अथैकसप्ततितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
ब्रह्मन्नसारे संसारे रोगादिव्याप्तमानसः।
शब्दादिलुब्धः पुरुषः किं कुर्वन्नावसीदति ॥१॥
मूलम्

शौनक उवाच।
विश्वास-प्रस्तुतिः
स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम्।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥२॥

अप्राणचितिकं ब्रह्म वेदान्तेषु प्रकाशितम्।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ॥३॥

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥४॥

धामत्रयविनिर्मुक्तं सुप्रभातं सुनिर्मलम्।
निष्कलं शाश्वतं देवं विष्णुं ध्यायन्न सीदति ॥५॥

क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ॥६॥

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ॥७॥

अतुलं सुखधर्माणं व्योमदेहं सनातनम्।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥८॥

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः।
अर्चितं भावकुसुमैर्विष्णुं ध्यायन्न सीदति ॥९॥

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसात्म्यताम् ॥१०॥

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ॥११॥

इति विष्णुधर्मेषु विष्ण्वष्टकम्।