अथ चतुष्षष्टितमोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
एतान्धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते।
जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि ॥१॥
मूलम्
एतान्धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते।
जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि ॥१॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
भगवन्वहतां भक्तिं देवदेवे जनार्दने।
यत्फलं कथितं तज्ज्ञैस्तन्मे विस्तरतो वद ॥२॥
मूलम्
भगवन्वहतां भक्तिं देवदेवे जनार्दने।
यत्फलं कथितं तज्ज्ञैस्तन्मे विस्तरतो वद ॥२॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
यत्फलं वहतां भक्तिमच्युते भवति प्रभो।
न तद्वर्णयितुं शक्यं हरिः सर्वेप्सितप्रदः ॥३॥
मूलम्
यत्फलं वहतां भक्तिमच्युते भवति प्रभो।
न तद्वर्णयितुं शक्यं हरिः सर्वेप्सितप्रदः ॥३॥
विश्वास-प्रस्तुतिः
यादृक् सत्त्वं मनुष्याणां तादृगाराध्य केशवम्।
फलमिच्छन्ति तादृच्च लभ्यते तैर्नरेश्वर ॥४॥
मूलम्
यादृक् सत्त्वं मनुष्याणां तादृगाराध्य केशवम्।
फलमिच्छन्ति तादृच्च लभ्यते तैर्नरेश्वर ॥४॥
विश्वास-प्रस्तुतिः
मुक्तिकामा नरा मुक्तिं स्वर्गं देवत्वमीप्सवः।
गन्धर्वयक्षसिद्धानां वृण्वन्त्यन्ये सलोकताम् ॥५॥
मूलम्
मुक्तिकामा नरा मुक्तिं स्वर्गं देवत्वमीप्सवः।
गन्धर्वयक्षसिद्धानां वृण्वन्त्यन्ये सलोकताम् ॥५॥
विश्वास-प्रस्तुतिः
वर्षेष्वभीप्सवो विष्णुं पातालेषु तथापरे।
भोगानभीप्सवो विष्णुं तोषयन्ति नराधिप ॥६॥
मूलम्
वर्षेष्वभीप्सवो विष्णुं पातालेषु तथापरे।
भोगानभीप्सवो विष्णुं तोषयन्ति नराधिप ॥६॥
विश्वास-प्रस्तुतिः
तथापरे नरैश्वर्यमारोग्यं गुणवद्भुवि।
प्रार्थयन्त्यच्युतं देवमाराध्य जगतो गतिम् ॥७॥
मूलम्
तथापरे नरैश्वर्यमारोग्यं गुणवद्भुवि।
प्रार्थयन्त्यच्युतं देवमाराध्य जगतो गतिम् ॥७॥
विश्वास-प्रस्तुतिः
धर्मोपदेशादचलां वहन्भक्तिं जनार्दने।
सशरीरो गतः स्वर्गं धर्मपुत्रो युधिष्ठिरः ॥८॥
मूलम्
धर्मोपदेशादचलां वहन्भक्तिं जनार्दने।
सशरीरो गतः स्वर्गं धर्मपुत्रो युधिष्ठिरः ॥८॥
विश्वास-प्रस्तुतिः
तथैव जनकः कृष्णे विनिवेश्य स्वमानसम्।
अवाप परमां सिद्धिं वसुः प्रायात्त्रिपिष्टपम् ॥९॥
मूलम्
तथैव जनकः कृष्णे विनिवेश्य स्वमानसम्।
अवाप परमां सिद्धिं वसुः प्रायात्त्रिपिष्टपम् ॥९॥
विश्वास-प्रस्तुतिः
अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः।
अवापुरतुलान्कामांस्ते ते सन्तोष्य केशवम् ॥१०॥
मूलम्
अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः।
अवापुरतुलान्कामांस्ते ते सन्तोष्य केशवम् ॥१०॥
विश्वास-प्रस्तुतिः
अनाराध्य जगन्नाथं सर्वपापहरं हरिम्।
सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः ॥११॥
मूलम्
अनाराध्य जगन्नाथं सर्वपापहरं हरिम्।
सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः ॥११॥
विश्वास-प्रस्तुतिः
द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन्पितामहः।
विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः ॥१२॥
मूलम्
द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन्पितामहः।
विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः ॥१२॥
विश्वास-प्रस्तुतिः
नामसङ्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः।
समं विनाशमायाति देवः कोऽभ्यधिकस्ततः ॥१३॥
मूलम्
नामसङ्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः।
समं विनाशमायाति देवः कोऽभ्यधिकस्ततः ॥१३॥
विश्वास-प्रस्तुतिः
राष्ट्रस्य शरणं राजा पितरौ बालकस्य च।
धर्मः समस्तमर्त्यानां सर्वस्य शरणं हरिः ॥१४॥
मूलम्
राष्ट्रस्य शरणं राजा पितरौ बालकस्य च।
धर्मः समस्तमर्त्यानां सर्वस्य शरणं हरिः ॥१४॥
विश्वास-प्रस्तुतिः
मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम्।
नमस्यन्सर्वलोकस्य नमस्यो जायते नरः ॥१५॥
मूलम्
मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम्।
नमस्यन्सर्वलोकस्य नमस्यो जायते नरः ॥१५॥
विश्वास-प्रस्तुतिः
न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि।
वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः ॥१६॥
मूलम्
न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि।
वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः ॥१६॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
श्रुतं मया यथा पूर्वमार्यको मे युधिष्ठिरः।
सशरीरो गतः स्वर्गं जितमात्मीयकर्मभिः ॥१७॥
मूलम्
श्रुतं मया यथा पूर्वमार्यको मे युधिष्ठिरः।
सशरीरो गतः स्वर्गं जितमात्मीयकर्मभिः ॥१७॥
विश्वास-प्रस्तुतिः
यत्त्वेतद्भगवानाह स यथा पाण्डुपूर्वजः।
धर्मोपदेशाद्गोविन्दमाराधयत तद्वद ॥१८॥
मूलम्
यत्त्वेतद्भगवानाह स यथा पाण्डुपूर्वजः।
धर्मोपदेशाद्गोविन्दमाराधयत तद्वद ॥१८॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे।
तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत्किल ॥१९॥
मूलम्
पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे।
तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत्किल ॥१९॥
विश्वास-प्रस्तुतिः
समुपेत्य गृहं तस्य धर्मपुत्रस्य विस्मितः।
उवाच श्वपचो द्वाःस्थं प्रश्रयावनतस्थितः ॥२०॥
मूलम्
समुपेत्य गृहं तस्य धर्मपुत्रस्य विस्मितः।
उवाच श्वपचो द्वाःस्थं प्रश्रयावनतस्थितः ॥२०॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
कस्यैतद्भवनं दिव्यं मणिरत्नविभूषितम्।
शुद्धस्फटिकसोपानं मणिकाञ्चनतोरणम् ॥२१॥
मूलम्
कस्यैतद्भवनं दिव्यं मणिरत्नविभूषितम्।
शुद्धस्फटिकसोपानं मणिकाञ्चनतोरणम् ॥२१॥
प्रतीहार उवाच।
विश्वास-प्रस्तुतिः
अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने।
युधिष्ठिरमृते भूपं भुञ्जते कस्य वेश्मनि ॥२२॥
मूलम्
अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने।
युधिष्ठिरमृते भूपं भुञ्जते कस्य वेश्मनि ॥२२॥
विश्वास-प्रस्तुतिः
कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम्।
युधिष्ठिरस्य भवनं देवराजगृहोपमम् ॥२३॥
मूलम्
कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम्।
युधिष्ठिरस्य भवनं देवराजगृहोपमम् ॥२३॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
अबलस्य बलं राजा बालस्य रुदितं बलम्।
बलं मूर्खस्य वै मौनं तस्करस्यानृतं बलम् ॥२४॥
मूलम्
अबलस्य बलं राजा बालस्य रुदितं बलम्।
बलं मूर्खस्य वै मौनं तस्करस्यानृतं बलम् ॥२४॥
विश्वास-प्रस्तुतिः
गच्छ जल्प स्वराजानं प्रतीहार वचो मम।
दुःखार्तः कार्यवान्राजंश्चण्डालो द्वारि तिष्ठति ॥२५॥
मूलम्
गच्छ जल्प स्वराजानं प्रतीहार वचो मम।
दुःखार्तः कार्यवान्राजंश्चण्डालो द्वारि तिष्ठति ॥२५॥
केनापि हेतुमात्रेण भवन्तं दुष्टमागतः।
विश्वास-प्रस्तुतिः
इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम्।
निवेदयामास तथा धर्मराजोऽब्रवीदिदम् ॥२६॥
मूलम्
इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम्।
निवेदयामास तथा धर्मराजोऽब्रवीदिदम् ॥२६॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
किं रूपं कीदृशं शीलं कोऽस्यार्थः किं प्रयोजनम्।
ब्रूहि द्वाःस्थ यथावन्मे नरस्तिष्ठति कीदृशः ॥२७॥
मूलम्
किं रूपं कीदृशं शीलं कोऽस्यार्थः किं प्रयोजनम्।
ब्रूहि द्वाःस्थ यथावन्मे नरस्तिष्ठति कीदृशः ॥२७॥
प्रतीहार उवाच।
विश्वास-प्रस्तुतिः
काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः।
यवमध्यः कृशग्रीवो वक्रपादो महाहनुः ॥२८॥
मूलम्
काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः।
यवमध्यः कृशग्रीवो वक्रपादो महाहनुः ॥२८॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
ब्रूहि गच्छ दुराचारं चण्डालं पापकर्मिणम्।
देवकार्यस्य वेलायां दुतस्त्वं प्रत्युपस्थितः ॥२९॥
मूलम्
ब्रूहि गच्छ दुराचारं चण्डालं पापकर्मिणम्।
देवकार्यस्य वेलायां दुतस्त्वं प्रत्युपस्थितः ॥२९॥
विश्वास-प्रस्तुतिः
चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम्।
स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति ॥३०॥
मूलम्
चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम्।
स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति ॥३०॥
विश्वास-प्रस्तुतिः
इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः।
प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः ॥३१॥
मूलम्
इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः।
प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः ॥३१॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
किं देवकार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम्।
तद्देवकार्यं स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे ॥३२॥
मूलम्
किं देवकार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम्।
तद्देवकार्यं स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे ॥३२॥
इदं वचनमव्यग्रं प्रतीहार त्वरा मम।
निवेदय स्वराजेन्द्रंयथेष्टं स करोतु वै।
इत्युक्तः सत्वरं गत्वा धर्मराजं तथा तथं।
कथयामास तत्सर्वं चाण्डालेन यदीरितम्।
सुशोभनमिदं वाक्यं न भवेदन्त्यजातिषु।
चिन्तयित्वा ततो राजा निर्जगाम युधिष्ठिरः।
विश्वास-प्रस्तुतिः
इत्येतद्वचनं श्रुत्वा निर्जगाम युधिष्ठिरः।
प्रत्युवाच च चण्डालमीषन्कोपसमन्वितः ॥३३॥
मूलम्
इत्येतद्वचनं श्रुत्वा निर्जगाम युधिष्ठिरः।
प्रत्युवाच च चण्डालमीषन्कोपसमन्वितः ॥३३॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
कुतस्ते भयमुत्पन्नं येन त्वं गृहमागतः।
आवाधाकारणं सर्वं यथावत्कथयस्व मे ॥३४॥
मूलम्
कुतस्ते भयमुत्पन्नं येन त्वं गृहमागतः।
आवाधाकारणं सर्वं यथावत्कथयस्व मे ॥३४॥
विश्वास-प्रस्तुतिः
तदहं ते प्रतिज्ञाय चण्डकर्मकरक्षणम्।
अपास्य देवकार्यार्थं प्रविश्याम्यन्तरं पुनः ॥३५॥
मूलम्
तदहं ते प्रतिज्ञाय चण्डकर्मकरक्षणम्।
अपास्य देवकार्यार्थं प्रविश्याम्यन्तरं पुनः ॥३५॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः।
प्राणिहिंसा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् ॥३६॥
मूलम्
न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः।
प्राणिहिंसा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् ॥३६॥
विश्वास-प्रस्तुतिः
अनेकजन्मसाहस्रीं प्राप्य संसारपद्धतिम्।
मानुष्ये कुत्सितां जातिमापन्नो मुषितोऽस्मि भोः ॥३७॥
मूलम्
अनेकजन्मसाहस्रीं प्राप्य संसारपद्धतिम्।
मानुष्ये कुत्सितां जातिमापन्नो मुषितोऽस्मि भोः ॥३७॥
विश्वास-प्रस्तुतिः
कर्मभूमिमिमां राजन्प्रार्थयन्ति दिवौकसः।
तां सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम ॥३८॥
मूलम्
कर्मभूमिमिमां राजन्प्रार्थयन्ति दिवौकसः।
तां सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम ॥३८॥
विश्वास-प्रस्तुतिः
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान्।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥३९॥
मूलम्
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान्।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥३९॥
विश्वास-प्रस्तुतिः
सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत्।
वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया ॥४०॥
मूलम्
सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत्।
वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया ॥४०॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
आनमुपरि श्रान्तं ब्राह्मणं गृहमागतम्।
अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया ॥४१॥
मूलम्
आनमुपरि श्रान्तं ब्राह्मणं गृहमागतम्।
अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया ॥४१॥
विश्वास-प्रस्तुतिः
मातरं पितरं चैव विकलं नेत्रदुर्बलम्।
यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया ॥४२॥
मूलम्
मातरं पितरं चैव विकलं नेत्रदुर्बलम्।
यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया ॥४२॥
विश्वास-प्रस्तुतिः
गोधनस्य तृषार्तस्य जलार्थं परिधावतः।
विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया ॥४३॥
मूलम्
गोधनस्य तृषार्तस्य जलार्थं परिधावतः।
विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया ॥४३॥
विश्वास-प्रस्तुतिः
विवाहयित्वा यः कन्यां कुलजां शीलमण्डनाम्।
विना त्यजति दोषेण स पापिष्ठतरस्त्वया ॥४४॥
मूलम्
विवाहयित्वा यः कन्यां कुलजां शीलमण्डनाम्।
विना त्यजति दोषेण स पापिष्ठतरस्त्वया ॥४४॥
विश्वास-प्रस्तुतिः
आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः।
दत्तं च यः कीर्तयति स पापिष्ठतरस्त्वया ॥४५॥
मूलम्
आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः।
दत्तं च यः कीर्तयति स पापिष्ठतरस्त्वया ॥४५॥
विश्वास-प्रस्तुतिः
बहुभृत्यैर्दरिद्रैश्च धनं सन्तं द्विजोत्तमैः।
याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया ॥४६॥
मूलम्
बहुभृत्यैर्दरिद्रैश्च धनं सन्तं द्विजोत्तमैः।
याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया ॥४६॥
विश्वास-प्रस्तुतिः
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः।
स्वधर्मं सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया ॥४७॥
मूलम्
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः।
स्वधर्मं सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया ॥४७॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
कृतार्थोऽहं गमिष्यामि यशोधर्ममवाप्नुहि।
तुष्टोऽस्म्यहं स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः ॥४८॥
मूलम्
कृतार्थोऽहं गमिष्यामि यशोधर्ममवाप्नुहि।
तुष्टोऽस्म्यहं स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः ॥४८॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
देवतानामृषीणां च पितॄणां च कृतं मया।
साम्प्रतं देशकालोऽयं त्वमेवात्र भवातिथिः ॥४९॥
मूलम्
देवतानामृषीणां च पितॄणां च कृतं मया।
साम्प्रतं देशकालोऽयं त्वमेवात्र भवातिथिः ॥४९॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
चण्डालोऽहं महाराज पतितो लोकवर्जितः।
कथं निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे ॥५०॥
मूलम्
चण्डालोऽहं महाराज पतितो लोकवर्जितः।
कथं निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे ॥५०॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
चण्डालो भव पापो वा शत्रुर्वा पितृघातकः।
देशकालाभ्युपेतं त्वां भरणीयं हि वेद्म्यहम् ॥५१॥
मूलम्
चण्डालो भव पापो वा शत्रुर्वा पितृघातकः।
देशकालाभ्युपेतं त्वां भरणीयं हि वेद्म्यहम् ॥५१॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥५२॥
मूलम्
दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥५२॥
विश्वास-प्रस्तुतिः
दश सूनासहस्राणि कुरुते यो हि सौनिकः।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥५३॥
मूलम्
दश सूनासहस्राणि कुरुते यो हि सौनिकः।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥५३॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम।
न ते वदन्ति वाग्दुष्टं यथैतत्कीर्तितं त्वया ॥५४॥
मूलम्
नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम।
न ते वदन्ति वाग्दुष्टं यथैतत्कीर्तितं त्वया ॥५४॥
चण्डाल उवाच।
विश्वास-प्रस्तुतिः
लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम्।
वरं स्वमांसमत्तव्यं न तु राजप्रतिग्रहम् ॥५५॥
मूलम्
लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम्।
वरं स्वमांसमत्तव्यं न तु राजप्रतिग्रहम् ॥५५॥
विश्वास-प्रस्तुतिः
राजकिल्बिषदग्धानां ब्राह्मणानां युधिष्ठिर।
छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥५६॥
मूलम्
राजकिल्बिषदग्धानां ब्राह्मणानां युधिष्ठिर।
छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥५६॥
विश्वास-प्रस्तुतिः
राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः।
बुधेन प्रतिहर्तव्यः स्वमांसस्येव भक्षणम् ॥५७॥
मूलम्
राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः।
बुधेन प्रतिहर्तव्यः स्वमांसस्येव भक्षणम् ॥५७॥
विश्वास-प्रस्तुतिः
अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित्।
नरेन्द्रभवने भुङ्क्त्वा विष्ठायां जायते कृमिः ॥५८॥
मूलम्
अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित्।
नरेन्द्रभवने भुङ्क्त्वा विष्ठायां जायते कृमिः ॥५८॥
युधिष्ठिर उवाच।
निन्दसे सर्वराजानो न चात्मानं प्रशंससि।
धैर्यवानात्मनोऽनिन्द्यो नाश्वासार्थं च पृच्छसि।
विमुक्तक्रोधहर्शश्च कोऽप्यत्र प्रतिभासि नः।
अनिन्द्यो निन्द्यरूपेण महात्मा त्वं हि मे मतः।
को भवान्ब्रूहि सत्यं मे किमर्थमिह चागतः।
विश्वास-प्रस्तुतिः
भवानुपेन्द्रः! शक्रो वा शर्वो वा त्वं पिनाकधृक्।
अथवा निन्द्यरूपेण पिता नस्त्वमिहागतः ॥५९॥
मूलम्
भवानुपेन्द्रः! शक्रो वा शर्वो वा त्वं पिनाकधृक्।
अथवा निन्द्यरूपेण पिता नस्त्वमिहागतः ॥५९॥
धर्म उवाच।
विश्वास-प्रस्तुतिः
ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात्।
नन्दन्तु भूमिभागास्ते येषु त्वं पृथिवीपतिः ॥६०॥
मूलम्
ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात्।
नन्दन्तु भूमिभागास्ते येषु त्वं पृथिवीपतिः ॥६०॥
विश्वास-प्रस्तुतिः
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालय।
स्वल्पमप्यस्तु ते वेलां आ गोविन्दोज्झितं मनः ॥६१॥
मूलम्
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालय।
स्वल्पमप्यस्तु ते वेलां आ गोविन्दोज्झितं मनः ॥६१॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
किं मे राज्येन भोस्तात विषयैर्जीवितेन वा।
योऽहं सूनासहस्रैस्तु दशभिः परिवेष्टितः ॥६२॥
मूलम्
किं मे राज्येन भोस्तात विषयैर्जीवितेन वा।
योऽहं सूनासहस्रैस्तु दशभिः परिवेष्टितः ॥६२॥
धर्म उवाच।
विश्वास-प्रस्तुतिः
मा विषादं नरश्रेष्ठ समुपैहि युधिष्ठिर।
यज्ञेश्वरं यज्ञमूर्तिं त्वं च विष्णुं समाश्रितः ॥६३॥
मूलम्
मा विषादं नरश्रेष्ठ समुपैहि युधिष्ठिर।
यज्ञेश्वरं यज्ञमूर्तिं त्वं च विष्णुं समाश्रितः ॥६३॥
विश्वास-प्रस्तुतिः
येषां न विषये विप्रा यज्ञैर्यज्ञपतिं हरिम्।
यजन्ति भूभुजस्तेषामेतत्सूनोदितं फलम् ॥६४॥
मूलम्
येषां न विषये विप्रा यज्ञैर्यज्ञपतिं हरिम्।
यजन्ति भूभुजस्तेषामेतत्सूनोदितं फलम् ॥६४॥
विश्वास-प्रस्तुतिः
येषां पाषण्डसङ्कीर्णं न राष्ट्रं ब्राह्मणोत्कटम्।
ते तु सूनासहस्राणां दशानां भागिनो नृपाः ॥६५॥
मूलम्
येषां पाषण्डसङ्कीर्णं न राष्ट्रं ब्राह्मणोत्कटम्।
ते तु सूनासहस्राणां दशानां भागिनो नृपाः ॥६५॥
विश्वास-प्रस्तुतिः
येषां न यज्ञपुरुषः कारणं पुरुषोत्तमः।
ते तु पापसमाचाराः सूनापापौघभागिनः ॥६६॥
मूलम्
येषां न यज्ञपुरुषः कारणं पुरुषोत्तमः।
ते तु पापसमाचाराः सूनापापौघभागिनः ॥६६॥
विश्वास-प्रस्तुतिः
त्वं तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च।
इष्टिर्वैश्वानरी पापमुपहंस्यति तेऽखिलम् ॥६७॥
मूलम्
त्वं तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च।
इष्टिर्वैश्वानरी पापमुपहंस्यति तेऽखिलम् ॥६७॥
अवश्यं विषये कश्चिद्ब्राह्मणः संश्रितव्रतः।
विश्वास-प्रस्तुतिः
इष्टिं वैश्वानरीं कप्तां निर्वपेदब्दपर्यये।
तस्य षड्भागमात्रेण त्वं पापं निर्दहिष्यसि ॥६८॥
मूलम्
इष्टिं वैश्वानरीं कप्तां निर्वपेदब्दपर्यये।
तस्य षड्भागमात्रेण त्वं पापं निर्दहिष्यसि ॥६८॥
विश्वास-प्रस्तुतिः
स त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया ॥६९॥
मूलम्
स त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया ॥६९॥
विश्वास-प्रस्तुतिः
अथ पातकभीतस्त्वं सर्वभावेन भारत।
विमुक्तान्यसमारम्भो नारायणपरो भव ॥७०॥
मूलम्
अथ पातकभीतस्त्वं सर्वभावेन भारत।
विमुक्तान्यसमारम्भो नारायणपरो भव ॥७०॥
विश्वास-प्रस्तुतिः
परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः।
तदर्थमपि कर्माणि कुर्वन्पापं व्यपोहति ॥७१॥
मूलम्
परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः।
तदर्थमपि कर्माणि कुर्वन्पापं व्यपोहति ॥७१॥
विश्वास-प्रस्तुतिः
लोभादिव्याप्तहृदयो यत्पापं कुरुते नरः।
विलयं याति तत्सर्वमच्युते हृदये स्थिते ॥७२॥
मूलम्
लोभादिव्याप्तहृदयो यत्पापं कुरुते नरः।
विलयं याति तत्सर्वमच्युते हृदये स्थिते ॥७२॥
विश्वास-प्रस्तुतिः
शमायालं जलं वह्नेस्तमसो भास्करादयः।
क्षान्तिः कलेरघौघस्य नामसङ्कीर्तनं हरेः ॥७३॥
मूलम्
शमायालं जलं वह्नेस्तमसो भास्करादयः।
क्षान्तिः कलेरघौघस्य नामसङ्कीर्तनं हरेः ॥७३॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम्।
वरं तदेकमेवैतं प्राप्तुमिच्छाम्यहं पितः ॥७४॥
मूलम्
प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम्।
वरं तदेकमेवैतं प्राप्तुमिच्छाम्यहं पितः ॥७४॥
विश्वास-प्रस्तुतिः
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम।
या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया ॥७५॥
मूलम्
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम।
या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया ॥७५॥
विश्वास-प्रस्तुतिः
या या जायेत मे बुद्धिर्यावज्जीवाम्यहं पितः।
सा सा छिनत्तु सन्देहान्कृष्णाप्तौ परिपन्थिनः ॥७६॥
मूलम्
या या जायेत मे बुद्धिर्यावज्जीवाम्यहं पितः।
सा सा छिनत्तु सन्देहान्कृष्णाप्तौ परिपन्थिनः ॥७६॥
विश्वास-प्रस्तुतिः
यथा गोविन्दमाराध्य सशरीरः सुरालयम्।
प्राप्नुयामिति मे तात प्रयच्छ प्रवरं वरम् ॥७७॥
मूलम्
यथा गोविन्दमाराध्य सशरीरः सुरालयम्।
प्राप्नुयामिति मे तात प्रयच्छ प्रवरं वरम् ॥७७॥
धर्म उवाच।
विश्वास-प्रस्तुतिः
एवमेतदशेषं ते मत्प्रसादाद्भविष्यति।
नास्ति गोविन्दभक्तानां वाञ्छितं भुवि दुर्लभम् ॥७८॥
मूलम्
एवमेतदशेषं ते मत्प्रसादाद्भविष्यति।
नास्ति गोविन्दभक्तानां वाञ्छितं भुवि दुर्लभम् ॥७८॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इति धर्मोपदेशेन सर्वदेववरं हरिम्।
आराध्य पाण्डवो यातः सशरीरः सुरालयम् ॥७९॥
मूलम्
इति धर्मोपदेशेन सर्वदेववरं हरिम्।
आराध्य पाण्डवो यातः सशरीरः सुरालयम् ॥७९॥
इति विष्णुधर्मेषु चण्डालयुधिष्ठिरसंवादः।