अथ द्व्यशीतितमोऽध्यायः।
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ॥१॥
मूलम्
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ॥१॥
विश्वास-प्रस्तुतिः
अगायन्त च या गाथा ये पुराणविदो जनाः।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः ॥२॥
मूलम्
अगायन्त च या गाथा ये पुराणविदो जनाः।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः ॥२॥
विश्वास-प्रस्तुतिः
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥३॥
मूलम्
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥३॥
विश्वास-प्रस्तुतिः
स यौवनगतः संराट्सप्तद्वीपवतीं महीम्।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ॥४॥
मूलम्
स यौवनगतः संराट्सप्तद्वीपवतीं महीम्।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ॥४॥
विश्वास-प्रस्तुतिः
नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ॥५॥
मूलम्
नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ॥५॥
विश्वास-प्रस्तुतिः
चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः।
बभूवुरप्रतिहता हतारातिबलस्य वै ॥६॥
मूलम्
चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः।
बभूवुरप्रतिहता हतारातिबलस्य वै ॥६॥
विश्वास-प्रस्तुतिः
तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ॥७॥
मूलम्
तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ॥७॥
विश्वास-प्रस्तुतिः
तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ॥८॥
मूलम्
तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ॥८॥
विश्वास-प्रस्तुतिः
स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ॥९॥
मूलम्
स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ॥९॥
विश्वास-प्रस्तुतिः
एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः ॥१०॥
मूलम्
एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः ॥१०॥
विश्वास-प्रस्तुतिः
यदा न निश्चयं राजा स ययौ युवनाश्वजः।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ॥११॥
मूलम्
यदा न निश्चयं राजा स ययौ युवनाश्वजः।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ॥११॥
विश्वास-प्रस्तुतिः
वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् ॥१२॥
मूलम्
वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् ॥१२॥
विश्वास-प्रस्तुतिः
यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ॥१३॥
मूलम्
यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ॥१३॥
विश्वास-प्रस्तुतिः
समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् ॥१४॥
मूलम्
समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् ॥१४॥
विश्वास-प्रस्तुतिः
यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः ॥१५॥
मूलम्
यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः ॥१५॥
ब्राह्मणा ऊचुः।
विश्वास-प्रस्तुतिः
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि ॥१६॥
मूलम्
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि ॥१६॥
विश्वास-प्रस्तुतिः
वयं हि नरशार्दूल भवता परितोषिताः।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले ॥१७॥
मूलम्
वयं हि नरशार्दूल भवता परितोषिताः।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले ॥१७॥
विश्वास-प्रस्तुतिः
सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम्।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् ॥१८॥
मूलम्
सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम्।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् ॥१८॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् ॥१९॥
मूलम्
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् ॥१९॥
विश्वास-प्रस्तुतिः
न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा ॥२०॥
मूलम्
न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा ॥२०॥
विश्वास-प्रस्तुतिः
भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन्।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी ॥२१॥
मूलम्
भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन्।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी ॥२१॥
विश्वास-प्रस्तुतिः
स प्रसादं यदि भवान्करोति मम पार्थिव।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि ॥२२॥
मूलम्
स प्रसादं यदि भवान्करोति मम पार्थिव।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि ॥२२॥
मन्धातोवाच।
विश्वास-प्रस्तुतिः
ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् ॥२३॥
मूलम्
ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् ॥२३॥
पत्न्युवाच।
विश्वास-प्रस्तुतिः
श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् ॥२४॥
मूलम्
श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् ॥२४॥
विश्वास-प्रस्तुतिः
तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः।
येन कर्मविपाकेन तद्वदन्तु महर्षयः ॥२५॥
मूलम्
तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः।
येन कर्मविपाकेन तद्वदन्तु महर्षयः ॥२५॥
अहं च भवतो भार्या सर्वसीमन्तिनी भुवि।
विश्वास-प्रस्तुतिः
विधिना केन तपसा नियुक्ता भवतो गृहे।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ॥२६॥
मूलम्
विधिना केन तपसा नियुक्ता भवतो गृहे।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ॥२६॥
विश्वास-प्रस्तुतिः
तारतम्यतयेशित्वमन्येष्वपि हि विद्यते।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ॥२७॥
मूलम्
तारतम्यतयेशित्वमन्येष्वपि हि विद्यते।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ॥२७॥
विश्वास-प्रस्तुतिः
तदन्यजन्मचरितं नरनाथ निजं भवान्।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् ॥२८॥
मूलम्
तदन्यजन्मचरितं नरनाथ निजं भवान्।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् ॥२८॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् ॥२९॥
मूलम्
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् ॥२९॥
मान्धातोवाच।
विश्वास-प्रस्तुतिः
साधु देवि मतं यन्मे त्वया तदिदमीरितम्।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ॥३०॥
मूलम्
साधु देवि मतं यन्मे त्वया तदिदमीरितम्।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ॥३०॥
विश्वास-प्रस्तुतिः
ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन्।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ॥३१॥
मूलम्
ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन्।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ॥३१॥
विश्वास-प्रस्तुतिः
सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन्।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥३२॥
मूलम्
सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन्।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥३२॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन्।
यथावदेतदखिलं पप्रच्छासुरसत्तम ॥३३॥
मूलम्
एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन्।
यथावदेतदखिलं पप्रच्छासुरसत्तम ॥३३॥
राजोवाच।
विश्वास-प्रस्तुतिः
भगवन्तो ममाशेषं प्रसादाहृतचेतसः।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ॥३४॥
मूलम्
भगवन्तो ममाशेषं प्रसादाहृतचेतसः।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ॥३४॥
विश्वास-प्रस्तुतिः
कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम्।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ॥३५॥
मूलम्
कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम्।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ॥३५॥
विश्वास-प्रस्तुतिः
येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ॥३६॥
मूलम्
येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ॥३६॥
विश्वास-प्रस्तुतिः
अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ॥३७॥
मूलम्
अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ॥३७॥
विश्वास-प्रस्तुतिः
अतिभाति च मे कान्त्या भार्येयमखिलं जगत्।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ॥३८॥
मूलम्
अतिभाति च मे कान्त्या भार्येयमखिलं जगत्।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ॥३८॥
विश्वास-प्रस्तुतिः
सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ॥३९॥
मूलम्
सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ॥३९॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ॥४०॥
मूलम्
इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ॥४०॥
चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान्।
विश्वास-प्रस्तुतिः
योगमास्थाय सुचिरं यथावद्यतमानसः।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ॥४१॥
मूलम्
योगमास्थाय सुचिरं यथावद्यतमानसः।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ॥४१॥
विश्वास-प्रस्तुतिः
स तमाह मुनिर्भूपं विदितार्थो महासुर।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ॥४२॥
मूलम्
स तमाह मुनिर्भूपं विदितार्थो महासुर।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ॥४२॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
शृणु भूपाल सकलं यस्येदं कर्मणः फलम्।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ॥४३॥
मूलम्
शृणु भूपाल सकलं यस्येदं कर्मणः फलम्।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ॥४३॥
विश्वास-प्रस्तुतिः
त्वमासीः शूद्रजातीयः परहिंसापरायणः।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ॥४४॥
मूलम्
त्वमासीः शूद्रजातीयः परहिंसापरायणः।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ॥४४॥
विश्वास-प्रस्तुतिः
तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ॥४५॥
मूलम्
तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ॥४५॥
विश्वास-प्रस्तुतिः
पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ॥४६॥
मूलम्
पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ॥४६॥
विश्वास-प्रस्तुतिः
नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ॥४७॥
मूलम्
नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ॥४७॥
विश्वास-प्रस्तुतिः
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते।
सापि कर्मविपाकेन कृषिर्विफलतां गता ॥४८॥
मूलम्
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते।
सापि कर्मविपाकेन कृषिर्विफलतां गता ॥४८॥
विश्वास-प्रस्तुतिः
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम्।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ॥४९॥
मूलम्
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम्।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ॥४९॥
विश्वास-प्रस्तुतिः
अनया च समं साध्व्या विष्णोरावसथे त्वया।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ॥५०॥
मूलम्
अनया च समं साध्व्या विष्णोरावसथे त्वया।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ॥५०॥
विश्वास-प्रस्तुतिः
भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ॥५१॥
मूलम्
भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ॥५१॥
विश्वास-प्रस्तुतिः
तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ॥५२॥
मूलम्
तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ॥५२॥
वासुदेवाजिरे नित्यं कृतं सम्मार्जनं त्वया।
विश्वास-प्रस्तुतिः
तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम्।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ॥५३॥
मूलम्
तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम्।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ॥५३॥
विश्वास-प्रस्तुतिः
अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः।
तत्र चैतन्मयत्वेन पापहानिरजायत ॥५४॥
मूलम्
अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः।
तत्र चैतन्मयत्वेन पापहानिरजायत ॥५४॥
विश्वास-प्रस्तुतिः
विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ॥५५॥
मूलम्
विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ॥५५॥
विश्वास-प्रस्तुतिः
एवमायतनं रम्यमित्येवं च सुखावहम्।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ॥५६॥
मूलम्
एवमायतनं रम्यमित्येवं च सुखावहम्।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ॥५६॥
विश्वास-प्रस्तुतिः
योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ॥५७॥
मूलम्
योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ॥५७॥
विश्वास-प्रस्तुतिः
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ॥५८॥
मूलम्
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ॥५८॥
विश्वास-प्रस्तुतिः
स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ॥५९॥
मूलम्
स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ॥५९॥
विश्वास-प्रस्तुतिः
ततोऽधिकं पुरस्तस्मादादरादनुलेपनम्।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ॥६०॥
मूलम्
ततोऽधिकं पुरस्तस्मादादरादनुलेपनम्।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ॥६०॥
विश्वास-प्रस्तुतिः
तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः।
महासैन्यपरीवारः प्रभूतगजवाहनः ॥६१॥
मूलम्
तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः।
महासैन्यपरीवारः प्रभूतगजवाहनः ॥६१॥
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम्।
विश्वास-प्रस्तुतिः
वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम्।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ॥६२॥
मूलम्
वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम्।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ॥६२॥
विश्वास-प्रस्तुतिः
सर्वकामप्रदं कर्म देवदेवस्य कुर्वता।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ॥६३॥
मूलम्
सर्वकामप्रदं कर्म देवदेवस्य कुर्वता।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ॥६३॥
विश्वास-प्रस्तुतिः
तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ॥६४॥
मूलम्
तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ॥६४॥
विश्वास-प्रस्तुतिः
तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात्।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ॥६५॥
मूलम्
तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात्।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ॥६५॥
विश्वास-प्रस्तुतिः
अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥६६॥
मूलम्
अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥६६॥
विश्वास-प्रस्तुतिः
तवाप्यखिलभूपालमनःक्षोभकरं ततः।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ॥६७॥
मूलम्
तवाप्यखिलभूपालमनःक्षोभकरं ततः।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ॥६७॥
विश्वास-प्रस्तुतिः
एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ॥६८॥
मूलम्
एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ॥६८॥
विश्वास-प्रस्तुतिः
किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः।
करोति सततं पूजां निष्कामो नान्यमानसः ॥६९॥
मूलम्
किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः।
करोति सततं पूजां निष्कामो नान्यमानसः ॥६९॥
विश्वास-प्रस्तुतिः
स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम्।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ॥७०॥
मूलम्
स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम्।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ॥७०॥
विश्वास-प्रस्तुतिः
पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ॥७१॥
मूलम्
पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ॥७१॥
विश्वास-प्रस्तुतिः
यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम्।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥७२॥
मूलम्
यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम्।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥७२॥
विश्वास-प्रस्तुतिः
सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ॥७३॥
मूलम्
सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ॥७३॥
विश्वास-प्रस्तुतिः
अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ॥७४॥
मूलम्
अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ॥७४॥
विश्वास-प्रस्तुतिः
पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥७५॥
मूलम्
पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥७५॥
विश्वास-प्रस्तुतिः
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत्।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ॥७६॥
मूलम्
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत्।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ॥७६॥
विश्वास-प्रस्तुतिः
येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ॥७७॥
मूलम्
येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ॥७७॥
विश्वास-प्रस्तुतिः
देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ॥७८॥
मूलम्
देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ॥७८॥
विश्वास-प्रस्तुतिः
नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ॥७९॥
मूलम्
नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ॥७९॥
विश्वास-प्रस्तुतिः
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम्।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ॥८०॥
मूलम्
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम्।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ॥८०॥
विश्वास-प्रस्तुतिः
प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम्।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ॥८१॥
मूलम्
प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम्।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ॥८१॥
विश्वास-प्रस्तुतिः
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया।
केशवाराधने यत्नं कुरु धर्मभृतां वर ॥८२॥
मूलम्
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया।
केशवाराधने यत्नं कुरु धर्मभृतां वर ॥८२॥
ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ॥८३॥
इति विष्णुधर्मेषु मान्धाताराज्यप्राप्तिहेतुः।