०६२

अथ द्विषष्टितमोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

अमांसभक्षणे राजन्यो धर्मः कुरुपुङ्गव।
तन्मे शृणु यथातथ्यं यश्चास्य विधिरुत्तमः ॥१॥

मूलम्

अमांसभक्षणे राजन्यो धर्मः कुरुपुङ्गव।
तन्मे शृणु यथातथ्यं यश्चास्य विधिरुत्तमः ॥१॥

विश्वास-प्रस्तुतिः

मासि मास्यश्वमेधेन यो यजेत शतं समाः।
न च खादति यो मांसं सममेतद्युधिष्ठिर ॥२॥

मूलम्

मासि मास्यश्वमेधेन यो यजेत शतं समाः।
न च खादति यो मांसं सममेतद्युधिष्ठिर ॥२॥

विश्वास-प्रस्तुतिः

सदा यजति सत्त्रेण सदा दानं प्रयच्छति।
सदा तपस्वी भवति मधुमांसविवर्जनात् ॥३॥

मूलम्

सदा यजति सत्त्रेण सदा दानं प्रयच्छति।
सदा तपस्वी भवति मधुमांसविवर्जनात् ॥३॥

विश्वास-प्रस्तुतिः

सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ॥४॥

मूलम्

सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ॥४॥

विश्वास-प्रस्तुतिः

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्।
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ॥५॥

मूलम्

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्।
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ॥५॥

विश्वास-प्रस्तुतिः

तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम्।
विश्वास्यश्चोपगम्यश्च न हि हिंसारुदिर्यदा ॥६॥

मूलम्

तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम्।
विश्वास्यश्चोपगम्यश्च न हि हिंसारुदिर्यदा ॥६॥

दुष्टरांस्तरते म॥॥॥।आं मांसस्य परिवर्जनात्।

विश्वास-प्रस्तुतिः

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ॥७॥

मूलम्

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ॥७॥

विश्वास-प्रस्तुतिः

अहिंसा परमो धर्मः सत्यमेव च पाण्डव।
अहिंसा चैव सत्यं च धर्मो हि परमः स्मृतः ॥८॥

मूलम्

अहिंसा परमो धर्मः सत्यमेव च पाण्डव।
अहिंसा चैव सत्यं च धर्मो हि परमः स्मृतः ॥८॥

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते।

विश्वास-प्रस्तुतिः

जीवादुत्पद्यते मांसं तस्माद्गर्हन्ति तद्बुधाः।
यदि वै खादको न स्यान्न तदा घातको भवेत् ॥९॥

मूलम्

जीवादुत्पद्यते मांसं तस्माद्गर्हन्ति तद्बुधाः।
यदि वै खादको न स्यान्न तदा घातको भवेत् ॥९॥

विश्वास-प्रस्तुतिः

लोभाद्वा बुद्धिमोहाद्वा यो मांसान्यत्ति मानवः।
निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः ॥१०॥

मूलम्

लोभाद्वा बुद्धिमोहाद्वा यो मांसान्यत्ति मानवः।
निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः ॥१०॥

विश्वास-प्रस्तुतिः

स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
उद्विग्नवासे वसति यत्रतत्राभिजायते ॥११॥

मूलम्

स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
उद्विग्नवासे वसति यत्रतत्राभिजायते ॥११॥

विश्वास-प्रस्तुतिः

धनेन क्रायको हन्ति उपभोगेन खादकः।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥१२॥

मूलम्

धनेन क्रायको हन्ति उपभोगेन खादकः।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥१२॥

भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते।
वरमेकस्य सत्त्वस्य दद्यादक्षयदक्षिणाम्।
न तु विप्रसहस्रस्य गोसहस्रं सकाञ्चनम्।
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वापि वसुन्धराम्।

विश्वास-प्रस्तुतिः

अभक्षणं च मांसस्य न तु तुल्यं युधिष्ठिर।
इदमन्यत्प्रवक्ष्यामि पुराणमृषिनिर्मितम् ॥१३॥

मूलम्

अभक्षणं च मांसस्य न तु तुल्यं युधिष्ठिर।
इदमन्यत्प्रवक्ष्यामि पुराणमृषिनिर्मितम् ॥१३॥

विश्वास-प्रस्तुतिः

श्रूयते च पुराकल्पे ह्यृषीणां व्रीहयः पशुः।
यजन्ते येन वै यज्ञानृषयः पुण्यकर्मिणः ॥१४॥

मूलम्

श्रूयते च पुराकल्पे ह्यृषीणां व्रीहयः पशुः।
यजन्ते येन वै यज्ञानृषयः पुण्यकर्मिणः ॥१४॥

विश्वास-प्रस्तुतिः

ऋषिभिः संशयं पृष्टो वसू राजा ततः पुरा।
अभक्ष्यं भक्ष्यमिति वै मांसमाह नराधिप ॥१५॥

मूलम्

ऋषिभिः संशयं पृष्टो वसू राजा ततः पुरा।
अभक्ष्यं भक्ष्यमिति वै मांसमाह नराधिप ॥१५॥

विश्वास-प्रस्तुतिः

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥१६॥

मूलम्

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥१६॥

विश्वास-प्रस्तुतिः

कौमुदं तु विशेषेण शुक्लपक्षे नराधिप।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥१७॥

मूलम्

कौमुदं तु विशेषेण शुक्लपक्षे नराधिप।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥१७॥

विश्वास-प्रस्तुतिः

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्।
चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् ॥१८॥

मूलम्

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्।
चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् ॥१८॥

विश्वास-प्रस्तुतिः

अप्येकमिह यो मासं सर्वमांसानि वर्जयेत्।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः ॥१९॥

मूलम्

अप्येकमिह यो मासं सर्वमांसानि वर्जयेत्।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः ॥१९॥

विश्वास-प्रस्तुतिः

यो हि वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्।
अप्येकं वर्जयेन्मासं मांसमेतत्समं मतम् ॥२०॥

मूलम्

यो हि वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्।
अप्येकं वर्जयेन्मासं मांसमेतत्समं मतम् ॥२०॥

विश्वास-प्रस्तुतिः

यो वर्जयति मांसानि मासं पक्षमथापि वा।
स वै हिंसानिवृत्तस्तु ब्रह्मलोके महीयते ॥२१॥

मूलम्

यो वर्जयति मांसानि मासं पक्षमथापि वा।
स वै हिंसानिवृत्तस्तु ब्रह्मलोके महीयते ॥२१॥

विश्वास-प्रस्तुतिः

सर्वकालं तु मांसानि वर्जितानि महर्षिभिः।
मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुनापि च ॥२२॥

मूलम्

सर्वकालं तु मांसानि वर्जितानि महर्षिभिः।
मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुनापि च ॥२२॥

विश्वास-प्रस्तुतिः

भृगुणा नलरामाभ्यां दिलीपरघुपौरवैः।
आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः ॥२३॥

मूलम्

भृगुणा नलरामाभ्यां दिलीपरघुपौरवैः।
आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः ॥२३॥

विश्वास-प्रस्तुतिः

धुन्धुमाराम्बरीषाभ्यां नहुषेण च धीमता।
गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा ॥२४॥

मूलम्

धुन्धुमाराम्बरीषाभ्यां नहुषेण च धीमता।
गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा ॥२४॥

विश्वास-प्रस्तुतिः

मुचुकुन्देन मान्धात्रा सगरेण महात्मना।
शिबिना चाश्वपतिना वीरसेनादिभिस्तथा ॥२५॥

मूलम्

मुचुकुन्देन मान्धात्रा सगरेण महात्मना।
शिबिना चाश्वपतिना वीरसेनादिभिस्तथा ॥२५॥

विश्वास-प्रस्तुतिः

सञ्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना।
सुवर्णष्ठीविना चैव दुष्वन्तनृगरोहितैः ॥२६॥

मूलम्

सञ्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना।
सुवर्णष्ठीविना चैव दुष्वन्तनृगरोहितैः ॥२६॥

एतैश्चान्यैश्च बहुभिः सर्वैर्मांसं न भक्षितम्।

विश्वास-प्रस्तुतिः

शरत्कौमुदिकं मासं ततः स्वर्गं गता नृपाः।
सर्वकामसमृद्धास्ते वसन्ति दिवि संस्थिताः ॥२७॥

मूलम्

शरत्कौमुदिकं मासं ततः स्वर्गं गता नृपाः।
सर्वकामसमृद्धास्ते वसन्ति दिवि संस्थिताः ॥२७॥

विश्वास-प्रस्तुतिः

ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः।
उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः ॥२८॥

मूलम्

ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः।
उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः ॥२८॥

विश्वास-प्रस्तुतिः

तदेवमुत्तमं धर्ममहिंसालक्षणं शुभन्।
ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥२९॥

मूलम्

तदेवमुत्तमं धर्ममहिंसालक्षणं शुभन्।
ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥२९॥

विश्वास-प्रस्तुतिः

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥३०॥

मूलम्

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥३०॥

विश्वास-प्रस्तुतिः

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्।
व्याधितो मुच्यते रोगाद्दुःखान्मुच्येत दुःखितः ॥३१॥

मूलम्

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्।
व्याधितो मुच्यते रोगाद्दुःखान्मुच्येत दुःखितः ॥३१॥

यश्चैनं पठते नित्यं प्रयत्नाद्भरतर्षभ।

विश्वास-प्रस्तुतिः

घोरं सन्तरते दुर्गं स्वर्गवासं च विन्दति।
तिर्यग्योनिं न गच्छेच्च रूपवांश्चैव जायते ॥३२॥

मूलम्

घोरं सन्तरते दुर्गं स्वर्गवासं च विन्दति।
तिर्यग्योनिं न गच्छेच्च रूपवांश्चैव जायते ॥३२॥

विश्वास-प्रस्तुतिः

एतत्ते कथितं राजन्मांसस्य परिवर्जनम्।
प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः ॥३३॥

मूलम्

एतत्ते कथितं राजन्मांसस्य परिवर्जनम्।
प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः ॥३३॥

इति विष्णुधर्मेष्वमांसभक्षणम्।