०६१

अथैकषष्टितमोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥१॥

मूलम्

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥१॥

विश्वास-प्रस्तुतिः

इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥२॥

मूलम्

इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥२॥

धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च।

विश्वास-प्रस्तुतिः

यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम्।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ॥३॥

मूलम्

यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम्।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ॥३॥

परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति।

विश्वास-प्रस्तुतिः

विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ॥४॥

मूलम्

विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ॥४॥

विश्वास-प्रस्तुतिः

यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ॥५॥

मूलम्

यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ॥५॥

विश्वास-प्रस्तुतिः

राजानं राजपुत्रं वा सेनापतिमथापि वा।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥६॥

मूलम्

राजानं राजपुत्रं वा सेनापतिमथापि वा।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥६॥

विश्वास-प्रस्तुतिः

यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ॥७॥

मूलम्

यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ॥७॥

वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा।

विश्वास-प्रस्तुतिः

गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ॥८॥

मूलम्

गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ॥८॥

विश्वास-प्रस्तुतिः

अभग्नं यः परं हन्याद्भग्नं च परिरक्षति।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ॥९॥

मूलम्

अभग्नं यः परं हन्याद्भग्नं च परिरक्षति।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ॥९॥

विश्वास-प्रस्तुतिः

ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ॥१०॥

मूलम्

ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ॥१०॥

विश्वास-प्रस्तुतिः

यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ॥११॥

मूलम्

यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ॥११॥

विश्वास-प्रस्तुतिः

वराप्सरःसहस्राणि शूरमायोधने हतम्।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च ॥१२॥

मूलम्

वराप्सरःसहस्राणि शूरमायोधने हतम्।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च ॥१२॥

विश्वास-प्रस्तुतिः

हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ॥१३॥

मूलम्

हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ॥१३॥

भूयो गतिं प्रवक्ष्यामि रणे येऽभिमुखा हताः।

विश्वास-प्रस्तुतिः

शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् ॥१५॥

मूलम्

शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् ॥१५॥

विश्वास-प्रस्तुतिः

यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः ॥१६॥

मूलम्

यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः ॥१६॥

सर्वांश्च वेदान्सह षड्भिरङ्गैः।
साङ्ख्यं च योगं च वने च वासम्।

विश्वास-प्रस्तुतिः

एतान्गुणानेक एवातिशेते।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः ॥१७॥

मूलम्

एतान्गुणानेक एवातिशेते।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः ॥१७॥

इमां गिरं चित्रपदां शुभाक्षरां।
सुभाषितां वृतभिदां दिवौकसाम्।

विश्वास-प्रस्तुतिः

चमूमुखे यः स्मरते दृढस्मृतिर्।
न हन्यते हन्ति च सोऽरणे रिपून् ॥१८॥

मूलम्

चमूमुखे यः स्मरते दृढस्मृतिर्।
न हन्यते हन्ति च सोऽरणे रिपून् ॥१८॥

विश्वास-प्रस्तुतिः

एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥१९॥

मूलम्

एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥१९॥

विश्वास-प्रस्तुतिः

भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम्।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥२०॥

मूलम्

भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम्।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥२०॥

विश्वास-प्रस्तुतिः

आततायिनमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२१॥

मूलम्

आततायिनमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२१॥

विश्वास-प्रस्तुतिः

हताश्वश्च न हन्तव्यः पानीयं यश्च याचते।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च ॥२२॥

मूलम्

हताश्वश्च न हन्तव्यः पानीयं यश्च याचते।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च ॥२२॥

विश्वास-प्रस्तुतिः

भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन्।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् ॥२३॥

मूलम्

भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन्।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् ॥२३॥

विश्वास-प्रस्तुतिः

पर्णशाखातृणग्राही तवास्मीति च यो वदेत्।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः ॥२४॥

मूलम्

पर्णशाखातृणग्राही तवास्मीति च यो वदेत्।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः ॥२४॥

विश्वास-प्रस्तुतिः

तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे।
हतो न हन्यते सद्भिर्हता एव हि भीरवः ॥२५॥

मूलम्

तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे।
हतो न हन्यते सद्भिर्हता एव हि भीरवः ॥२५॥

इति विष्णुधर्मेषु सङ्ग्रामप्रशंसा।