०६५

अथ पञ्चषष्टितमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

भूयश्च शृणु राजेन्द्रजनकेन महात्मना।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे ॥१॥

मूलम्

भूयश्च शृणु राजेन्द्रजनकेन महात्मना।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे ॥१॥

विश्वास-प्रस्तुतिः

सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम्।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् ॥२॥

मूलम्

सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम्।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् ॥२॥

विश्वास-प्रस्तुतिः

द्विजरूपं समास्थाय देवदेवो जनार्दनः।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ॥३॥

मूलम्

द्विजरूपं समास्थाय देवदेवो जनार्दनः।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ॥३॥

देव उवाच।

विश्वास-प्रस्तुतिः

राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत्।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ॥४॥

मूलम्

राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत्।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ॥४॥

विश्वास-प्रस्तुतिः

पृथिवीं पृथिवीपालः पालयित्वा पिता तव।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ॥५॥

मूलम्

पृथिवीं पृथिवीपालः पालयित्वा पिता तव।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ॥५॥

विश्वास-प्रस्तुतिः

त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ॥६॥

मूलम्

त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ॥६॥

विश्वास-प्रस्तुतिः

मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान्।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ॥७॥

मूलम्

मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान्।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ॥७॥

विश्वास-प्रस्तुतिः

शब्दादयो ये विशयास्ते वैराग्यफला नृप।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ॥८॥

मूलम्

शब्दादयो ये विशयास्ते वैराग्यफला नृप।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ॥८॥

विश्वास-प्रस्तुतिः

सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ॥९॥

मूलम्

सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ॥९॥

विश्वास-प्रस्तुतिः

तव प्रज्ञा मता ह्येषा मम मोहो महीपते।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी ॥१०॥

मूलम्

तव प्रज्ञा मता ह्येषा मम मोहो महीपते।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी ॥१०॥

जनक उवाच।

विश्वास-प्रस्तुतिः

सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥११॥

मूलम्

सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥११॥

विश्वास-प्रस्तुतिः

यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् ॥१२॥

मूलम्

यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् ॥१२॥

विश्वास-प्रस्तुतिः

पिता माता तथा भ्राता यदा नान्यज्जनार्दनात्।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् ॥१३॥

मूलम्

पिता माता तथा भ्राता यदा नान्यज्जनार्दनात्।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् ॥१३॥

विश्वास-प्रस्तुतिः

सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥१४॥

मूलम्

सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥१४॥

विश्वास-प्रस्तुतिः

विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥१५॥

मूलम्

विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥१५॥

विश्वास-प्रस्तुतिः

यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥१६॥

मूलम्

यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥१६॥

पश्यामि विष्णुं न परं ततोऽन्यच्।
शृणोमि विष्णुं न परं ततोऽन्यत्।

विश्वास-प्रस्तुतिः

स्पृशामि विष्णुं न परं ततोऽन्यज्।
जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥१७॥

मूलम्

स्पृशामि विष्णुं न परं ततोऽन्यज्।
जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥१७॥

रसामि विष्णुं न परं ततोऽन्यन्।
मन्ये च विष्णुं न परं ततोऽन्यत्।
जिघ्रामि विष्णुं न परं ततोऽन्यच्।
नमामि विष्णुं न परं ततोऽन्यत्।

विश्वास-प्रस्तुतिः

बुध्यामि विष्णुं न परं ततोऽन्यत्।
सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥१८॥

मूलम्

बुध्यामि विष्णुं न परं ततोऽन्यत्।
सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥१८॥

विष्णुः समस्तं न परं ततोऽस्ति।
विष्णुः समस्तं न परं च देवः।
विष्णुः स्थारीयान्न परं ततोऽस्ति।

विश्वास-प्रस्तुतिः

विष्णुर्लघीयान्न परं ततोऽस्ति।
विष्णुर्गरीयान्न परं ततोऽन्यत् ॥१९॥

मूलम्

विष्णुर्लघीयान्न परं ततोऽस्ति।
विष्णुर्गरीयान्न परं ततोऽन्यत् ॥१९॥

विश्वास-प्रस्तुतिः

यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥२०॥

मूलम्

यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥२०॥

विश्वास-प्रस्तुतिः

न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥२१॥

मूलम्

न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥२१॥

विश्वास-प्रस्तुतिः

मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥२२॥

मूलम्

मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥२२॥

विश्वास-प्रस्तुतिः

स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥२३॥

मूलम्

स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥२३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम्।
दर्शयामास सुप्रीतो जनकाय जनार्दनः ॥२४॥

मूलम्

बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम्।
दर्शयामास सुप्रीतो जनकाय जनार्दनः ॥२४॥

विश्वास-प्रस्तुतिः

ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः ॥२५॥

मूलम्

ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः ॥२५॥

विश्वास-प्रस्तुतिः

वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः ॥२६॥

मूलम्

वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः ॥२६॥

जनक उवाच।

विश्वास-प्रस्तुतिः

यदि देव प्रसन्नोऽसि सम्यगाराधितो मया।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम ॥२७॥

मूलम्

यदि देव प्रसन्नोऽसि सम्यगाराधितो मया।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम ॥२७॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् ॥२८॥

मूलम्

एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् ॥२८॥

विश्वास-प्रस्तुतिः

इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् ॥२९॥

मूलम्

इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् ॥२९॥

इति विष्णुधर्मेषु जनकगीता।