अथ त्रिसप्ततितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
जगत्प्रभुं देवदेवमशेषेशं जनार्दनम्।
प्रणिपत्याहमेतं त्वां यत्पृच्छामि तदुच्यताम् ॥१॥
मूलम्

यैरुपायैः प्रदानैर्वा नराणाममरार्चितः।
प्रीतिमान्पुण्डरीकाक्षो भवत्याचक्ष्व तन्मम ॥२॥

शौनक उवाच।
विश्वास-प्रस्तुतिः
ये स्वधर्मे स्थिता वर्णा विप्राद्याः कुरुनन्दन।
विधर्मेषु न वर्तन्ते प्रीतिमांस्तेषु केशवः ॥३॥

ब्रह्मचारिगृहस्थाद्या न च्यवन्त्याश्रमाच्च ये।
स्वधर्मतो हरिस्तेषां प्रीतिमानेव सर्वदा ॥४॥

ये न दम्भेन वर्तन्ते नरा भूतेष्वलोलुपाः।
त्यक्तग्राम्यादिसङ्गाश्च तेषु प्रीतिः परा हरेः ॥५॥

दातारो नापहर्तारः परस्वानाममायिनः।
ये नरास्तेषु गोविन्दः पुत्रेष्विव सदा हितः ॥६॥

येषां नराणां न मतिर्जिह्वा वासत्यमुज्झति।
ते प्रिया वासुदेवस्य ये च द्विजपरायणाः ॥७॥

कर्मणा मनसा वाचा ये न हिंसानुवर्तिनः।
ते नरा वासुदेवस्य आः पाण्डुकुलोद्वह ॥८॥
मूलम्
कर्मणा मनसा वाचा ये न हिंसानुवर्तिनः।
ते नरा वासुदेवस्य आः पाण्डुकुलोद्वह ॥८॥
विश्वास-प्रस्तुतिः
सर्वदेवेषु ये विष्णुं सर्वभूतेष्ववस्थितम्।
मन्यन्ते वासुदेवस्य ते प्रियाः पुत्रवत्सदा ॥९॥

ब्रह्माद्यं स्थावरान्तं च भूतग्रामं जनार्दनात्।
ये च पश्यन्त्यभेदेन ते विष्णोः सततं प्रियाः ॥१०॥

देववेदद्विजातीनां निन्दायां ये न मानवाः।
प्रीतिभाजो भवन्तीष्टास्ते सदा शार्ङ्गधन्विनः ॥११॥

प्रियाणामथ सर्वेषां देवदेवस्य स प्रियः।
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ॥१२॥

तस्मात्प्रियत्वं कृष्णस्य वाञ्छता निजधर्मजैः।
गुणैरात्मा सदा योज्यो न दूरे गुणिनो हरिः ॥१३॥

येषां न गृद्धिः पारक्ये दारे द्रव्ये च चेतसः।
हिंसायां च मनुष्याणां ते कृष्णेनावलोकिताः ॥१४॥

वेदाः प्रमाणं स्मृतयो येषां सन्मार्गसेविनाम्।
परोपकारसक्तानां ते कृष्णेनावलोकिताः ॥१५॥

कलिकल्मषदोषेण येषां नोपहता मतिः।
पाषण्डानुगता नैव ते कृष्णेनावलोकिताः ॥१६॥

येषां क्लेशो गुरोरर्थे देवविप्रोद्भवोऽपि वा।
न विवित्सासमुद्भूतस्ते कृष्णेनावलोकिताः ॥१७॥

स्वपन्तः संस्थिता यान्तस्तिष्ठन्तश्च जनार्दनम्।
ये चिन्तयन्त्यविरतं ते कृष्णेनावलोकिताः ॥१८॥

यथात्मनि तथापत्ये येषां अद्रोहिणी मतिः।
समस्तसत्त्वजातेषु ते कृष्णेनावलोकिताः ॥१९॥

देवपूजामनुदिनं गुरुविप्रार्थसत्क्रियाम्।
ये कुर्वन्ति नरा विद्धि ते कृष्णेनावलोकिताः ॥२०॥

सुवर्णं रत्नमथवा पारक्यं विजने वने।
विलोक्य नैति यो लोभं तं अवैहि हरेः प्रियम् ॥२१॥

देवान्पितॄंस्तथापन्नानतिथीञ्जामयोऽध्वगान्।
यो बिभर्ति विजानीहि तं नरं भगवत्प्रियम् ॥२२॥

न क्रोधमेति क्रुद्धेभ्यः सहते यो निराक्रियाम्।
तं विजानीहि भर्तव्यं देवदेवस्य शार्ङ्गिनः ॥२३॥

परलोकप्रतीकारकरणाय सदोद्यमम्।
कुर्वन्नालक्ष्यतामेति केशवेनावलोकितः ॥२४॥

नात्मसंस्तवमन्येषां न निन्दां चार्थलिप्सया।
करोति पुरुषव्याघ्र यस्य नारायणो हृदि ॥२५॥

सर्वभूतदयां सत्यमक्रोधं धर्मशीलताम्।
भजन्ते पुरुषा देवे गोविन्दे हृदये स्थिते ॥२६॥

न कलौ न परद्रव्ये परदाराश्रिता मतिः।
नराणां जायते राजन्गोविन्दे हृदयस्थिते ॥२७॥

क्षमां करोति क्रुद्धेषु दयां मूढेषु मानवः।
मुदं च धर्मशीलेषु गोविन्दे हृदये स्थिते ॥२८॥

यदा बिभेत्यधर्मादेर्धर्मादींश्च यदेच्छति।
तदा कुरुवरश्रेष्ठ नरः कृष्णेन वीक्षितः ॥२९॥

पुत्रदारगृहक्षेत्रद्रव्यादेर्ममतां नरः।
नायास्यति जगन्नाथे हृषीकेशे पराङ्मुखे ॥३०॥

कलौ कृतयुगं तेषां क्लेशास्तेषां सुखाधिकाः।
येषां शरीरग्रहणे हरिशुश्रूषणे मतिः ॥३१॥

यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति।
ज्ञेयस्तदा मनुष्येण हृदयेऽस्य हरिः स्थितः ॥३२॥

परमार्थे मतिः पुंसामसारे तु भवार्णवे।
कथं भवति राजेन्द्रविष्वक्सेन पराङ्मुखे ॥३३॥

श्रद्दधानो दयाशीलः समलोष्टाश्मकाञ्चनः।
परार्थे मानवः कृष्णे प्रसन्ने नृप जायते ॥३४॥

वहतोऽपि सदा कृष्णे भक्तिमव्यभिचारिणीम्।
पाणिष्वसमदृग्बुद्धेः सुलभो नैव केशवः ॥३५॥

ये दाम्भिका भिन्नवृत्ता ये च धर्मध्वजोच्छ्रयाः।
दुर्लभो भगवान्देवस्तेषां सुयततामपि ॥३६॥

कामलोभाश्रितं येषां चित्तं क्रोधादिदूषितम्।
तेषां जन्मसहस्रेऽपि न मतिः केशवाश्रया ॥३७॥

हेयां कृष्णाश्रयां वृत्तिं मन्यन्ते हेतुसंश्रिताः।
अवियोपहतज्ञाना येऽज्ञाने ज्ञानमानिनः ॥३८॥

वेदवादविरोधेन कूटयुक्तिमपाश्रिताः।
ये केशवस्तद्धृदये न कदाचित्प्रियातिथिः ॥३९॥

मानुषं तं मनुष्यत्वे मन्यमानाः कुबुद्धयः।
कर्माणि येऽस्य निन्दन्ति न तेषां निष्कृतिर्नृणाम् ॥४०॥

केचिद्वदन्ति तं देवं मनुष्यं चाल्पमेधसः।
तिर्यक्त्वं चापरे विष्णुं मायया तस्य मोहिताः ॥४१॥

देवत्वमपि कृष्णस्य यस्य निन्दा महात्मनः।
स्तुतिं तस्य कथं शक्ताः कर्तुमीशस्य मानवाः ॥४२॥

व्यापित्वं शाश्वतत्वं च जन्मभावविवर्जितम्।
यदास्य प्रोच्यते कास्य स्तुतिरर्थे तथा स्थितौ ॥४३॥

सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितः।
तथापि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ॥४४॥

आब्रह्मस्तम्बपर्यन्ते संसारे यस्य संस्थितिः।
निन्दापि तस्य न नृभिः कर्तुमीशस्य शक्यते ॥४५॥

यदा काणाश्च कूण्ठाश्च मूढो दुर्बुद्धिरातुरः।
सर्वगत्वात्स एवैकस्तदासौ निन्द्यते कथम् ॥४६॥

स्रष्टा पालयिता हर्ता जगतोऽस्य जगच्च सः।
यष्टा याजयिता याज्यः स एव भगवान्हरिः ॥४७॥

दाता दानं तथादाता कर्ता कार्यं तथा क्रियाः।
हन्ता घातयिता हिंस्यो हार्यं हर्ता च यः स्वयम् ॥४८॥

सर्वकारणभूतस्य तस्येशस्य महात्मनः।
कः करोति स्तुतिं विष्णोर्निन्दां वा पृथिवीपते ॥४९॥

तस्मात्सर्वेश्वरो विष्णुर्न स्तोतुं न च निन्दितुम्।
शक्यते सर्वभूतत्वाच्चोक्षाचोक्षस्वरूपिणा ॥५०॥

स्तुतेः पादाद्यतो नान्यदुत्कृष्टमुपलभ्यते।
तस्याप्युच्चारणेनेशो न स्तोतुं शक्यते हरिः ॥५१॥

भूतार्थवादस्तुतये न निन्दायै विधीयते।
यतोऽतः सर्वभूतस्य का निन्दा तस्य का स्तुतिः ॥५२॥

येन सर्वात्मना तत्र हृदयं सन्निवेशितम्।
अपि मौनवतस्तस्य सुलभोऽयं जनार्दनः ॥५३॥
मूलम्
येन सर्वात्मना तत्र हृदयं सन्निवेशितम्।
अपि मौनवतस्तस्य सुलभोऽयं जनार्दनः ॥५३॥
विश्वास-प्रस्तुतिः
तस्मात्त्वं कुरुशार्दूल स्वधर्मपरिपालनम्।
कुरु विष्णुं च हृदये सर्वव्यापिनमीश्वरम् ॥५४॥

तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु।
विष्णोरेवं प्रियत्वं त्वमाशु यास्यसि पार्थिव ॥५५॥

यं स्तुवन्स्तव्यतामेति वन्द्यमानश्च वन्द्यताम्।
तमीश्वरेश्वरं विष्णुं हृदये सन्निवेशय ॥५६॥

सम्पूज्य यं पूज्यतमो भवत्यत्र जगत्त्रये।
तमीश्वरेश्वरं विष्णुं हृदये कुरु पार्थिव ॥५७॥

स्ववर्णकर्माभिरतः कुरु चित्ते जनार्दनम्।
एष शास्त्रार्थसद्भावः किमुक्तैर्बहुविस्तरैः ॥५८॥

यस्मिन्प्रसन्नचित्तस्त्वं यस्मिन्कोपमुपैषि च।
तावुभावपि तद्भूतौ चिन्तयन्सिद्धिमेष्यसि ॥५९॥

यत्र यत्र स्थितं चेतः प्रीत्या स्नेहेन वा तव।
तं तं चिन्तय गोविन्दं मनसः स्थैर्यकारणात् ॥६०॥

स्वपन्विबुद्ध्यन्नुत्तिष्ठन्स्थितो भुञ्जन्पिबन्व्रजन्।
सर्वगं सर्वकर्तारं विष्णुं सर्वत्र चिन्तय ॥६१॥

यथाग्निसङ्गात्कनकमपदोषं प्रजायते।
संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ॥६२॥

यज्विनो यं नमस्यन्ति यं नमस्यन्ति देवताः।
योगिनो यं नमस्यन्ति तं नमस्यं नमाम्यहम् ॥६३॥

इति विष्णुधर्मेषु भक्तिवर्णनम्।