०६७

अथ सप्तषष्टितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

मया हि देवदेवस्य विष्णोरमिततेजसः।
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत ॥१॥

मूलम्

मया हि देवदेवस्य विष्णोरमिततेजसः।
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत ॥१॥

विश्वास-प्रस्तुतिः

यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि।
तदहं श्रोतुमिच्छामि नॄणां दुःस्वप्ननाशनम् ॥२॥

मूलम्

यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि।
तदहं श्रोतुमिच्छामि नॄणां दुःस्वप्ननाशनम् ॥२॥

विश्वास-प्रस्तुतिः

स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ॥३॥

मूलम्

स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ॥३॥

विश्वास-प्रस्तुतिः

यद्यत्पुण्यं पवित्रं च नॄणामतिशुभप्रदम्।
दुःस्वप्नोपशमायालं तन्मे विस्तरतो वद ॥४॥

मूलम्

यद्यत्पुण्यं पवित्रं च नॄणामतिशुभप्रदम्।
दुःस्वप्नोपशमायालं तन्मे विस्तरतो वद ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥५॥

मूलम्

इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥५॥

विश्वास-प्रस्तुतिः

देवव्रतं महाप्राज्ञं सर्वशास्त्रविशारदम्।
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः ॥६॥

मूलम्

देवव्रतं महाप्राज्ञं सर्वशास्त्रविशारदम्।
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः ॥६॥

युधिष्ठिर उवाच।

विश्वास-प्रस्तुतिः

दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ।
प्रयतः किं जपेज्जप्यं विबुद्धः किमनुस्मरेत् ॥७॥

मूलम्

दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ।
प्रयतः किं जपेज्जप्यं विबुद्धः किमनुस्मरेत् ॥७॥

विश्वास-प्रस्तुतिः

पितामह महाबुद्धे बुद्धेर्भेदो महानयम्।
तदहं श्रोतुमिच्छामि ब्रूहि मे वदतां वर ॥८॥

मूलम्

पितामह महाबुद्धे बुद्धेर्भेदो महानयम्।
तदहं श्रोतुमिच्छामि ब्रूहि मे वदतां वर ॥८॥

भीष्म उवाच।

विश्वास-प्रस्तुतिः

शृणु राजन्महाबाहो वर्तयिष्यामि तेऽखिलम्।
दुःस्वप्नदर्शने जप्यं यद्वै नित्यं समाहितैः ॥९॥

मूलम्

शृणु राजन्महाबाहो वर्तयिष्यामि तेऽखिलम्।
दुःस्वप्नदर्शने जप्यं यद्वै नित्यं समाहितैः ॥९॥

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गजेन्द्रमोक्षणं पुण्यं कृष्णस्याक्लिष्टकर्मणः ॥१०॥

मूलम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गजेन्द्रमोक्षणं पुण्यं कृष्णस्याक्लिष्टकर्मणः ॥१०॥

विश्वास-प्रस्तुतिः

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥११॥

मूलम्

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥११॥

विश्वास-प्रस्तुतिः

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥१२॥

मूलम्

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥१२॥

अप्सरोभिः समाकीर्णः श्रीमान्प्रस्रवणाकुलः।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः।
विद्याधरैः सपत्निकैः संयतैश्च तपस्विभिः।

विश्वास-प्रस्तुतिः

मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः।
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः ॥१४॥

मूलम्

मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः।
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः ॥१४॥

विश्वास-प्रस्तुतिः

चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः।
शालैस्तालैस्तमालैश्च कुटजैश्चार्जुनैस्तथा ॥१५॥

मूलम्

चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः।
शालैस्तालैस्तमालैश्च कुटजैश्चार्जुनैस्तथा ॥१५॥

विश्वास-प्रस्तुतिः

एवं बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः।
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः ॥१६॥

मूलम्

एवं बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः।
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः ॥१६॥

विश्वास-प्रस्तुतिः

मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः।
जीवञ्जीवकसङ्घुष्टं चकोरशिखिनादितम् ॥१७॥

मूलम्

मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः।
जीवञ्जीवकसङ्घुष्टं चकोरशिखिनादितम् ॥१७॥

विश्वास-प्रस्तुतिः

तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवादरः।
नानापुष्पसमाकीर्णं नानागन्धसमाकुलम् ॥१८॥

मूलम्

तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवादरः।
नानापुष्पसमाकीर्णं नानागन्धसमाकुलम् ॥१८॥

विश्वास-प्रस्तुतिः

द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् ॥१९॥

मूलम्

द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् ॥१९॥

विश्वास-प्रस्तुतिः

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः।
ऋतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥२०॥

मूलम्

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः।
ऋतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥२०॥

विश्वास-प्रस्तुतिः

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
नातप्ततपसः शैलं तं वै पश्यन्ति मानवाः ॥२१॥

मूलम्

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
नातप्ततपसः शैलं तं वै पश्यन्ति मानवाः ॥२१॥

विश्वास-प्रस्तुतिः

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम्।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥२२॥

मूलम्

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम्।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥२२॥

विश्वास-प्रस्तुतिः

मत्तभ्रमरसङ्घुष्टं फुल्लपङ्कजशोभितम्।
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् ॥२३॥

मूलम्

मत्तभ्रमरसङ्घुष्टं फुल्लपङ्कजशोभितम्।
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् ॥२३॥

उत्पलैः शतपत्त्रैश्च काञ्चनैः समलङ्कृतम्।

विश्वास-प्रस्तुतिः

पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः।
गुल्मैः कीचकवेणूनां समन्तात्परिवारितम् ॥२४॥

मूलम्

पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः।
गुल्मैः कीचकवेणूनां समन्तात्परिवारितम् ॥२४॥

विश्वास-प्रस्तुतिः

तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः।
आसीद्ग्राहो गजेन्द्राणां दुराधर्षो महाबलः ॥२५॥

मूलम्

तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः।
आसीद्ग्राहो गजेन्द्राणां दुराधर्षो महाबलः ॥२५॥

विश्वास-प्रस्तुतिः

अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः।
आजगामासिताभ्राभः करेणुपरिवारितः ॥२६॥

मूलम्

अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः।
आजगामासिताभ्राभः करेणुपरिवारितः ॥२६॥

विश्वास-प्रस्तुतिः

मदस्रावी महारौद्रः पादचारीव पर्वतः।
वासयन्मदगन्धेन गिरिमैरावतोपमः ॥२७॥

मूलम्

मदस्रावी महारौद्रः पादचारीव पर्वतः।
वासयन्मदगन्धेन गिरिमैरावतोपमः ॥२७॥

स गजोऽञ्जनसङ्काशो मदाच्चलितमानसः।
गन्धहस्तीति विख्यातः सरः समभिगम्य तत्।
तृषितः स जलं प्राप्य कुसुमाकरशीतलम्।

विश्वास-प्रस्तुतिः

अपिबत्सहसा राजन्करेणुपरिवारितः।
सलीलं पङ्कजवने यूथमध्यगतोऽव्रजत् ॥२८॥

मूलम्

अपिबत्सहसा राजन्करेणुपरिवारितः।
सलीलं पङ्कजवने यूथमध्यगतोऽव्रजत् ॥२८॥

विश्वास-प्रस्तुतिः

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥२९॥

मूलम्

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥२९॥

क्रियते पङ्कजवने ग्राहेणातिबलीयसा।
गजश्चाकर्षते तीरं ग्राहश्चाकर्षते जलम्।
द्वन्द्व महायुद्धं दिव्यवर्षसहस्रिकम्।

विश्वास-प्रस्तुतिः

वारुणैः संयतः पाशैर्निःप्रयत्नगतिः कृतः।
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ॥३०॥

मूलम्

वारुणैः संयतः पाशैर्निःप्रयत्नगतिः कृतः।
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ॥३०॥

विश्वास-प्रस्तुतिः

विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान्।
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा ॥३१॥

मूलम्

विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान्।
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा ॥३१॥

विश्वास-प्रस्तुतिः

परमापदमापन्नो मनसाचिन्तयद्धरिम्।
स तु नागवरः श्रीमान्नारायणपरायणः ॥३२॥

मूलम्

परमापदमापन्नो मनसाचिन्तयद्धरिम्।
स तु नागवरः श्रीमान्नारायणपरायणः ॥३२॥

विश्वास-प्रस्तुतिः

तमेव परमं देवं गतः सर्वात्मना तदा।
एकाग्रं चिन्तयामास विशुद्धेनान्तरात्मना ॥३३॥

मूलम्

तमेव परमं देवं गतः सर्वात्मना तदा।
एकाग्रं चिन्तयामास विशुद्धेनान्तरात्मना ॥३३॥

विश्वास-प्रस्तुतिः

जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे।
आद्यं देवं महात्मानं पूजयामास केशवम् ॥३४॥

मूलम्

जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे।
आद्यं देवं महात्मानं पूजयामास केशवम् ॥३४॥

विश्वास-प्रस्तुतिः

नवमेघप्रतीकाशं शङ्खचक्रगदाधरम्।
सहस्रशुभनामानमादिदेवमजं परम् ॥३५॥

मूलम्

नवमेघप्रतीकाशं शङ्खचक्रगदाधरम्।
सहस्रशुभनामानमादिदेवमजं परम् ॥३५॥

दिग्बाहुं सर्वमूर्धानं भूपादं गगनोदरम्।
आदित्यचन्द्रनयनं समग्रं लोकसाक्षिणम्।
भगवन्तं प्रसन्नोऽहं विष्णुमप्रतिमौजसम्।

विश्वास-प्रस्तुतिः

प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम्।
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् ॥३६॥

मूलम्

प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम्।
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् ॥३६॥

विश्वास-प्रस्तुतिः

गजेन्द्रउवाच।
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥१॥

मूलम्

गजेन्द्रउवाच।
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥१॥

अनाश्रिताय देवाय निःस्पृहाय नमो नमः ॥२॥

नम आद्याय बीजाय शिवाय च प्रशान्ताय ॥३॥

आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने ॥४॥

अनन्तराय चैकाय सनातनाय पूर्वाय ॥५॥

अव्यक्ताय नमो नमः पुराणाय नमो नमः ॥६॥

नमो गुह्याय गूढाय ॥७॥

गुणायागुणवर्तिने ॥८॥

अतर्क्यायाप्रमेयाय ॥९॥

अनन्ताय नमो नमः ॥१०॥

नमो देवातिदेवाय ॥११॥

अप्रभाय नमो नमः ॥१२॥

नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः ॥१३॥

नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च ॥१४॥

विश्वेश्वराय देवाय शिवाय हरये नमः ॥१५॥

नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ॥१६॥

नारायणाय विश्वाय देवानां परमात्मने ॥१७॥

विश्वास-प्रस्तुतिः

नमो नमः कारणवामनाय नारायणायामितविक्रमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३७॥

मूलम्

नमो नमः कारणवामनाय नारायणायामितविक्रमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३७॥

आद्याय वेदनिलयाय महोदराय।
सिंहाय दैत्यनिधनाय चतुर्भुजाय।

विश्वास-प्रस्तुतिः

ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय।
देवोत्तमाय वरदाय नमोऽच्युताय ॥३८॥

मूलम्

ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय।
देवोत्तमाय वरदाय नमोऽच्युताय ॥३८॥

नागेन्द्रभोगशयनासनसुप्रियाय।
गोक्षीरहेमशुकनीलघनोपमाय।
पीताम्बराय मधुकैटभनाशनाय।

विश्वास-प्रस्तुतिः

विश्वाय चारुमुकुटाय नमोऽक्षराय।
भक्तिप्रियाय वरदीप्तसुदर्शनाय ॥३९॥

मूलम्

विश्वाय चारुमुकुटाय नमोऽक्षराय।
भक्तिप्रियाय वरदीप्तसुदर्शनाय ॥३९॥

नाभिप्रजातकमलस्थचतुर्मुखाय।
क्षीरोदकार्णवनिकेतयशोधनाय।

विश्वास-प्रस्तुतिः

नानाविचित्रमुकुटाङ्गदभूषणाय।
सर्वेश्वराय वरदाय नमो वराय ॥४०॥

मूलम्

नानाविचित्रमुकुटाङ्गदभूषणाय।
सर्वेश्वराय वरदाय नमो वराय ॥४०॥

विश्वात्मने परमकारणकारणाय।
फुल्लारविन्दविमलायतलोचनाय।

विश्वास-प्रस्तुतिः

देवेन्द्रदानवपरीक्षितपौरुषाय।
योगेश्वराय विजयाय नमो वराय ॥४१॥

मूलम्

देवेन्द्रदानवपरीक्षितपौरुषाय।
योगेश्वराय विजयाय नमो वराय ॥४१॥

विश्वास-प्रस्तुतिः

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय।
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ॥४२॥

मूलम्

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय।
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ॥४२॥

विश्वास-प्रस्तुतिः

अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम्।
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥४३॥

मूलम्

अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम्।
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥४३॥

योगेश्वरं चारुविचित्रमौलिमाज्ञेयमौख्यं प्रकृतेः परस्थम्।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये।

विश्वास-प्रस्तुतिः

अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मविदः सुरेशम्।
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥४४॥

मूलम्

अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मविदः सुरेशम्।
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥४४॥

यदक्षरं ब्रह्म वदन्ति सर्वगं।
निशाम्य यं मृत्युमुखात्प्रमुच्यते।

विश्वास-प्रस्तुतिः

तमीश्वरं तृप्तमनोपमैर्गुणैः।
परायणं विष्णुमुपैमि शाश्वतम् ॥४५॥

मूलम्

तमीश्वरं तृप्तमनोपमैर्गुणैः।
परायणं विष्णुमुपैमि शाश्वतम् ॥४५॥

विश्वास-प्रस्तुतिः

कार्यं क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम्।
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥४६॥

मूलम्

कार्यं क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम्।
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥४६॥

विश्वास-प्रस्तुतिः

विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम्।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥४७॥

मूलम्

विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम्।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥४७॥

भवोद्भवं वेदविदां वरिष्ठं।
योगात्मानं साङ्ख्यविदां वरिष्ठम्।

विश्वास-प्रस्तुतिः

आदित्यचन्द्राश्विवसुप्रभावं।
प्रभुं प्रपद्येऽच्युतमात्मभूतम् ॥४८॥

मूलम्

आदित्यचन्द्राश्विवसुप्रभावं।
प्रभुं प्रपद्येऽच्युतमात्मभूतम् ॥४८॥

विश्वास-प्रस्तुतिः

श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम्।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ॥४९॥

मूलम्

श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम्।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ॥४९॥

विश्वास-प्रस्तुतिः

प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम्।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥५०॥

मूलम्

प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम्।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥५०॥

विश्वास-प्रस्तुतिः

भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम्।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥५१॥

मूलम्

भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम्।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥५१॥

विश्वास-प्रस्तुतिः

त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम्।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥५२॥

मूलम्

त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम्।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥५२॥

आदिदेवमजं शम्भुं व्यक्ताव्यक्तं जनार्दनम्।

विश्वास-प्रस्तुतिः

क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम्।
नारायणमणीयांसं प्रपद्ये परमेश्वरम् ॥५३॥

मूलम्

क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम्।
नारायणमणीयांसं प्रपद्ये परमेश्वरम् ॥५३॥

विश्वास-प्रस्तुतिः

एकाय लोकत्रयाय परतः परमात्मने।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥५४॥

मूलम्

एकाय लोकत्रयाय परतः परमात्मने।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥५४॥

विश्वास-प्रस्तुतिः

वरेण्यमनघं देवमृषयो वेदपारगाः।
कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ॥५५॥

मूलम्

वरेण्यमनघं देवमृषयो वेदपारगाः।
कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ॥५५॥

विश्वास-प्रस्तुतिः

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥५६॥

मूलम्

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥५६॥

भीष्म उवाच।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यामोघसंस्तवम्।

विश्वास-प्रस्तुतिः

प्रीतिमानभवद्राजञ्शङ्खचक्रगदाधरः।
सान्निध्यं कल्पयामास तस्मिन्सरसि माधवः ॥५७॥

मूलम्

प्रीतिमानभवद्राजञ्शङ्खचक्रगदाधरः।
सान्निध्यं कल्पयामास तस्मिन्सरसि माधवः ॥५७॥

विश्वास-प्रस्तुतिः

ग्राहग्रस्तं गजं तं च सङ्गृह्य सलिलाशयात्।
उज्जहाराप्रमेयात्मा तरसैवारिसूदनः ॥५८॥

मूलम्

ग्राहग्रस्तं गजं तं च सङ्गृह्य सलिलाशयात्।
उज्जहाराप्रमेयात्मा तरसैवारिसूदनः ॥५८॥

विश्वास-प्रस्तुतिः

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ॥५९॥

मूलम्

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ॥५९॥

स हि देवलशापेन हूहू गन्धर्वसत्तमः।

विश्वास-प्रस्तुतिः

गजत्वमगमत्कृष्णान्मोक्षं प्राप्य दिवं गतः।
शापाद्विमुक्तः सद्यश्च गजो गन्धर्वतां गतः ॥६०॥

मूलम्

गजत्वमगमत्कृष्णान्मोक्षं प्राप्य दिवं गतः।
शापाद्विमुक्तः सद्यश्च गजो गन्धर्वतां गतः ॥६०॥

विश्वास-प्रस्तुतिः

ग्राहोऽपि यक्षतां यातो यः कृष्णेन निपातितः।
तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् ॥६१॥

मूलम्

ग्राहोऽपि यक्षतां यातो यः कृष्णेन निपातितः।
तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् ॥६१॥

विश्वास-प्रस्तुतिः

प्रीतिमांस्त्राति गोविन्दः सद्यः संसारसागरात्।
क्रुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ॥६२॥

मूलम्

प्रीतिमांस्त्राति गोविन्दः सद्यः संसारसागरात्।
क्रुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ॥६२॥

विश्वास-प्रस्तुतिः

तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम्।
गन्धर्वराट्तथा यक्षः परां निर्वृतिमागतौ ॥६३॥

मूलम्

तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम्।
गन्धर्वराट्तथा यक्षः परां निर्वृतिमागतौ ॥६३॥

विश्वास-प्रस्तुतिः

इदं चैव महाबाहो देवदेवोऽभ्यभाषत।
दृष्ट्वा मुक्तौ गजग्रहौ भगवान्मधुसूदनः ॥६४॥

मूलम्

इदं चैव महाबाहो देवदेवोऽभ्यभाषत।
दृष्ट्वा मुक्तौ गजग्रहौ भगवान्मधुसूदनः ॥६४॥

विश्वास-प्रस्तुतिः

यो ग्राहं नागराजं च मां चैव प्रणिधानवान्।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ॥६५॥

मूलम्

यो ग्राहं नागराजं च मां चैव प्रणिधानवान्।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ॥६५॥

विश्वास-प्रस्तुतिः

गुल्मं कीचकवेणूनां तं च शैलवरं तथा।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥६६॥

मूलम्

गुल्मं कीचकवेणूनां तं च शैलवरं तथा।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥६६॥

विश्वास-प्रस्तुतिः

संस्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये।
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥६७॥

मूलम्

संस्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये।
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥६७॥

सर्वपापैः प्रमोक्ष्यन्ते कल्याणानां च भागिनः।

विश्वास-प्रस्तुतिः

भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः।
दुःस्वप्नं च नृणां तेषां सुस्वप्नं च भविष्यति ॥६८॥

मूलम्

भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः।
दुःस्वप्नं च नृणां तेषां सुस्वप्नं च भविष्यति ॥६८॥

विश्वास-प्रस्तुतिः

कौर्मं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च।
नारसिंहं तथा रूपं सृष्टिसंहारकारकम् ॥६९॥

मूलम्

कौर्मं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च।
नारसिंहं तथा रूपं सृष्टिसंहारकारकम् ॥६९॥

विश्वास-प्रस्तुतिः

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥७०॥

मूलम्

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥७०॥

भीष्म उवाच।

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु राजेन्द्रदेवदेवो जनार्दनः।
अस्पृशद्गजगन्धर्वं ग्राहयक्षं च तं तदा ॥७१॥

मूलम्

एवमुक्त्वा तु राजेन्द्रदेवदेवो जनार्दनः।
अस्पृशद्गजगन्धर्वं ग्राहयक्षं च तं तदा ॥७१॥

विश्वास-प्रस्तुतिः

तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ।
विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् ॥७२॥

मूलम्

तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ।
विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् ॥७२॥

ततो देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम्।

विश्वास-प्रस्तुतिः

ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥७३॥

मूलम्

ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥७३॥

गजेन्द्रमोक्षणं दृष्ट्वा सर्वे चेन्द्रपुरोगमाः।
ब्रह्माणमग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन्।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम्।
विस्मयोत्फुल्लनयनाः प्रजापतिपुरःसराः।
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः।
प्राप्नुयात्परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति।

विश्वास-प्रस्तुतिः

गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रमोचनम्।
श्रावयेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥७५॥

मूलम्

गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रमोचनम्।
श्रावयेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥७५॥

विश्वास-प्रस्तुतिः

श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च।
गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् ॥७६॥

मूलम्

श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च।
गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् ॥७६॥

विश्वास-प्रस्तुतिः

मया ते कथितं दिव्यं पवित्रं पापनाशनम्।
कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ॥७७॥

मूलम्

मया ते कथितं दिव्यं पवित्रं पापनाशनम्।
कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ॥७७॥

शौनक उवाच।
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम्।

विश्वास-प्रस्तुतिः

गजेन्द्रमोक्षणं श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
भीष्माद्भगीरथीपुत्रात्पूजयामास केशवम् ॥७८॥

मूलम्

गजेन्द्रमोक्षणं श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
भीष्माद्भगीरथीपुत्रात्पूजयामास केशवम् ॥७८॥

विश्वास-प्रस्तुतिः

ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः।
तेऽपि भीष्मस्य पार्श्वस्थं वासुदेवं प्रणेमिरे ॥७९॥

मूलम्

ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः।
तेऽपि भीष्मस्य पार्श्वस्थं वासुदेवं प्रणेमिरे ॥७९॥

वरं वरेण्यं वरपद्मनाभं।
नारायणं ब्रह्मनिधिं सुरेशम्।

विश्वास-प्रस्तुतिः

तं देवगुह्यं पुरुषं पुराणं।
ववन्दिरे ब्रह्मविदां वरिष्ठम् ॥८०॥

मूलम्

तं देवगुह्यं पुरुषं पुराणं।
ववन्दिरे ब्रह्मविदां वरिष्ठम् ॥८०॥

एतत्पुण्यं महाराज नराणां पापकर्मणाम्।

विश्वास-प्रस्तुतिः

दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ॥८१॥

मूलम्

दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ॥८१॥

विश्वास-प्रस्तुतिः

तथा त्वमपि राजेन्द्रप्रपद्य शरणं हरिम्।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥८२॥

मूलम्

तथा त्वमपि राजेन्द्रप्रपद्य शरणं हरिम्।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥८२॥

इति विष्णुधर्मेषु गजेन्द्रमोक्षणस्तवः।