अथ त्र्यशीतितमोऽध्यायः।
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः ॥१॥
मूलम्

कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः ॥२॥

मान्धातोवाच।
विश्वास-प्रस्तुतिः
यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम्।
परं निर्वाणमाप्नोति तथाहं वचसा तव ॥३॥

कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ॥४॥

अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ॥५॥

सम्पदां कथितं बीजमावयोर्भवता मुने।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ॥६॥

न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ॥७॥

बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ॥८॥

सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ॥९॥

कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने ॥१०॥

रहस्यानि च देवस्य प्रीतये यानि चक्रिणः।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ॥११॥

वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे ॥१२॥

समभ्यर्च्य जगन्नाथं वासुदेवं समाधिना।
विश्वास-प्रस्तुतिः
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम्।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् ॥१३॥

पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः ॥१४॥

अनेनैव विधानेन मार्गशीर्षेऽपि माधवम्।
विश्वास-प्रस्तुतिः
समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ॥१५॥

मध्ये वयसि यत्पापं योषिता पुरुषेण वा।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना ॥१६॥

तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते ॥१७॥

तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम्।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा ॥१८॥

त्रैमासिकव्रतमिदं यः करोति नरेश्वर।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते ॥१९॥

द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ॥२०॥
मूलम्
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ॥२०॥
विश्वास-प्रस्तुतिः
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम्।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् ॥२१॥

त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः ॥२२॥

यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम्।
सर्वपापप्रशमनं केशवाराधनं परम् ॥२३॥
मूलम्
यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम्।
सर्वपापप्रशमनं केशवाराधनं परम् ॥२३॥
इति विष्णुधर्मेषु त्रिविक्रमव्रतम्।