०७८

अथ अष्टसप्ततितमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः ॥१॥

मूलम्

पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः ॥१॥

विश्वास-प्रस्तुतिः

अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ ॥२॥

मूलम्

अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ ॥२॥

विश्वास-प्रस्तुतिः

प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ॥३॥

मूलम्

प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ॥३॥

विश्वास-प्रस्तुतिः

तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ॥४॥

मूलम्

तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ॥४॥

विश्वास-प्रस्तुतिः

शर्कारसवमाध्विकां पुष्पासवफलासवम्।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ॥५॥

मूलम्

शर्कारसवमाध्विकां पुष्पासवफलासवम्।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ॥५॥

विश्वास-प्रस्तुतिः

परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून्।
कषायांश्च महाराज सुमृष्टान्यपराणि च ॥६॥

मूलम्

परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून्।
कषायांश्च महाराज सुमृष्टान्यपराणि च ॥६॥

विश्वास-प्रस्तुतिः

सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ॥७॥

मूलम्

सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ॥७॥

विश्वास-प्रस्तुतिः

प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ॥८॥

मूलम्

प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ॥८॥

विश्वास-प्रस्तुतिः

तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ॥९॥

मूलम्

तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ॥९॥

विश्वास-प्रस्तुतिः

बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् ॥१०॥

मूलम्

बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् ॥१०॥

विश्वास-प्रस्तुतिः

पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत्।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ॥११॥

मूलम्

पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत्।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ॥११॥

विश्वास-प्रस्तुतिः

न देवी नापि गन्धर्वी नाप्सरा न च मानुषी।
तस्या रूपेण सदृशी बभूव मनुजेश्वर ॥१२॥

मूलम्

न देवी नापि गन्धर्वी नाप्सरा न च मानुषी।
तस्या रूपेण सदृशी बभूव मनुजेश्वर ॥१२॥

विश्वास-प्रस्तुतिः

सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना ॥१३॥

मूलम्

सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना ॥१३॥

विश्वास-प्रस्तुतिः

मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता ॥१४॥

मूलम्

मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता ॥१४॥

तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः।

विश्वास-प्रस्तुतिः

वपुषा रूपसम्पदा पौतना मृगलोचना।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् ॥१५॥

मूलम्

वपुषा रूपसम्पदा पौतना मृगलोचना।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् ॥१५॥

विश्वास-प्रस्तुतिः

तया तु रमतस्तस्य रमणीये रसातले।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी ॥१६॥

मूलम्

तया तु रमतस्तस्य रमणीये रसातले।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी ॥१६॥

विश्वास-प्रस्तुतिः

कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः ॥१७॥

मूलम्

कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः ॥१७॥

विश्वास-प्रस्तुतिः

यदा यदा च विषुवं भास्करः प्रतिपद्यते।
तदा तदा हरेश्चक्रं पाताले परिवर्तते ॥१८॥

मूलम्

यदा यदा च विषुवं भास्करः प्रतिपद्यते।
तदा तदा हरेश्चक्रं पाताले परिवर्तते ॥१८॥

स्रवन्ति योषितां गर्भास्तस्य धारांशुतापिताः।

विश्वास-प्रस्तुतिः

सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः।
निस्तेजसो दैत्यभटा भवन्ति च महीपते ॥१९॥

मूलम्

सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः।
निस्तेजसो दैत्यभटा भवन्ति च महीपते ॥१९॥

तद्दृष्ट्वा सहसायान्तमादित्यशततेजसम्।

विश्वास-प्रस्तुतिः

ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम्।
हाहाकृतमभूत्सर्वं पातालमरिसूदन ॥२०॥

मूलम्

ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम्।
हाहाकृतमभूत्सर्वं पातालमरिसूदन ॥२०॥

जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः।

विश्वास-प्रस्तुतिः

बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय ॥२१॥

मूलम्

बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय ॥२१॥

विश्वास-प्रस्तुतिः

तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना ॥२२॥

मूलम्

तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना ॥२२॥

विश्वास-प्रस्तुतिः

भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा।
समस्तजगदाधारकरमुक्तेन वेगिना ॥२३॥

मूलम्

भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा।
समस्तजगदाधारकरमुक्तेन वेगिना ॥२३॥

विश्वास-प्रस्तुतिः

तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम्।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः ॥२४॥

मूलम्

तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम्।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः ॥२४॥

विश्वास-प्रस्तुतिः

आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् ॥२५॥

मूलम्

आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् ॥२५॥

विश्वास-प्रस्तुतिः

निर्यान्तमथ वेगेन तमुदारपराक्रमम्।
विध्यावली नाम शुभा दधार दयितं पतिम् ॥२६॥

मूलम्

निर्यान्तमथ वेगेन तमुदारपराक्रमम्।
विध्यावली नाम शुभा दधार दयितं पतिम् ॥२६॥

विश्वास-प्रस्तुतिः

उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम्।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी ॥२७॥

मूलम्

उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम्।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी ॥२७॥

विन्ध्यावल्युवाच।

विश्वास-प्रस्तुतिः

दैत्यराज न कोपस्य वशमागन्तुमर्हसि।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् ॥२८॥

मूलम्

दैत्यराज न कोपस्य वशमागन्तुमर्हसि।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् ॥२८॥

विश्वास-प्रस्तुतिः

किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम्।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा ॥२९॥

मूलम्

किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम्।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा ॥२९॥

विश्वास-प्रस्तुतिः

एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम्।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ॥३०॥

मूलम्

एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम्।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ॥३०॥

विश्वास-प्रस्तुतिः

पुङ्गर्भान्निखिलानेतद्दानवानां महासुर।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ॥३१॥

मूलम्

पुङ्गर्भान्निखिलानेतद्दानवानां महासुर।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ॥३१॥

विश्वास-प्रस्तुतिः

करोति दुःखमतुलं घातनात्प्रतिपक्षजम्।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ॥३२॥

मूलम्

करोति दुःखमतुलं घातनात्प्रतिपक्षजम्।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ॥३२॥

विश्वास-प्रस्तुतिः

मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ॥३३॥

मूलम्

मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ॥३३॥

विश्वास-प्रस्तुतिः

यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ॥३४॥

मूलम्

यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ॥३४॥

विश्वास-प्रस्तुतिः

सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ॥३५॥

मूलम्

सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ॥३५॥

विश्वास-प्रस्तुतिः

तत्प्रसीद महाभाग समुपैहि जगत्पतिम्।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ॥३६॥

मूलम्

तत्प्रसीद महाभाग समुपैहि जगत्पतिम्।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ॥३६॥

विश्वास-प्रस्तुतिः

यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ॥३७॥

मूलम्

यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ॥३७॥

विश्वास-प्रस्तुतिः

यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम्।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ॥३८॥

मूलम्

यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम्।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ॥३८॥

विश्वास-प्रस्तुतिः

सर्वकारणभूतस्य देवदेवस्य चक्रिणः।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ॥३९॥

मूलम्

सर्वकारणभूतस्य देवदेवस्य चक्रिणः।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ॥३९॥

विश्वास-प्रस्तुतिः

चक्रमत्र जगद्धातुः करोति स्थितिपालनम्।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ॥४०॥

मूलम्

चक्रमत्र जगद्धातुः करोति स्थितिपालनम्।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ॥४०॥

विश्वास-प्रस्तुतिः

प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम्।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ॥४१॥

मूलम्

प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम्।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ॥४१॥

विश्वास-प्रस्तुतिः

संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम्।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ॥४२॥

मूलम्

संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम्।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ॥४२॥

स व्याजहार भगवांस्तवानुग्रहकाम्यया।

विश्वास-प्रस्तुतिः

संस्मर्यतां महाभाग सर्वधर्मभृतां वरः।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ॥४३॥

मूलम्

संस्मर्यतां महाभाग सर्वधर्मभृतां वरः।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ॥४३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ॥४४॥

मूलम्

एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ॥४४॥

विश्वास-प्रस्तुतिः

स ददर्श समायान्तमनन्तकरसङ्गिनम्।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ॥४५॥

मूलम्

स ददर्श समायान्तमनन्तकरसङ्गिनम्।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ॥४५॥

विश्वास-प्रस्तुतिः

सस्मार च बलिः सर्वं प्रह्लादवचनं नृप।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ॥४६॥

मूलम्

सस्मार च बलिः सर्वं प्रह्लादवचनं नृप।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ॥४६॥

विश्वास-प्रस्तुतिः

भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ॥४७॥

मूलम्

भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ॥४७॥

विश्वास-प्रस्तुतिः

ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम्।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ॥४८॥

मूलम्

ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम्।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ॥४८॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम्।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ॥४९॥

मूलम्

तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम्।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ॥४९॥

बलिरुवाच।

विश्वास-प्रस्तुतिः

अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥५०॥

मूलम्

अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥५०॥

विश्वास-प्रस्तुतिः

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥५१॥

मूलम्

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥५१॥

विश्वास-प्रस्तुतिः

दुष्टराहुगलच्छेदशोणितारुणतारकम्।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥५२॥

मूलम्

दुष्टराहुगलच्छेदशोणितारुणतारकम्।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥५२॥

विश्वास-प्रस्तुतिः

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥५३॥

मूलम्

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥५३॥

विश्वास-प्रस्तुतिः

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥५४॥

मूलम्

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥५४॥

विश्वास-प्रस्तुतिः

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥५५॥

मूलम्

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥५५॥

यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम्।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम्।
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम्।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम्।
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम्।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम्।

विश्वास-प्रस्तुतिः

स्वभावतेजसा युक्तं यदर्काग्निमयं महत्।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥५७॥

मूलम्

स्वभावतेजसा युक्तं यदर्काग्निमयं महत्।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥५७॥

विश्वास-प्रस्तुतिः

दुर्वृत्तदैत्यमथनं जगतः परिपालकम्।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥५८॥

मूलम्

दुर्वृत्तदैत्यमथनं जगतः परिपालकम्।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥५८॥

विश्वास-प्रस्तुतिः

करोतु मे सदा शर्म धर्मतां च प्रयातु मे।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥५९॥

मूलम्

करोतु मे सदा शर्म धर्मतां च प्रयातु मे।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥५९॥

स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम्।

विश्वास-प्रस्तुतिः

प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम्।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥६०॥

मूलम्

प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम्।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥६०॥

विश्वास-प्रस्तुतिः

जहि नो विषयग्राहि मनो ग्रहविचेष्टितम्।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥६१॥

मूलम्

जहि नो विषयग्राहि मनो ग्रहविचेष्टितम्।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥६१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत्।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ॥६२॥

मूलम्

एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत्।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ॥६२॥

विश्वास-प्रस्तुतिः

ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम्।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥६३॥

मूलम्

ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम्।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥६३॥

विश्वास-प्रस्तुतिः

भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥६४॥

मूलम्

भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥६४॥

विश्वास-प्रस्तुतिः

मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ॥६५॥

मूलम्

मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ॥६५॥

विश्वास-प्रस्तुतिः

वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान्।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥६६॥

मूलम्

वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान्।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥६६॥

विश्वास-प्रस्तुतिः

रुद्रादित्यांश्च मरुतां साध्यानां च महीपते।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥६७॥

मूलम्

रुद्रादित्यांश्च मरुतां साध्यानां च महीपते।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥६७॥

विश्वास-प्रस्तुतिः

ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥६८॥

मूलम्

ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥६८॥

विश्वास-प्रस्तुतिः

यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥६९॥

मूलम्

यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥६९॥

विश्वास-प्रस्तुतिः

प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥७०॥

मूलम्

प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥७०॥

इति विष्णुधर्मेषु चक्रस्तवः।