमलान्प्राप्तवानवनीपतिः ॥१३॥

मूलम्

इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना।
ततः स लोकानमलान्प्राप्तवानवनीपतिः ॥१३॥

विश्वास-प्रस्तुतिः

तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप ॥१४॥

मूलम्

तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप ॥१४॥

इति विष्णुधर्मेषु गोप्रदानविधिः।