अथैकोनसप्ततितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
पापं प्रणश्यते येन पुण्यं येन विवर्धते।
यज्जपन्सुगतिं याति शृण्वंश्च मम तद्वद ॥१॥
मूलम्

शौनक उवाच।
विश्वास-प्रस्तुतिः
कश्चिदासीद्द्विजद्रोग्धा पिशुनः क्षत्रियाधमः।
परपीडारुचिर्दुष्टः स्वभावादेव निर्घृणः ॥२॥

परिभूताः सदा तेन पितृदेवद्विजातयः।
परदारेषु चैवास्य बभूवाभिरतं मनः ॥३॥
मूलम्
परिभूताः सदा तेन पितृदेवद्विजातयः।
परदारेषु चैवास्य बभूवाभिरतं मनः ॥३॥
विश्वास-प्रस्तुतिः
त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः।
तेन वै कर्मदोषेण स्वेन पापकृतां वरः ॥४॥
मूलम्
त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः।
तेन वै कर्मदोषेण स्वेन पापकृतां वरः ॥४॥
विश्वास-प्रस्तुतिः
क्रूरैरेव ततो वृत्तिं राक्षसत्वे विशेषतः।
चकार कर्मभिः पापः सर्वप्राणिविहिंसकः ॥५॥

तस्य पापरतस्यैवं जग्मुर्वर्षशतानि वै।
तेन वै कर्मदोषेण नान्या वृत्तिररोचत ॥६॥
मूलम्
तस्य पापरतस्यैवं जग्मुर्वर्षशतानि वै।
तेन वै कर्मदोषेण नान्या वृत्तिररोचत ॥६॥
विश्वास-प्रस्तुतिः
यद्यत्पश्यति सत्त्वं स तत्तदादाय राक्षसः।
चखाद पुरुषव्याघ्र बाहुगोचरमागतम् ॥७॥

एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम्।
जगाम सुमहान्कालः परिणामं तथा वयः ॥८॥

स ददर्श तपस्यन्तं तापसं संश्रितव्रतम्।
ऊर्ध्वबाहुं महाभागं कृतरक्षं समन्ततः ॥९॥

तं दृष्ट्वा स तु दुर्बुद्धिर्ब्राह्मणं राक्षसाधमः।
समभ्यधावद्वेगेन समादातुं चिखादिषुः ॥१०॥

तेन रक्षा च या दिक्षु ब्राह्मणेनाभवत्कृता।
तया निरस्तं तद्रक्षो निपपाताविदूरतः ॥११॥
मूलम्
तेन रक्षा च या दिक्षु ब्राह्मणेनाभवत्कृता।
तया निरस्तं तद्रक्षो निपपाताविदूरतः ॥११॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः।
यया निर्धूतवीर्योऽसौ निरस्तो रजनीचरः ॥१२॥
मूलम्
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः।
यया निर्धूतवीर्योऽसौ निरस्तो रजनीचरः ॥१२॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एकाग्रचित्तो गोविन्दे तज्जपंस्तत्परायणः।
तपश्चचार विप्रोऽसौ प्रविष्टो विष्णुपञ्जरम् ॥१३॥
मूलम्
एकाग्रचित्तो गोविन्दे तज्जपंस्तत्परायणः।
तपश्चचार विप्रोऽसौ प्रविष्टो विष्णुपञ्जरम् ॥१३॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर।
सदा सर्वभयेभ्यस्तु रक्षा या परमाभवत् ॥१४॥
मूलम्
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर।
सदा सर्वभयेभ्यस्तु रक्षा या परमाभवत् ॥१४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरः।
शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितः ॥१५॥

वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः।
तस्य रूपं प्रवक्ष्यामि तन्निबोध महीपते ॥१६॥

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे ॥१७॥

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः।
क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥१८॥

क्षुरान्तममलं चक्रं भ्रमत्येतत्सुदर्शनम्।
अस्यांशुमाला दुःप्रेक्षा हन्तु प्रेतनिशाचरान् ॥१९॥

गदा चेयं सहस्रार्चिरुद्वमत्पावकोल्वणा।
रक्षोभूतपिशाचानां डाकिणीनां च नाशनी ॥२०॥

शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून्।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः ॥२१॥

खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये समाहताः।
ते यान्तु सौम्यतं सद्यो गरुडेनेव पन्नगाः ॥२२॥

ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः।
प्रेता विनायकाः क्रूरा मनुष्या जम्भकाः खगाः ॥२३॥

सिंहादयो ये पशवो दन्दसूकाश्च पन्नगाः।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥२४॥

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः।
बलौजसां च हर्तारश्छायाविभ्रंशकाश्च ये ॥२५॥

ये चोपभोगहर्तारो ये च लक्षणनाशकाः।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः ॥२६॥

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥२७॥

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणगश्चास्तु जनार्दनो हरिः।
तदीड्यमीशानमनन्तमीश्वरं जनार्दनं प्रणिपतितो न सीदति ॥२८॥

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् ॥२९॥

इति विष्णुधर्मेषु विष्णुपञ्जरस्तवः।