अथ चतुरशीतितमोऽध्याहः।
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम्।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः ॥१॥
मूलम्
शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम्।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः ॥१॥
विश्वास-प्रस्तुतिः
प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च ॥२॥
मूलम्
प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च ॥२॥
विश्वास-प्रस्तुतिः
असितेन समाख्यातमल्पायासं महाफलम्।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ॥३॥
मूलम्
असितेन समाख्यातमल्पायासं महाफलम्।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ॥३॥
विश्वास-प्रस्तुतिः
दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान्।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ॥४॥
मूलम्
दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान्।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ॥४॥
दक्ष उवाच।
विश्वास-प्रस्तुतिः
भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा।
ब्रह्मणा देवदेवेश तवादेशेन केशव ॥५॥
मूलम्
भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा।
ब्रह्मणा देवदेवेश तवादेशेन केशव ॥५॥
विश्वास-प्रस्तुतिः
विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ॥६॥
मूलम्
विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ॥६॥
विश्वास-प्रस्तुतिः
यथा च देव मुच्येय अस्मात्संसारसङ्कटात्।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ॥७॥
मूलम्
यथा च देव मुच्येय अस्मात्संसारसङ्कटात्।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ॥७॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ॥८॥
मूलम्
इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ॥८॥
विश्वास-प्रस्तुतिः
सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ॥९॥
मूलम्
सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ॥९॥
विश्वास-प्रस्तुतिः
तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम्।
कथयामि समाचष्ट यथा पूर्वं ममासितः ॥१०॥
मूलम्
तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम्।
कथयामि समाचष्ट यथा पूर्वं ममासितः ॥१०॥
विश्वास-प्रस्तुतिः
आषाढे मासि पूर्वासु तथाषाढासु पार्थिव।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ॥११॥
मूलम्
आषाढे मासि पूर्वासु तथाषाढासु पार्थिव।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ॥११॥
विश्वास-प्रस्तुतिः
पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च ॥१२॥
मूलम्
पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च ॥१२॥
विश्वास-प्रस्तुतिः
क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम्।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् ॥१३॥
मूलम्
क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम्।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् ॥१३॥
विश्वास-प्रस्तुतिः
यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् ॥१४॥
मूलम्
यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् ॥१४॥
विश्वास-प्रस्तुतिः
तथोत्तरास्वाषाढासु श्रावणे मासि मानवः।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१५॥
मूलम्
तथोत्तरास्वाषाढासु श्रावणे मासि मानवः।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१५॥
विश्वास-प्रस्तुतिः
विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम्।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा ॥१६॥
मूलम्
विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम्।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा ॥१६॥
विश्वास-प्रस्तुतिः
प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१७॥
मूलम्
प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१७॥
विश्वास-प्रस्तुतिः
विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम्।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा ॥१८॥
मूलम्
विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम्।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा ॥१८॥
विश्वास-प्रस्तुतिः
तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम्।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः ॥१९॥
मूलम्
तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम्।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः ॥१९॥
विश्वास-प्रस्तुतिः
नक्तं भुञ्जीत गोरसं मौनमास्थितः।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै ॥२०॥
मूलम्
नक्तं भुञ्जीत गोरसं मौनमास्थितः।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै ॥२०॥
विश्वास-प्रस्तुतिः
फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् ॥२१॥
मूलम्
फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् ॥२१॥
विश्वास-प्रस्तुतिः
पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति ॥२२॥
मूलम्
पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति ॥२२॥
विश्वास-प्रस्तुतिः
नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम्।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः ॥२३॥
मूलम्
नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम्।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः ॥२३॥
विश्वास-प्रस्तुतिः
एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् ॥२४॥
मूलम्
एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् ॥२४॥
विश्वास-प्रस्तुतिः
यथोक्तमेतद्यो भक्तो करोति नृपसत्तम।
सर्वकामानवाप्नोति केशवस्य वचो यथा ॥२५॥
मूलम्
यथोक्तमेतद्यो भक्तो करोति नृपसत्तम।
सर्वकामानवाप्नोति केशवस्य वचो यथा ॥२५॥
विश्वास-प्रस्तुतिः
अपुत्रो लभते पुत्रमपतिर्लभते पतिम्।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः ॥२६॥
मूलम्
अपुत्रो लभते पुत्रमपतिर्लभते पतिम्।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः ॥२६॥
विश्वास-प्रस्तुतिः
द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम्।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् ॥२७॥
मूलम्
द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम्।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् ॥२७॥
विश्वास-प्रस्तुतिः
यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति ॥२८॥
मूलम्
यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति ॥२८॥
विश्वास-प्रस्तुतिः
पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः ॥२९॥
मूलम्
पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः ॥२९॥
इति विष्णुधर्मेषु विष्णुपदत्रयम्।