अथाशीतितमोऽध्यायः।
बलिरुवाच।
विश्वास-प्रस्तुतिः
क्रियायोगस्त्वया पूर्वं ममोक्तो यः पितामह।
तमहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥१॥
मूलम्

देवार्चां देवतागारे तन्मयत्वेन पूजयम्।
यथावच्चेतसो भूमिं करोति नियतो हि सः ॥२॥
मूलम्
देवार्चां देवतागारे तन्मयत्वेन पूजयम्।
यथावच्चेतसो भूमिं करोति नियतो हि सः ॥२॥
विश्वास-प्रस्तुतिः
तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसंस्तवैः।
क्रियायोगः स विद्वद्भिर्योगिनां समुदाहृतः ॥३॥

तत्राहं श्रोतुमिच्छामि क्रियायोगस्थितो नरः।
यत्फलं समवाप्नोति कारयित्वा हरेर्गृहम् ॥४॥

देवार्चां कारयित्वा वा यत्पुण्यं पुरुषोऽश्नुते।
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् ॥५॥

कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे।
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः ॥६॥

उपहारे फलं किं स्यात्किं फलं गीतवादिते।
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् ॥७॥

यच्चोपलेपने तात फलमभ्युक्षिते च यत्।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ॥८॥
मूलम्
यच्चोपलेपने तात फलमभ्युक्षिते च यत्।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ॥८॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
साधु वत्स यदेतत्त्वं वासुदेवस्य पृच्छसि।
शुश्रूषणविधौ पुण्यं तदिहैकमनाः शृणु ॥९॥

ब्रह्मणा किल देवानामृषीणां च महात्मनाम्।
शुश्रूषणफलं विष्णोः प्रोक्तं दैत्यपते पुरा ॥१०॥

तेभ्यः सकाशान्मनुना प्राप्तं स्वारोचिषेण तु।
स्वारोचिषः स्वपुत्राय दत्तवानृतचक्षुषे ॥११॥

ऋतचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च।
ममाख्यातं च शुक्रेण यथावत्सुमहात्मना ॥१२॥

शुश्रूषवे महाभाग दैत्याचार्येण धीमता।
तदेतच्छ्रूयतां तात क्रियायोगाश्रितं फलम् ॥१३॥

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः।
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते ॥१४॥

परमं कारणं योगो विमुक्तेर्दितिकेश्वर।
क्रियायोगश्च योगस्य परमं तात साधनम् ॥१५॥

यत्त्वेतद्भवता पृष्टं फलमन्विच्छता फलम्।
देवालयादिकरणे तदिहैकमनाः शृणु ॥१६॥

यस्तु देवालयं विष्णोर्दार्वं शैलमयं तथा।
कारयेन्मृन्मयं वापि शृणु तस्य बले फलं ॥१७॥

अहन्यहनि यज्ञेन यजतो यन्महाफलम्।
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् ॥१८॥

कुलानां शतमागामि समतीतं तथा शतम्।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् ॥१९॥
मूलम्
कुलानां शतमागामि समतीतं तथा शतम्।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् ॥१९॥
विश्वास-प्रस्तुतिः
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥२०॥

सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्।
प्रतिष्ठां समवाप्नोति स नरः सप्तलौकिकीम् ॥२१॥

प्रशस्तदेशभूभागे यः शस्तं भवनं हरेः।
कारयत्यक्षयांल्लोकान्स नरः प्रतिपद्यते ॥२२॥

इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ॥२३॥

प्रतिमां लक्षणवतीं यः कारयति मानवः।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते ॥२४॥
मूलम्
प्रतिमां लक्षणवतीं यः कारयति मानवः।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते ॥२४॥
विश्वास-प्रस्तुतिः
षष्टिं वर्षसहस्राणां सहस्राणि स मोदते।
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदन ॥२५॥

प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने।
पुरुषः कृतकृत्यत्वान्नैनं श्वोमरणं तपेत् ॥२६॥

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥२७॥

अनुशस्ताः किल पुरा यमेन यमकिङ्कराः।
पाशोद्यतायुधा दैत्य प्रजासंयमने रताः ॥२८॥

यम उवाच।
विश्वास-प्रस्तुतिः
विहरध्वं यथान्यायं नियोगो मेऽनुपाल्यताम्।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ॥२९॥

केवलं ये जगद्धातुमनन्तं समुपाश्रिताः।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥३०॥

ये तु भागवता लोके तच्चित्तास्तत्परायणाः।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥३१॥

यस्तिष्ठन्प्रस्वपन्गच्छंस्तत्तिष्ठन्स्खलिते क्षुते।
सङ्कीर्तयति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥३२॥

नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम्।
नावलोक्य भवद्भिस्ते तत्तेजो हन्ति वो गतिम् ॥३३॥

ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः।
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः ॥३४॥

उपलेपनकर्तारः सम्मार्जनपराश्च ये।
कृष्णालये परित्याज्यं तेषां त्रिपुरुषं कुलम् ॥३५॥

येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्।
पुंसां शतन्नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥३६॥

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता।
नरायुतं तत्कुलजं भवतां शासनातिगम् ॥३७॥

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ॥३८॥
मूलम्
भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ॥३८॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना।
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते ॥३९॥

एतां महाफलां योऽर्चां विष्णुः कारयते नरः।
तवाख्यातं महाबाहो गृहकारयितुश्च यत् ॥४०॥

यज्ञा नराणां पापौघक्षालकाः सर्वकामदाः।
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः ॥४१॥

इति विष्णुधर्मेषु वैवस्वतगाथा।