०८१

अथैकाशीतितमोऽध्यायः।
प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् ॥१॥

मूलम्

स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् ॥१॥

विश्वास-प्रस्तुतिः

यः स्नापयति देवस्य घृतेन प्रतिमां हरेः।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् ॥२॥

मूलम्

यः स्नापयति देवस्य घृतेन प्रतिमां हरेः।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् ॥२॥

विश्वास-प्रस्तुतिः

गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम्।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ॥३॥

मूलम्

गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम्।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ॥३॥

विश्वास-प्रस्तुतिः

भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ॥४॥

मूलम्

भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ॥४॥

विश्वास-प्रस्तुतिः

प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ॥५॥

मूलम्

प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ॥५॥

विश्वास-प्रस्तुतिः

द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ॥६॥

मूलम्

द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ॥६॥

विश्वास-प्रस्तुतिः

ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ॥७॥

मूलम्

ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ॥७॥

विश्वास-प्रस्तुतिः

सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम्।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ॥८॥

मूलम्

सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम्।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ॥८॥

विश्वास-प्रस्तुतिः

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ॥९॥

मूलम्

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ॥९॥

विश्वास-प्रस्तुतिः

आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥१०॥

मूलम्

आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥१०॥

विश्वास-प्रस्तुतिः

दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥११॥

मूलम्

दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥११॥

विश्वास-प्रस्तुतिः

यथा च विमलं ज्ञानं यथा निर्वृतिकारकम्।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥१२॥

मूलम्

यथा च विमलं ज्ञानं यथा निर्वृतिकारकम्।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥१२॥

विश्वास-प्रस्तुतिः

ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः ॥१३॥

मूलम्

ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः ॥१३॥

विश्वास-प्रस्तुतिः

सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥१४॥

मूलम्

सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥१४॥

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम्।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये ॥१५॥

मूलम्

अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम्।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये ॥१५॥

विश्वास-प्रस्तुतिः

स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता ॥१६॥

मूलम्

स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता ॥१६॥

शाण्डिल्युवाच।

विश्वास-प्रस्तुतिः

शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥१७॥

मूलम्

शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥१७॥

विश्वास-प्रस्तुतिः

न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता।
न वाससां च शोभेयं यथा ते पतिना सह ॥१८॥

मूलम्

न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता।
न वाससां च शोभेयं यथा ते पतिना सह ॥१८॥

विश्वास-प्रस्तुतिः

नैवाभरणजातानि तेषां भ्राजन्ति वै तथा।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः ॥१९॥

मूलम्

नैवाभरणजातानि तेषां भ्राजन्ति वै तथा।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः ॥१९॥

विश्वास-प्रस्तुतिः

स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः ॥२०॥

मूलम्

स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः ॥२०॥

विश्वास-प्रस्तुतिः

तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम्।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि ॥२१॥

मूलम्

तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम्।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि ॥२१॥

सुमनोवाच।

विश्वास-प्रस्तुतिः

यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥२२॥

मूलम्

यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥२२॥

विश्वास-प्रस्तुतिः

सुरूपतां मनःप्रीति पश्यतां चारुवेषताम्।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते ॥२३॥

मूलम्

सुरूपतां मनःप्रीति पश्यतां चारुवेषताम्।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते ॥२३॥

विश्वास-प्रस्तुतिः

तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् ॥२४॥

मूलम्

तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् ॥२४॥

विश्वास-प्रस्तुतिः

मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥२५॥

मूलम्

मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥२५॥

विश्वास-प्रस्तुतिः

यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम्।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् ॥२६॥

मूलम्

यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम्।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् ॥२६॥

विश्वास-प्रस्तुतिः

ये धूपा यानि माल्यानि दयितान्यभवंस्तदा।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः ॥२७॥

मूलम्

ये धूपा यानि माल्यानि दयितान्यभवंस्तदा।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः ॥२७॥

विश्वास-प्रस्तुतिः

तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः ॥२८॥

मूलम्

तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः ॥२८॥

विश्वास-प्रस्तुतिः

आहारा दयिता ये च पवित्राश्च निवेदिताः।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा ॥२९॥

मूलम्

आहारा दयिता ये च पवित्राश्च निवेदिताः।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा ॥२९॥

विश्वास-प्रस्तुतिः

स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ॥३०॥

मूलम्

स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ॥३०॥

विश्वास-प्रस्तुतिः

ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ॥३१॥

मूलम्

ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ॥३१॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम्।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ॥३२॥

मूलम्

एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम्।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ॥३२॥

विश्वास-प्रस्तुतिः

चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ॥३३॥

मूलम्

चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ॥३३॥

विश्वास-प्रस्तुतिः

कालेयकं तुङ्गकं च पद्मचन्दनमेव च।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ॥३४॥

मूलम्

कालेयकं तुङ्गकं च पद्मचन्दनमेव च।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ॥३४॥

विश्वास-प्रस्तुतिः

तस्मादेभिर्न गोविन्दः पूजनीयो महासुर।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ॥३५॥

मूलम्

तस्मादेभिर्न गोविन्दः पूजनीयो महासुर।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ॥३५॥

विश्वास-प्रस्तुतिः

तथैव शुभगन्धा ये धूपास्ते जगतः पतेः।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ॥३६॥

मूलम्

तथैव शुभगन्धा ये धूपास्ते जगतः पतेः।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ॥३६॥

विश्वास-प्रस्तुतिः

न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम्।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ॥३७॥

मूलम्

न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम्।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ॥३७॥

विश्वास-प्रस्तुतिः

मालती मल्लिका चैव यूथिकाथातिमुक्तका।
पाटला करवीरश्च जवा पारन्तिरेव च ॥३८॥

मूलम्

मालती मल्लिका चैव यूथिकाथातिमुक्तका।
पाटला करवीरश्च जवा पारन्तिरेव च ॥३८॥

विश्वास-प्रस्तुतिः

कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ॥३९॥

मूलम्

कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ॥३९॥

विश्वास-प्रस्तुतिः

अशोकतिलका रोध्रास्तथा चैवाटरूषकः।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ॥४०॥

मूलम्

अशोकतिलका रोध्रास्तथा चैवाटरूषकः।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ॥४०॥

विश्वास-प्रस्तुतिः

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च।
तमालपत्रं च बले सदैव भगवत्प्रियम् ॥४१॥

मूलम्

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च।
तमालपत्रं च बले सदैव भगवत्प्रियम् ॥४१॥

विश्वास-प्रस्तुतिः

तुलसीकालतुलसीपत्रं भृङ्गरजस्य च।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ॥४२॥

मूलम्

तुलसीकालतुलसीपत्रं भृङ्गरजस्य च।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ॥४२॥

विश्वास-प्रस्तुतिः

पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ॥४३॥

मूलम्

पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ॥४३॥

विश्वास-प्रस्तुतिः

नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम्।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ॥४४॥

मूलम्

नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम्।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ॥४४॥

विश्वास-प्रस्तुतिः

कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ॥४५॥

मूलम्

कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ॥४५॥

विश्वास-प्रस्तुतिः

येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ॥४६॥

मूलम्

येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ॥४६॥

विश्वास-प्रस्तुतिः

सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ॥४७॥

मूलम्

सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ॥४७॥

विश्वास-प्रस्तुतिः

दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ॥४८॥

मूलम्

दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ॥४८॥

विश्वास-प्रस्तुतिः

भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ॥४९॥

मूलम्

भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ॥४९॥

विश्वास-प्रस्तुतिः

सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम्।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ॥५०॥

मूलम्

सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम्।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ॥५०॥

विश्वास-प्रस्तुतिः

आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ॥५१॥

मूलम्

आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ॥५१॥

इति विष्णुधर्मेषु पुष्पादिविभागः।