०६३

अथ त्रिषष्टितमोऽध्यायः।
शौनक उवाच।
गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च।

विश्वास-प्रस्तुतिः

अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ॥१॥

मूलम्

अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ॥१॥

विश्वास-प्रस्तुतिः

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥२॥

मूलम्

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥२॥

विश्वास-प्रस्तुतिः

तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ॥३॥

मूलम्

तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ॥३॥

इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं।
क्रौर्यं यमाद्वैश्रवणात्प्रभावम्।

विश्वास-प्रस्तुतिः

सत्त्वस्थितिं रामजनार्दनाभाम्।
आदाय राज्ञः क्रियते शरीरम् ॥४॥

मूलम्

सत्त्वस्थितिं रामजनार्दनाभाम्।
आदाय राज्ञः क्रियते शरीरम् ॥४॥

विश्वास-प्रस्तुतिः

न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो।
महती देवता ह्येषा नररूपेण तिष्ठति ॥५॥

मूलम्

न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो।
महती देवता ह्येषा नररूपेण तिष्ठति ॥५॥

विश्वास-प्रस्तुतिः

स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ॥६॥

मूलम्

स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ॥६॥

विश्वास-प्रस्तुतिः

यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥७॥

मूलम्

यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥७॥

विश्वास-प्रस्तुतिः

अधीतहुततप्तस्य कर्मणः सुकृतस्य च।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ॥८॥

मूलम्

अधीतहुततप्तस्य कर्मणः सुकृतस्य च।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ॥८॥

विश्वास-प्रस्तुतिः

ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम्।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ॥९॥

मूलम्

ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम्।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ॥९॥

न तदस्ति व्रतं लोके यद्राज्ञश्चरितोपमम्।

विश्वास-प्रस्तुतिः

न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम्।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः ॥१०॥

मूलम्

न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम्।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः ॥१०॥

चतुर्वेद्यं हुतच॥॥न यो हिंसेत नराधिपः।
दण्डस्यैते भयाद्भीता न खादन्ति परस्परम्।
ज॥॥दण्डभयात्के॥॥॥ न दुर्वन्ति हि पातकम्।
यमदण्डभयादन्ये न दुर्वन्ति परस्परम्।
नाभीतो यजते कांश्चन्नाभीतो दण्डमिच्छति।
य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम्।

विश्वास-प्रस्तुतिः

हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ॥११॥

मूलम्

हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ॥११॥

विश्वास-प्रस्तुतिः

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१२॥

मूलम्

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१२॥

विश्वास-प्रस्तुतिः

दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम ॥१३॥

मूलम्

दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम ॥१३॥

न हि पश्यामि जीवन्तं राजन्कञ्चिदहिंसया।

विश्वास-प्रस्तुतिः

उदके जन्तवो नित्यं पृथिव्यां च फलेषु च।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् ॥१४॥

मूलम्

उदके जन्तवो नित्यं पृथिव्यां च फलेषु च।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् ॥१४॥

विश्वास-प्रस्तुतिः

यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च ॥१५॥

मूलम्

यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च ॥१५॥

वृकवत्क्षपयेयुश्च यो यस्य बलवत्तरः।
तस्मात्प्राणिहिते दण्डे हिंसादोषो न बाधते।

विश्वास-प्रस्तुतिः

नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् ॥१६॥

मूलम्

नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् ॥१६॥

सत्यं किलैतद्यदुवाच शक्रो।
दण्डः प्रजा रक्षति साधुवृत्तः।

विश्वास-प्रस्तुतिः

यस्याग्नयः प्रतिमासस्य भीताः।
सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥१७॥

मूलम्

यस्याग्नयः प्रतिमासस्य भीताः।
सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥१७॥

विश्वास-प्रस्तुतिः

यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥१८॥

मूलम्

यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥१८॥

विश्वास-प्रस्तुतिः

दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः ॥१९॥

मूलम्

दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः ॥१९॥

विश्वास-प्रस्तुतिः

वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः ॥२०॥

मूलम्

वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः ॥२०॥

विश्वास-प्रस्तुतिः

स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च ॥२१॥

मूलम्

स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च ॥२१॥

विश्वास-प्रस्तुतिः

दण्डेन नियतो लोको धर्मस्थानं च रक्षति।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ॥२२॥

मूलम्

दण्डेन नियतो लोको धर्मस्थानं च रक्षति।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ॥२२॥

विश्वास-प्रस्तुतिः

दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः ॥२३॥

मूलम्

दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः ॥२३॥

विश्वास-प्रस्तुतिः

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥२४॥

मूलम्

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥२४॥

पापानामथ मूढानां परद्रव्यापहारिणाम्।

विश्वास-प्रस्तुतिः

परदाररता ये च ये च पातकसञ्ज्ञिताः।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् ॥२५॥

मूलम्

परदाररता ये च ये च पातकसञ्ज्ञिताः।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् ॥२५॥

ब्राह्मण्यं दुष्करं ज्ञात्वा तस्य दण्डं निपातयेत्।

विश्वास-प्रस्तुतिः

कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत्।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च ॥२६॥

मूलम्

कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत्।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च ॥२६॥

विश्वास-प्रस्तुतिः

यश्चरेदशुभं कर्म पापं राजविगर्हितम्।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् ॥२७॥

मूलम्

यश्चरेदशुभं कर्म पापं राजविगर्हितम्।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् ॥२७॥

शिरसो मुण्डनं कृत्वा गोमयेनानुलेपयेत्।

विश्वास-प्रस्तुतिः

खरयानेन नगरं डिण्डिमेन तु भ्रामयेत्।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते ॥२८॥

मूलम्

खरयानेन नगरं डिण्डिमेन तु भ्रामयेत्।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते ॥२८॥

विश्वास-प्रस्तुतिः

एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः ॥२९॥

मूलम्

एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः ॥२९॥

परद्रव्यादिहरणे परदाराभिमर्दने।

विश्वास-प्रस्तुतिः

पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥३०॥

मूलम्

पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥३०॥

विश्वास-प्रस्तुतिः

हस्तपादपरिच्छेदं कर्णनासावकर्तनम्।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ॥३१॥

मूलम्

हस्तपादपरिच्छेदं कर्णनासावकर्तनम्।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ॥३१॥

विश्वास-प्रस्तुतिः

राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ॥३२॥

मूलम्

राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ॥३२॥

विश्वास-प्रस्तुतिः

क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ॥३३॥

मूलम्

क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ॥३३॥

विश्वास-प्रस्तुतिः

पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ॥३४॥

मूलम्

पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ॥३४॥

विश्वास-प्रस्तुतिः

शूलायां भेदनं तस्य वृक्षशाखावलम्बनम्।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ॥३५॥

मूलम्

शूलायां भेदनं तस्य वृक्षशाखावलम्बनम्।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ॥३५॥

शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः।

विश्वास-प्रस्तुतिः

कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत्।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ॥३६॥

मूलम्

कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत्।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ॥३६॥

नैकस्यार्थे कुलं हन्यान्न राष्ट्रं न च ग्रामकम्।

विश्वास-प्रस्तुतिः

धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ॥३७॥

मूलम्

धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ॥३७॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत्।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ॥३८॥

मूलम्

युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत्।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ॥३८॥

विश्वास-प्रस्तुतिः

उत्तमाधमकार्येषु समेषु विषमेषु च।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ॥३९॥

मूलम्

उत्तमाधमकार्येषु समेषु विषमेषु च।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ॥३९॥

इति विष्णुधर्मेषु दण्डनीतिः।