०६६

अथ षट्षष्टितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

जगद्धातुरनन्तस्य वासुदेवस्य भार्गव।
ममावतारानखिलाञ्श्रोतुमिच्छा प्रवर्तते ॥१॥

मूलम्

यथा यथा हि कृष्णस्य कथेयं कथ्यते त्वया।
जायते मनसः प्रीतिरुद्भूतपुलकस्तथा ॥२॥

मूलम्

यथा यथा हि कृष्णस्य कथेयं कथ्यते त्वया।
जायते मनसः प्रीतिरुद्भूतपुलकस्तथा ॥२॥

विश्वास-प्रस्तुतिः

मनःप्रीतिरनायासादपुण्यचयसङ्क्षयः।
प्राप्यते पुरुषैर्ब्रह्मञ्शृण्वद्भिर्भगवत्कथाम् ॥३॥

स कुरुष्वामलमते प्रसादप्रवणं मनः।
अवतारान्सुरेशस्य विष्णोरिच्छामि वेदितुम् ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

जगद्गुरुं जगद्योनिमनन्तमुदकेशयम्।
नारायणं पुराकल्पे पृष्टवान्कमलोद्भवः ॥५॥

विनिर्जग्मुर्मुखेभ्यस्तु ब्रह्मणो व्यक्तजन्मनः।
ॐकारप्रवणा वेदा जग्मुस्ते च रसातलम् ॥६॥

एकार्णवे जगत्यस्मिन्ब्रह्मण्यमिततेजसि।
कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि ॥७॥

मूलम्

एकार्णवे जगत्यस्मिन्ब्रह्मण्यमिततेजसि।
कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि ॥७॥

विश्वास-प्रस्तुतिः

भोगिशय्याशयः कृष्णो द्वितीयान्तनुमात्मनः।
कृत्वा मीनमयीं सद्यः प्रविवेश रसातलम् ॥८॥

वेदमूर्तिस्ततो वेदानानिन्ये ब्रह्मणोऽन्तिकम्।

विश्वास-प्रस्तुतिः

मधुकैटभाभ्यां च पुनर्भोगिशय्यागतो हरिः।
हृतान्हयशिरा भूत्वा वेदानाहृतवान्रसात् ॥९॥

आहृतेष्वथ वेदेषु देवदेवं पितामहः।
तुष्टाव प्रणतो भक्त्या तस्य चाविर्बभौ हरिः ॥१०॥

अथामरगुरुं विष्णुमनन्तमजमव्ययम्।
उवाच प्रकटीभूतं प्रणिपत्याब्जसम्भवः ॥११॥

ब्रह्मोवाच।

विश्वास-प्रस्तुतिः

नमः सूक्ष्मातिसूक्ष्माय नमस्तुभ्यं त्रिमूर्तये।
बहुरूपादिमध्यान्त परिणामविवर्जित ॥१२॥

जगदीशस्य सर्वस्य जगतः सर्वकामद।
अहमात्मभवो देव त्वयाध्यक्षो निरूपितः ॥१३॥

सोऽहमिच्छामि तं ज्ञातुमात्मानं प्रभवाव्ययम्।
विश्वस्य च विरूपस्य स्थावरस्य चरस्य च ॥१४॥

यदि तेऽनुग्रहकृता मयि बुद्धिर्जनार्दन।
तन्मां भक्त इति ज्ञात्वा कथयात्मानमच्युत ॥१५॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

कथयामि तवात्मानमनाख्यागोदरं परम्।
न वाचां विषये योऽसावविशेषणलक्षणः ॥१६॥

मूलम्

कथयामि तवात्मानमनाख्यागोदरं परम्।
न वाचां विषये योऽसावविशेषणलक्षणः ॥१६॥

विश्वास-प्रस्तुतिः

प्रसादसुमुखः सोऽहमिमं यच्छामि ते वरम्।
अनाख्यातस्वरूपं मां भवाञ्ज्ञास्यति योगतः ॥१७॥

भक्तो मां तत्त्वतो वेत्ति मयि भक्तिश्च ते परा।
मज्जिज्ञासा परा ब्रह्मंस्तेन जाता मतिस्तव ॥१८॥

एवमुक्तस्ततो ब्रह्मा विष्णुना प्रभविष्णुना।
विष्णोः स्वरूपं जिज्ञासुर्युयोजात्मानमात्मना ॥१९॥

स ददर्शातिसूक्ष्मं च सूक्ष्मज्योतिष्यजं विभुम्।
नियुतार्धार्धमात्रेण व्याप्ताशेषचराचरम् ॥२०॥

आत्मानमिन्द्ररुद्रार्कचन्द्राश्विवसुमारुतान्।
खादीन्यथ च शब्दादीन्ददृशे च स तन्मयान् ॥२१॥

ये व्यक्ता ये तथाव्यक्ता भावा ये चापि पौरुषाः।
तांश्च तत्रातिसूक्ष्मोऽपि दृष्टवानखिलान्विभुः ॥२२॥

ततः प्रणम्य देवेशमजमार्तिहरं हरिम्।
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह ॥२३॥

मूलम्

ततः प्रणम्य देवेशमजमार्तिहरं हरिम्।
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह ॥२३॥

विश्वास-प्रस्तुतिः

ज्ञातं स्वरूपमज्ञातस्वरूप भगवंस्तव।
मया न यद्वाग्विषये तत्रस्थं चाखिलं जगत् ॥२४॥

धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपं यन्मया तव।
भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते ॥२५॥

यदि प्रसादं देव त्वं प्रकरोषि ममापरम्।
परमं चावतारेषु यद्रूपं तद्वदस्व मे ॥२६॥

मूलम्

यदि प्रसादं देव त्वं प्रकरोषि ममापरम्।
परमं चावतारेषु यद्रूपं तद्वदस्व मे ॥२६॥

विश्वास-प्रस्तुतिः

केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज।
सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि ॥२७॥

देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा।
सम्भूतयो यास्तु भवान्करिष्यति वदस्व ताः ॥२८॥

त्वं कर्ता सर्वभूतानां संहर्ता चेश्वरेश्वरः।

विश्वास-प्रस्तुतिः

तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान्।
अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता ॥२९॥

मूलम्

तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान्।
अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता ॥२९॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

यन्मां त्वं पृच्छसि ब्रह्मनवताराश्रितं परम्।
तत्ते सम्यक् प्रवक्ष्यामि निबोध मम सुव्रत ॥३०॥

मम प्रकृत्या संयोगः स्वेच्छया सम्प्रवर्तते।

विश्वास-प्रस्तुतिः

देवेषु नॄषु तिर्यक्षु स्थावरेषु चरेषु च।
ममावताराः कार्यार्थं जगतश्चोपकारिणः ॥३१॥

यदा यदा हि धर्मस्य ग्लानिः समुपजायते।
अभ्युत्थानमधर्मस्य तदात्माङ्गं सृजाम्यहम् ॥३२॥

परित्राणाय साधूनां विनाशाय च दुष्कृतां।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥३३॥

पूर्वोत्पन्नेषु भूतेषु नृदेवादिषु चाप्यहम्।
अनुप्रविश्य धर्मस्य करोमि परिपालनम् ॥३४॥

प्रविश्य च तथा पूर्वं तनुं धर्मभृतां वर।
जगतोऽस्य जगत्सृष्टिं करोमि स्थितिपालनम् ॥३५॥

देवत्वे देविका चेष्टा तिर्यक्त्वे मम तामसी।
इच्छया मानुषत्वे च विचरामि नृचेष्टया ॥३६॥

प्रतिक्षणं च भूतेषु सृजामि जगतः स्थितिम्।
करोमि विद्यमानेषु धर्मसंस्थापनेषु च ॥३७॥

यद्वै धर्मोपकाराय यच्च दुष्टनिवर्हणम्।
चरितं मानुषादीनां तद्वै जानीहि मत्कृतम् ॥३८॥

यच्च पृच्छसि मां ब्रह्मन्काः काः सम्भूतयस्तव।
ताः शृणुष्व समासेन या भविष्यन्ति साम्प्रतम् ॥३९॥

मत्स्येन भूत्वा पातालात्तव वेदाः समुद्धृताः।
मधुकैटभाभ्यां च हृता दत्ताश्वशिरसा मया ॥४०॥

त्वमप्यत्र महाभाग मदंशः कमलोदरात्।
मन्नाभिसम्भवाज्जातः प्रजासृष्टिकरः परः ॥४१॥

एकार्णवं च यदिदं ब्रह्मन्पश्यस्यशेषतः।
अस्मिन्वसुमतीं देवीं मग्नां पातालमागताम् ॥४२॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥४३॥

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः।
आज्यनासः श्रुवस्तुण्डः सामघोषस्वरो महान् ॥४४॥

प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः।
दक्षिणाहृदयो योगी महासत्त्रमयो महान् ॥४५॥

उपकर्मेष्टिरुचिरः प्रवर्गावर्तभूषणः।
नानाच्छन्दोगतिपथो ब्रह्मोक्तिकर्मविक्रमः ॥४६॥

भूत्वा यज्ञवराहोऽहमिति ब्रह्मन्रसातलात्।
पृथिवीमुद्धरिष्यामि स्थापयैष्यामि च स्थितौ ॥४७॥

पर्वतानां नदीनां च द्वीपादीनां च या स्थितिः।
तां च तद्वत्करिष्यामि शैलादीनामनुक्रमात् ॥४८॥

हिरण्याक्षं च दुर्वृत्तं कश्यपस्यात्मसम्भवम्।
तेनैव घातयिष्यामि रूपेणाहं प्रजापते ॥४९॥

उत्पाद्य पृथिवीं सम्यक् स्थापयित्वा यथा पुरा।
सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापतिम्।
जानासि कापिलं रूपं प्रथमं पौरुषं मम।
सर्वविद्याप्रणेतारं त्वया वेदेषु दर्शितम्।
रविमण्डलमध्यस्थमग्नेर्यत्परमं पदम्।

विश्वास-प्रस्तुतिः

तत उत्सृज्य रूपाणि अमरादिविभेदतः।
व्यापयिष्यामि लोकांस्तु भूलोकादीमशेषतः ॥५१॥

सृष्टं जगदिदं देवमानुष्यादिविशेषणम्।
हिरण्यकशिपुर्दैत्यस्तापयिष्यति विक्रमात् ॥५२॥

व्यंसयित्वा वरांस्तस्य तैस्तैर्हेतुभिरात्मवान्।
नृसिंहरूपं कृत्वाहं घातयिष्यामि तं रिपुम् ॥५३॥

क्षीराब्दौ कूर्मरूपोऽहं देवानां कमलोद्भव।
मन्दरं धारयिष्यामि पृष्ठेनामृतमन्थने ॥५४॥

हरिष्यति च देवानां यज्ञभागान्यदा बलिः।
तदाहं वामनो भूत्वा गत्वा तस्य महाध्वरम् ॥५५॥

वञ्चयित्वासुरपतिं करिष्यामि त्रिपिष्टपम्।
बलिं चापि करिष्यामि पातालतलवासिनम् ॥५६॥

अत्रेर्दत्त्वा वरं चैव तस्य पुत्रत्वमागतः।
दत्तात्रेयो भविष्यामि निहंस्यामि तथासुरान् ॥५७॥

सत्त्वानामुपकाराय प्रधानपुरुषान्तरम्।
दर्शयिष्यामि लोकेषु कापिलं रूपमास्थितः ॥५८॥

कार्तवीर्यादिभिश्चान्यैश्चतुर्दशभिरन्विताः।
भविष्यन्ति मदंशेन त्रेतायां चक्रवर्तिनः ॥५९॥

ततश्च भार्गवो रामो गृहीतपरशुर्द्विजः।
भूत्वा क्षत्रियहीनां च करिष्यामि वसुन्धराम् ॥६०॥

पुनश्च राघवो रामो भूत्वा दशरथात्मजः।
बद्ध्वा महोदधिं कर्ता राक्षसानां कुलक्षयम् ॥६१॥

उत्तीर्य च परं पारं लकामासाद्य दुर्जयाम्।
निहत्य रावणं वीरं वरदानेन दर्पितम्।
मायाविनां महावीर्यं रक्षसां वनशायिनाम्।
लक्ष्मणानुचरो रामः करिष्यामि कुलक्षयम्।
अष्टाविंशतिमे प्राप्ते द्वापरे कंसमुच्छ्रितम्।

विश्वास-प्रस्तुतिः

केशिनं धेनुकं चैव शकुनिं पूतनां तथा।
अरिष्टं च हनिष्यामि मुरुं नरकमेव च ॥६२॥

मूलम्

केशिनं धेनुकं चैव शकुनिं पूतनां तथा।
अरिष्टं च हनिष्यामि मुरुं नरकमेव च ॥६२॥

विश्वास-प्रस्तुतिः

निशुम्भं सहयग्रीवं तथान्यांश्चासुरेश्वरान्।
हनिष्यामि सुदुर्वृत्तांल्लोकानां हितकाम्यया ॥६३॥

प्रवर्षति स देवेन्द्रेमहोभङ्गविरोधिते।
गोवर्धनं गिरिवरं धारयिष्यामि बाहुना ॥६४॥

भाराक्रान्तामिमामुर्वीं धनञ्जयसहायवान्।
घातयित्वाखिलान्भूपांल्लघ्वीं कर्तास्मि सत्तम ॥६५॥

प्राप्ते कलियुगे कृत्स्नमुपसंहृत्य वै कुलम्।
द्वारकां प्लावयिष्यामि उत्स्रक्ष्यामि मनुष्यताम् ॥६६॥

द्वितीयो यो ममांशस्तु रामोऽनन्तः स लाङ्गली।
सोऽपि सन्त्यज्य वसुधां रसातलमुपेष्यति ॥६७॥

ततः कलियुगे घोरे सम्प्राप्तेऽब्जसमुद्भव।
शुद्धोदनसुतो बुद्धो भविष्यामि विमत्सरः ॥६८॥

बौद्धं धर्ममुपाश्रित्य करिष्ये धर्मदेशनाम्।
नराणामथ नारीणां दयां भूतेषु दर्शयन् ॥६९॥

रक्ताम्बरा ह्याञ्जिताक्षाः प्रशान्तमनसस्ततः।
शूद्राधर्मं प्रवक्ष्यन्ति मयि बुद्धत्वमागते ॥७०॥

एडूकचिह्ना पृथिवी न देवगृहभूषिता।
भवित्री प्रायशो ब्रह्मन्मयि बुद्धत्वमागते ॥७१॥

स्कन्धदर्शनमात्रं हि पश्यन्तः सकलं जगत्।
शूद्राः! शूद्रेषु दास्यन्ति मयि बुद्धत्वमागते ॥७२॥

अल्पायुषस्ततो मर्त्या मोहोपहतचेतसः।
नरकार्हाणि कर्माणि करिष्यन्ति प्रजापते ॥७३॥

स्वाध्यायेष्ववसीदन्तो ब्राह्मणाः शौचवर्जिताः।
अन्त्यप्रतिग्रहादानं करिष्यन्त्यल्पमेधसः ॥७४॥

न श्रोष्यन्ति पितुः पुत्राः श्वश्रूश्वशुरयोः स्नुषाः।
न भार्या भर्तुरीशस्य न भृत्या विनयस्थिताः ॥७५॥

वर्णसङ्करतां प्राप्ते लोकेऽस्मिन्दस्युतां गते।
ब्राह्मणादिषु वर्णेषु भविष्यत्यधरोत्तरम् ॥७६॥

धर्मकञ्चुकसंवीता विधर्मरुचयस्तथा।
मानुषान्भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥७७॥

ततः कलियुगस्यान्ते वेदो वाजसनेयकः।
दश पञ्च च वै शाखाः प्रमाणेन भविष्यति ॥७८॥

ततोऽहं सम्भविष्यामि ब्राह्मणो हरिपिङ्गलः।
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ॥७९॥

म्लेच्छानुत्सादयिष्यामि गृहीतास्त्रः कुशायुधः।
स्थापयिष्यामि मर्यादाश्चातुर्वर्ण्ये यथोदिताः ॥८०॥

तथाश्रमेषु सर्वेषु ब्रह्मचारिव्रतादिकाः।

विश्वास-प्रस्तुतिः

स्थापयित्वा ततः सर्वाः प्रजाः सद्धर्मवर्त्मनि।
कल्किरूपं परित्यज्य दिवमेष्याम्यहं पुनः ॥८१॥

ततः कृतयुगं भूयः पूर्ववत्सम्प्रवर्त्स्यते।
वर्णाश्रमाश्च धर्मेषु द्वेषु स्थास्यन्ति सत्तम ॥८२॥

एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च।
ममावताराः शतशो ये भवन्ति जगद्धिताः ॥८३॥

मूलम्

एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च।
ममावताराः शतशो ये भवन्ति जगद्धिताः ॥८३॥

विश्वास-प्रस्तुतिः

सङ्कर्षणात्मजश्चैव कल्पान्ते च रसातला।
समुत्पत्स्येत्तदा रुद्रः कालाग्निरिति यः श्रुतः ॥८४॥

ततः क्षयं करिष्यामि जगत्स्थावरजङ्गमम्।

विश्वास-प्रस्तुतिः

भूयश्चैव हि स्वप्स्यामि जगत्येकार्णवे स्थिते।
त्वद्रूपी च ततो भूत्वा जगत्स्रक्ष्याम्यहं पुनः ॥८५॥

एतत्सङ्क्षेपतो ब्रह्मन्मयाख्यातं यथातथम्।
अंशावतरणं सर्वं मत्तः सङ्क्षेपतः शृणु ॥८६॥

यद्दृश्यं यच्च वै स्पृश्यं यद्घ्रेयं रस्यते च यत्।
यच्छ्रव्यं यच्च मन्तव्यं बोधव्यं चाहमंशगः ॥८७॥

यत्तु बुद्धेः परतरमनाख्येयमनोपमम्।
तदहं ब्रह्म निर्द्वन्द्वं यद्वै पश्यन्ति सूरयः ॥८८॥

इदं जन्मरहस्यं मे यो नरः कीर्तयिष्यति।
सुलभोऽहं भविष्यामि तस्य जन्मनि जन्मनि ॥८९॥

पठन्नेतद्ब्रह्महा तु सुरापो गुरुतल्पगः।
स्तेयी कृतघ्नो गोघ्नश्च सर्वपापैः प्रमुच्यते ॥९०॥

गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम्।
लभन्तेऽभिमतान्कामान्नरास्तांस्तान्यथेप्सितान् ॥९१॥

इति देवातिदेवेन ब्रह्मणो व्यक्तजन्मनः।
रहस्यमिदमाख्यातं तवापि कथितं मया ॥९२॥

मूलम्

इति देवातिदेवेन ब्रह्मणो व्यक्तजन्मनः।
रहस्यमिदमाख्यातं तवापि कथितं मया ॥९२॥

विश्वास-प्रस्तुतिः

विष्णुः सर्वगतोऽनन्तः सर्वं तत्र प्रतिष्ठितम्।
स च सर्वमिदं राजन्न ततो विद्यते परम् ॥९३॥

एतत्पवित्रं पठितं तथा दुःस्वप्ननाशनम्।
जातिस्मरत्वं प्रज्ञां च ददाति पठतां नृणाम् ॥९४॥

इति विष्णुधर्मेषु जन्मरहस्यम्।