अथ सप्ततितमोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम्।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् ॥१॥
मूलम्
इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम्।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् ॥१॥
विश्वास-प्रस्तुतिः
एतयारक्षया रक्षो निर्धूतं भुवि पातितम्।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् ॥२॥
मूलम्
एतयारक्षया रक्षो निर्धूतं भुवि पातितम्।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् ॥२॥
दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम्।
विश्वास-प्रस्तुतिः
पप्रच्छागमने हेतुं तं चाचष्ट यथातथम्।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ॥३॥
मूलम्
पप्रच्छागमने हेतुं तं चाचष्ट यथातथम्।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ॥३॥
विश्वास-प्रस्तुतिः
प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ॥४॥
मूलम्
प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ॥४॥
बहूनि पापानि मया कृतानि बहवो हताः।
विश्वास-प्रस्तुतिः
कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ॥५॥
मूलम्
कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ॥५॥
विश्वास-प्रस्तुतिः
सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ॥६॥
मूलम्
सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ॥६॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥७॥
मूलम्
कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥७॥
राक्षस उवाच।
विश्वास-प्रस्तुतिः
त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ॥८॥
मूलम्
त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ॥८॥
विश्वास-प्रस्तुतिः
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ॥९॥
मूलम्
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ॥९॥
विश्वास-प्रस्तुतिः
स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥१०॥
मूलम्
स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥१०॥
विश्वास-प्रस्तुतिः
इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ॥११॥
मूलम्
इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ॥११॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् ॥१२॥
मूलम्
यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् ॥१२॥
विश्वास-प्रस्तुतिः
करिष्ये यातुधानानां न त्वहं धर्मदेशनाम्।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः ॥१३॥
मूलम्
करिष्ये यातुधानानां न त्वहं धर्मदेशनाम्।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः ॥१३॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः ॥१४॥
मूलम्
एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः ॥१४॥
विश्वास-प्रस्तुतिः
न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥१५॥
मूलम्
न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥१५॥
विश्वास-प्रस्तुतिः
स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् ॥१६॥
मूलम्
स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् ॥१६॥
विश्वास-प्रस्तुतिः
तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् ॥१७॥
मूलम्
तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् ॥१७॥
विश्वास-प्रस्तुतिः
गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥१८॥
मूलम्
गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥१८॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् ॥१९॥
मूलम्
भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् ॥१९॥
राक्षस उवाच।
विश्वास-प्रस्तुतिः
षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥२०॥
मूलम्
षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥२०॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् ॥२१॥
मूलम्
यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् ॥२१॥
विश्वास-प्रस्तुतिः
गुरुमूले तदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् ॥२२॥
मूलम्
गुरुमूले तदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् ॥२२॥
विश्वास-प्रस्तुतिः
स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥२३॥
मूलम्
स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥२३॥
राक्षस उवाच।
विश्वास-प्रस्तुतिः
षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् ॥२४॥
मूलम्
षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् ॥२४॥
विश्वास-प्रस्तुतिः
एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम्।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् ॥२५॥
मूलम्
एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम्।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् ॥२५॥
ब्राह्मण उवाच।
विश्वास-प्रस्तुतिः
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥२६॥
मूलम्
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥२६॥
राक्षस उवाच।
विश्वास-प्रस्तुतिः
मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् ॥२७॥
मूलम्
मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् ॥२७॥
विश्वास-प्रस्तुतिः
आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद ॥२८॥
मूलम्
आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद ॥२८॥
विश्वास-प्रस्तुतिः
यानि पापानि कर्माणि बालत्वाच्चरितानि मे।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥२९॥
मूलम्
यानि पापानि कर्माणि बालत्वाच्चरितानि मे।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥२९॥
विश्वास-प्रस्तुतिः
यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ॥३०॥
मूलम्
यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ॥३०॥
विश्वास-प्रस्तुतिः
न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥३१॥
मूलम्
न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥३१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ॥३२॥
मूलम्
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ॥३२॥
विश्वास-प्रस्तुतिः
विमृश्य सुचिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ॥३३॥
मूलम्
विमृश्य सुचिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ॥३३॥
विश्वास-प्रस्तुतिः
यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥३४॥
मूलम्
यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥३४॥
विश्वास-प्रस्तुतिः
न मातरं न पितरं गौरवेण यथा गुरुम्।
यथाहमवगच्छामि तथा मां पातु पावकः ॥३५॥
मूलम्
न मातरं न पितरं गौरवेण यथा गुरुम्।
यथाहमवगच्छामि तथा मां पातु पावकः ॥३५॥
विश्वास-प्रस्तुतिः
यथा गुरुं न मनसा कर्मणा वचसापि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥३६॥
मूलम्
यथा गुरुं न मनसा कर्मणा वचसापि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥३६॥
शौनक उवाच।
इत्येवं शपथान्सत्यान्कुर्वतस्तस्य तत्पुनः।
विश्वास-प्रस्तुतिः
सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ॥३७॥
मूलम्
सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ॥३७॥
मा भैर्द्विजसुताहं त्वां मोक्षयाम्यतिसङ्कटात् ॥३८॥
विश्वास-प्रस्तुतिः
यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥३९॥
मूलम्
यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥३९॥
विश्वास-प्रस्तुतिः
अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ॥४०॥
मूलम्
अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ॥४०॥
विश्वास-प्रस्तुतिः
श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥४१॥
मूलम्
श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥४१॥
विश्वास-प्रस्तुतिः
प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥४२॥
मूलम्
प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥४२॥
विश्वास-प्रस्तुतिः
हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥४३॥
मूलम्
हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥४३॥
विश्वास-प्रस्तुतिः
विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम्।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥४४॥
मूलम्
विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम्।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥४४॥
विश्वास-प्रस्तुतिः
विष्णुमच्युतमीशानमनन्तमपराजितम्।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥४५॥
मूलम्
विष्णुमच्युतमीशानमनन्तमपराजितम्।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥४५॥
विश्वास-प्रस्तुतिः
चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥४६॥
मूलम्
चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥४६॥
विश्वास-प्रस्तुतिः
गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम्।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥४७॥
मूलम्
गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम्।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥४७॥
विश्वास-प्रस्तुतिः
शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥४८॥
मूलम्
शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥४८॥
विश्वास-प्रस्तुतिः
दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥४९॥
मूलम्
दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥४९॥
विश्वास-प्रस्तुतिः
नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥५०॥
मूलम्
नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥५०॥
विश्वास-प्रस्तुतिः
केशवं केशिहन्तारं कंसारिष्टनिसूदनम्।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥५१॥
मूलम्
केशवं केशिहन्तारं कंसारिष्टनिसूदनम्।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥५१॥
विश्वास-प्रस्तुतिः
श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥५२॥
मूलम्
श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥५२॥
विश्वास-प्रस्तुतिः
यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥५३॥
मूलम्
यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥५३॥
विश्वास-प्रस्तुतिः
समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥५४॥
मूलम्
समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥५४॥
विश्वास-प्रस्तुतिः
सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥५५॥
मूलम्
सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥५५॥
विश्वास-प्रस्तुतिः
परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥५६॥
मूलम्
परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥५६॥
विश्वास-प्रस्तुतिः
पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥५७॥
मूलम्
पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥५७॥
विश्वास-प्रस्तुतिः
ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥५८॥
मूलम्
ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥५८॥
विश्वास-प्रस्तुतिः
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥५९॥
मूलम्
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥५९॥
विश्वास-प्रस्तुतिः
ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥६०॥
मूलम्
ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥६०॥
विश्वास-प्रस्तुतिः
यः पाति सृष्टं च विभुः स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६१॥
मूलम्
यः पाति सृष्टं च विभुः स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६१॥
विश्वास-प्रस्तुतिः
धृता मही हता दैत्याः परित्रातास्तथामराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥६२॥
मूलम्
धृता मही हता दैत्याः परित्रातास्तथामराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥६२॥
विश्वास-प्रस्तुतिः
यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६३॥
मूलम्
यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६३॥
विश्वास-प्रस्तुतिः
वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६४॥
मूलम्
वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६४॥
विश्वास-प्रस्तुतिः
कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत्।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६५॥
मूलम्
कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत्।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६५॥
विश्वास-प्रस्तुतिः
पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६६॥
मूलम्
पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६६॥
विश्वास-प्रस्तुतिः
सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत्।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥६७॥
मूलम्
सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत्।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥६७॥
विश्वास-प्रस्तुतिः
सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६८॥
मूलम्
सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६८॥
विश्वास-प्रस्तुतिः
समस्तदेवाः सकला मानुषाणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६९॥
मूलम्
समस्तदेवाः सकला मानुषाणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६९॥
विश्वास-प्रस्तुतिः
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥७०॥
मूलम्
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥७०॥
विश्वास-प्रस्तुतिः
यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥७१॥
मूलम्
यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥७१॥
विश्वास-प्रस्तुतिः
यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥७२॥
मूलम्
यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥७२॥
विश्वास-प्रस्तुतिः
यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥७३॥
मूलम्
यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥७३॥
विश्वास-प्रस्तुतिः
प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥७४॥
मूलम्
प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥७४॥
विश्वास-प्रस्तुतिः
यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥७५॥
मूलम्
यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥७५॥
विश्वास-प्रस्तुतिः
तिष्ठता व्रजता यच्च शय्यासनगतेन च।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥७६॥
मूलम्
तिष्ठता व्रजता यच्च शय्यासनगतेन च।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥७६॥
विश्वास-प्रस्तुतिः
अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात्।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥७७॥
मूलम्
अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात्।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥७७॥
विश्वास-प्रस्तुतिः
परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥७८॥
मूलम्
परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥७८॥
विश्वास-प्रस्तुतिः
यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥७९॥
मूलम्
यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥७९॥
विश्वास-प्रस्तुतिः
यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥८०॥
मूलम्
यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥८०॥
विश्वास-प्रस्तुतिः
तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥८१॥
मूलम्
तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥८१॥
विश्वास-प्रस्तुतिः
विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥८२॥
मूलम्
विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥८२॥
विश्वास-प्रस्तुतिः
इदं सारस्वतं स्तोत्रमशेषाघविनाशनम्।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥८३॥
मूलम्
इदं सारस्वतं स्तोत्रमशेषाघविनाशनम्।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥८३॥
विश्वास-प्रस्तुतिः
इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम्।
जपत्येकमनाः पापं समस्तं स व्यपोहति ॥८४॥
मूलम्
इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम्।
जपत्येकमनाः पापं समस्तं स व्यपोहति ॥८४॥
विश्वास-प्रस्तुतिः
यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥८५॥
मूलम्
यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥८५॥
विश्वास-प्रस्तुतिः
शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ॥८६॥
मूलम्
शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ॥८६॥
विश्वास-प्रस्तुतिः
महापातकमल्पं वा तथा यच्चोपपातकम्।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥८७॥
मूलम्
महापातकमल्पं वा तथा यच्चोपपातकम्।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥८७॥
विश्वास-प्रस्तुतिः
विप्राय सुविशिष्टाय तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥८८॥
मूलम्
विप्राय सुविशिष्टाय तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥८८॥
विश्वास-प्रस्तुतिः
अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥८९॥
मूलम्
अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥८९॥
यथैनं पठति नित्यं स्तवं सारस्वतं पुमान्।
अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि।
विश्वास-प्रस्तुतिः
यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥९०॥
मूलम्
यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥९०॥
विश्वास-प्रस्तुतिः
एवमुच्चारिते मुक्तः स तदा तेन रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥९१॥
मूलम्
एवमुच्चारिते मुक्तः स तदा तेन रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥९१॥
विश्वास-प्रस्तुतिः
एतद्भद्रमुखाख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥९२॥
मूलम्
एतद्भद्रमुखाख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥९२॥
विश्वास-प्रस्तुतिः
हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ॥९३॥
मूलम्
हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ॥९३॥
विश्वास-प्रस्तुतिः
अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ॥९४॥
मूलम्
अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ॥९४॥
विश्वास-प्रस्तुतिः
अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ॥९५॥
मूलम्
अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ॥९५॥
विश्वास-प्रस्तुतिः
स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ॥९६॥
मूलम्
स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ॥९६॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः।
शालग्रामं महाराज तदैव तपसे ययौ ॥९७॥
मूलम्
ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः।
शालग्रामं महाराज तदैव तपसे ययौ ॥९७॥
विश्वास-प्रस्तुतिः
तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ॥९८॥
मूलम्
तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ॥९८॥
विश्वास-प्रस्तुतिः
आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥९९॥
मूलम्
आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥९९॥
विश्वास-प्रस्तुतिः
तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम्।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् ॥१००॥
मूलम्
तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम्।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् ॥१००॥
विश्वास-प्रस्तुतिः
य एतत्परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१०१॥
मूलम्
य एतत्परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१०१॥
इति विष्णुधर्मेषु सारस्वतस्तवः।