०७६

अथ षट्सप्ततितमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥

मूलम्

निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥

बलिरुवाच।

विश्वास-प्रस्तुतिः

तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥

मूलम्

तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥

विश्वास-प्रस्तुतिः

दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ॥३॥

मूलम्

दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ॥३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ॥४॥

मूलम्

इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ॥४॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम्।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥

मूलम्

चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम्।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥

विश्वास-प्रस्तुतिः

सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ॥६॥

मूलम्

सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ॥६॥

विश्वास-प्रस्तुतिः

महदेतन्महाबाहो कारणं दानवेश्वर।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ॥७॥

मूलम्

महदेतन्महाबाहो कारणं दानवेश्वर।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ॥७॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ॥८॥

मूलम्

इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ॥८॥

विश्वास-प्रस्तुतिः

स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः।
विचारयामास ततो यतो देवो जनार्दनः ॥९॥

मूलम्

स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः।
विचारयामास ततो यतो देवो जनार्दनः ॥९॥

विश्वास-प्रस्तुतिः

स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम्।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् ॥१०॥

मूलम्

स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम्।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् ॥१०॥

विश्वास-प्रस्तुतिः

तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ॥११॥

मूलम्

तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ॥११॥

विश्वास-प्रस्तुतिः

विरोचनं सतनयं बलिं चासुरनायकम्।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ॥१२॥

मूलम्

विरोचनं सतनयं बलिं चासुरनायकम्।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ॥१२॥

विश्वास-प्रस्तुतिः

आत्मानमुर्वीगगनं वायुमम्भो हुताशनम्।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् ॥१३॥

मूलम्

आत्मानमुर्वीगगनं वायुमम्भो हुताशनम्।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् ॥१३॥

विश्वास-प्रस्तुतिः

वयोमनुष्यानखिलांस्तथैव च सरीसृपान्।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च ॥१४॥

मूलम्

वयोमनुष्यानखिलांस्तथैव च सरीसृपान्।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च ॥१४॥

विश्वास-प्रस्तुतिः

ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन्।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः ॥१५॥

मूलम्

ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन्।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः ॥१५॥

प्रह्लादः प्राह दैत्येन्द्रंबलिं वैरोचनिं तदा।

विश्वास-प्रस्तुतिः

वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥१७॥

मूलम्

वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥१७॥

विश्वास-प्रस्तुतिः

देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१८॥

मूलम्

देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१८॥

विश्वास-प्रस्तुतिः

परापराणां परमः परः परवतामपि।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥१९॥

मूलम्

परापराणां परमः परः परवतामपि।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥१९॥

स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः।

विश्वास-प्रस्तुतिः

प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥२०॥

मूलम्

प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥२०॥

विश्वास-प्रस्तुतिः

न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥२१॥

मूलम्

न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥२१॥

विश्वास-प्रस्तुतिः

योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥२२॥

मूलम्

योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥२२॥

विश्वास-प्रस्तुतिः

यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२३॥

मूलम्

यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२३॥

विश्वास-प्रस्तुतिः

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२४॥

मूलम्

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२४॥

विश्वास-प्रस्तुतिः

न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२५॥

मूलम्

न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२५॥

रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य।
श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् २६न।
घ्राणचक्षुःश्रवणादिभिर्यः।
सर्वेश्वरो वेदितुमव्ययात्मा शक्यस्तमीड्यं मनसैव देवं।
ग्राह्यं नतोऽहं हरिमीशितारम् २७येनैकदंष्ट्राग्रसमुद्धृतेयं।
धराचला धारयतीह सर्वं ग्रस्त्वा स शेते सकलं जगद्यस्।
तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २८शां!वतीर्णेन च येन गर्भे।
हृआनि तेजांसि महासुराणां नमामि तं देवमनन्तमीशम्।
अशेषसंसारतरोः कुठारम् २९देवो जगद्योनिरयं महात्मा।

विश्वास-प्रस्तुतिः

स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो।
हृतानि वस्तेन बले वपूंषि ॥३०॥

मूलम्

स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो।
हृतानि वस्तेन बले वपूंषि ॥३०॥

बलिरुवाच।

विश्वास-प्रस्तुतिः

तात कोऽयं हरिर्नाम यतो न भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥३१॥

मूलम्

तात कोऽयं हरिर्नाम यतो न भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥३१॥

विश्वास-प्रस्तुतिः

विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३२॥

मूलम्

विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३२॥

विश्वास-प्रस्तुतिः

प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३३॥

मूलम्

प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३३॥

विश्वास-प्रस्तुतिः

महाबला महावीर्या भूभारधरणक्षमाः।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ॥३४॥

मूलम्

महाबला महावीर्या भूभारधरणक्षमाः।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ॥३४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥३५॥

मूलम्

पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥३५॥

विश्वास-प्रस्तुतिः

विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३६॥

मूलम्

विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३६॥

विश्वास-प्रस्तुतिः

देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ॥३७॥

मूलम्

देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ॥३७॥

विश्वास-प्रस्तुतिः

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ॥३८॥

मूलम्

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ॥३८॥

विश्वास-प्रस्तुतिः

त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥३९॥

मूलम्

त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥३९॥

विश्वास-प्रस्तुतिः

यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥४०॥

मूलम्

यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥४०॥

विश्वास-प्रस्तुतिः

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥४१॥

मूलम्

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥४१॥

विश्वास-प्रस्तुतिः

शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ॥४२॥

मूलम्

शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ॥४२॥

विश्वास-प्रस्तुतिः

तिष्ठत्वनेकसंसारसंहृताघविनाशनी।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ॥४३॥

मूलम्

तिष्ठत्वनेकसंसारसंहृताघविनाशनी।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ॥४३॥

विश्वास-प्रस्तुतिः

न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः।
इति जानात्ययं लोको भवांश्च दितिजाधमः ॥४४॥

मूलम्

न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः।
इति जानात्ययं लोको भवांश्च दितिजाधमः ॥४४॥

विश्वास-प्रस्तुतिः

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ॥४५॥

मूलम्

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ॥४५॥

विश्वास-प्रस्तुतिः

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ॥४६॥

मूलम्

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ॥४६॥

विश्वास-प्रस्तुतिः

निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ॥४७॥

मूलम्

निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ॥४७॥

विश्वास-प्रस्तुतिः

मा देवो मा जगन्नाथो बले मासौ जनार्दनः।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ॥४८॥

मूलम्

मा देवो मा जगन्नाथो बले मासौ जनार्दनः।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ॥४८॥

विश्वास-प्रस्तुतिः

एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ॥४९॥

मूलम्

एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ॥४९॥

विश्वास-प्रस्तुतिः

यथा मे शिरसश्छेदादिदं गुरुतरं बले।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ॥५०॥

मूलम्

यथा मे शिरसश्छेदादिदं गुरुतरं बले।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ॥५०॥

विश्वास-प्रस्तुतिः

यथा न कृष्णादपरं परित्राणं भवार्णवे।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥५१॥

मूलम्

यथा न कृष्णादपरं परित्राणं भवार्णवे।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥५१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ॥५२॥

मूलम्

इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ॥५२॥

बलिरुवाच।

विश्वास-प्रस्तुतिः

प्रसीद तात मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ॥५३॥

मूलम्

प्रसीद तात मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ॥५३॥

विश्वास-प्रस्तुतिः

मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥५४॥

मूलम्

मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥५४॥

विश्वास-प्रस्तुतिः

राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम्।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ॥५५॥

मूलम्

राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम्।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ॥५५॥

विश्वास-प्रस्तुतिः

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५६॥

मूलम्

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५६॥

विश्वास-प्रस्तुतिः

तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ॥५७॥

मूलम्

तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ॥५७॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

वत्स कोपेन मोहो मे जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥५८॥

मूलम्

वत्स कोपेन मोहो मे जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥५८॥

विश्वास-प्रस्तुतिः

यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ॥५९॥

मूलम्

यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ॥५९॥

विश्वास-प्रस्तुतिः

योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ॥६०॥

मूलम्

योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ॥६०॥

विश्वास-प्रस्तुतिः

अद्यप्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ॥६१॥

मूलम्

अद्यप्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ॥६१॥

विश्वास-प्रस्तुतिः

शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ॥६२॥

मूलम्

शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ॥६२॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः।
अजायत स गोविन्दो भगवान्वामनाकृतिः ॥६३॥

मूलम्

एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः।
अजायत स गोविन्दो भगवान्वामनाकृतिः ॥६३॥

विश्वास-प्रस्तुतिः

अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत्।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ॥६४॥

मूलम्

अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत्।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ॥६४॥

विश्वास-प्रस्तुतिः

ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥६५॥

मूलम्

ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥६५॥

विश्वास-प्रस्तुतिः

नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ॥६६॥

मूलम्

नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ॥६६॥

विश्वास-प्रस्तुतिः

तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ॥६७॥

मूलम्

तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ॥६७॥

ब्रह्मोवाच।

विश्वास-प्रस्तुतिः

जयाद्येश जयाजेय जय सर्वात्मकात्मक।
जय जन्मजरापेत जयानन्त जयाच्युत ॥६८॥

मूलम्

जयाद्येश जयाजेय जय सर्वात्मकात्मक।
जय जन्मजरापेत जयानन्त जयाच्युत ॥६८॥

विश्वास-प्रस्तुतिः

जयाजित जयाशेष जयाव्यक्त स्थिते जय।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ॥६९॥

मूलम्

जयाजित जयाशेष जयाव्यक्त स्थिते जय।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ॥६९॥

विश्वास-प्रस्तुतिः

जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ॥७०॥

मूलम्

जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ॥७०॥

विश्वास-प्रस्तुतिः

जयाखिल जयाशेष जयाखिलहृदि स्थित।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥७१॥

मूलम्

जयाखिल जयाशेष जयाखिलहृदि स्थित।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥७१॥

विश्वास-प्रस्तुतिः

मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ॥७२॥

मूलम्

मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ॥७२॥

विश्वास-प्रस्तुतिः

जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ॥७३॥

मूलम्

जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ॥७३॥

विश्वास-प्रस्तुतिः

जय स्वमायायोगस्थ शेषभोगशयाक्षर।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ॥७४॥

मूलम्

जय स्वमायायोगस्थ शेषभोगशयाक्षर।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ॥७४॥

विश्वास-प्रस्तुतिः

नृकेसरिञ्जयारातिवक्षःस्थलविदारण।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ॥७५॥

मूलम्

नृकेसरिञ्जयारातिवक्षःस्थलविदारण।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ॥७५॥

विश्वास-प्रस्तुतिः

निजमायापटच्छन्न जगद्धातर्जनार्दन।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ॥७६॥

मूलम्

निजमायापटच्छन्न जगद्धातर्जनार्दन।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ॥७६॥

विश्वास-प्रस्तुतिः

वर्धस्व वर्धितानेकविकारप्रकृते हरे।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ॥७७॥

मूलम्

वर्धस्व वर्धितानेकविकारप्रकृते हरे।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ॥७७॥

विश्वास-प्रस्तुतिः

न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥७८॥

मूलम्

न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥७८॥

विश्वास-प्रस्तुतिः

त्वन्मायापटसंवीते जगत्यत्र जगत्पते।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ॥७९॥

मूलम्

त्वन्मायापटसंवीते जगत्यत्र जगत्पते।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ॥७९॥

विश्वास-प्रस्तुतिः

त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ॥८०॥

मूलम्

त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ॥८०॥

विश्वास-प्रस्तुतिः

तदीश्वरेश्वरेशान विभो वर्धस्व भावन।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ॥८१॥

मूलम्

तदीश्वरेश्वरेशान विभो वर्धस्व भावन।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ॥८१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ॥८२॥

मूलम्

एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ॥८२॥

विश्वास-प्रस्तुतिः

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥८३॥

मूलम्

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥८३॥

विश्वास-प्रस्तुतिः

भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम्।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥८४॥

मूलम्

भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम्।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥८४॥

विश्वास-प्रस्तुतिः

सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥८५॥

मूलम्

सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥८५॥

विश्वास-प्रस्तुतिः

ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ॥८६॥

मूलम्

ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ॥८६॥

आषाढमददद्दण्डं मरीचिर्ब्रह्मणः सुतः।

विश्वास-प्रस्तुतिः

कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ॥८७॥

मूलम्

कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ॥८७॥

विश्वास-प्रस्तुतिः

उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ॥८८॥

मूलम्

उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ॥८८॥

विश्वास-प्रस्तुतिः

स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ॥८९॥

मूलम्

स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ॥८९॥

विश्वास-प्रस्तुतिः

यत्र यत्र पदं भूप भूभागे वामनो ददौ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ॥९०॥

मूलम्

यत्र यत्र पदं भूप भूभागे वामनो ददौ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ॥९०॥

स वामनो जडगतिर्मृदु गच्छन्सपर्वताम्।

विश्वास-प्रस्तुतिः

साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम्।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ॥९१॥

मूलम्

साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम्।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ॥९१॥

इति विष्णुधर्मेषु वामनस्तवः।