अथ षष्टितमोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
भूदानेन समं दानं न भूतं न भविष्यति।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु ॥१॥
मूलम्
भूदानेन समं दानं न भूतं न भविष्यति।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु ॥१॥
विश्वास-प्रस्तुतिः
षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥२॥
मूलम्
षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥२॥
विश्वास-प्रस्तुतिः
अतिदानं तु सर्वेषां भूमिदानमिहोच्यते।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ॥३॥
मूलम्
अतिदानं तु सर्वेषां भूमिदानमिहोच्यते।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ॥३॥
विश्वास-प्रस्तुतिः
भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ॥४॥
मूलम्
भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ॥४॥
विश्वास-प्रस्तुतिः
यथा भूमिः सदा देवी दातारं कुरुते पतिम्।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ॥५॥
मूलम्
यथा भूमिः सदा देवी दातारं कुरुते पतिम्।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ॥५॥
विश्वास-प्रस्तुतिः
अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम्।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ॥६॥
मूलम्
अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम्।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ॥६॥
विश्वास-प्रस्तुतिः
नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम्।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ॥७॥
मूलम्
नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम्।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ॥७॥
विश्वास-प्रस्तुतिः
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥८॥
मूलम्
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥८॥
विश्वास-प्रस्तुतिः
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ॥९॥
मूलम्
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ॥९॥
विश्वास-प्रस्तुतिः
तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् ॥१०॥
मूलम्
तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् ॥१०॥
विश्वास-प्रस्तुतिः
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ॥११॥
मूलम्
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ॥११॥
विश्वास-प्रस्तुतिः
फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम्।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् ॥१२॥
मूलम्
फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम्।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् ॥१२॥
विश्वास-प्रस्तुतिः
रत्नोपकीऋणां वसुधां यो ददाति द्विजातये।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते ॥१३॥
मूलम्
रत्नोपकीऋणां वसुधां यो ददाति द्विजातये।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते ॥१३॥
विश्वास-प्रस्तुतिः
इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥१४॥
मूलम्
इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥१४॥
विश्वास-प्रस्तुतिः
सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम्।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति ॥१५॥
मूलम्
सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम्।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति ॥१५॥
विश्वास-प्रस्तुतिः
भूमिदानं नरः कुर्वन्मुच्यते महतो भयात्।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते ॥१६॥
मूलम्
भूमिदानं नरः कुर्वन्मुच्यते महतो भयात्।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते ॥१६॥
विश्वास-प्रस्तुतिः
पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः ॥१७॥
मूलम्
पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः ॥१७॥
विश्वास-प्रस्तुतिः
यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति ॥१८॥
मूलम्
यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति ॥१८॥
विश्वास-प्रस्तुतिः
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप ॥१९॥
मूलम्
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप ॥१९॥
विश्वास-प्रस्तुतिः
मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥२०॥
मूलम्
मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥२०॥
विश्वास-प्रस्तुतिः
पितरः पितृलोकस्था देवलोके दिवौकसः।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर ॥२१॥
मूलम्
पितरः पितृलोकस्था देवलोके दिवौकसः।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर ॥२१॥
विश्वास-प्रस्तुतिः
कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः ॥२२॥
मूलम्
कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः ॥२२॥
विश्वास-प्रस्तुतिः
सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च ॥२३॥
मूलम्
सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च ॥२३॥
विश्वास-प्रस्तुतिः
आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये ॥२४॥
मूलम्
आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये ॥२४॥
विश्वास-प्रस्तुतिः
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः ॥२५॥
मूलम्
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः ॥२५॥
विश्वास-प्रस्तुतिः
आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति ॥२६॥
मूलम्
आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति ॥२६॥
विश्वास-प्रस्तुतिः
आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥२७॥
मूलम्
आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥२७॥
विश्वास-प्रस्तुतिः
स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥२८॥
मूलम्
स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥२८॥
विश्वास-प्रस्तुतिः
दातारमनुगृह्णाति यथा दत्तेन रोचते।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते ॥२९॥
मूलम्
दातारमनुगृह्णाति यथा दत्तेन रोचते।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते ॥२९॥
विश्वास-प्रस्तुतिः
विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ॥३०॥
मूलम्
विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ॥३०॥
विश्वास-प्रस्तुतिः
पतन्त्यश्रूणि रुदतां दीनानामवसीदताम्।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ॥३१॥
मूलम्
पतन्त्यश्रूणि रुदतां दीनानामवसीदताम्।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ॥३१॥
विश्वास-प्रस्तुतिः
साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित्।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ॥३२॥
मूलम्
साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित्।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ॥३२॥
विश्वास-प्रस्तुतिः
पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥३३॥
मूलम्
पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥३३॥
विश्वास-प्रस्तुतिः
यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ॥३४॥
मूलम्
यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ॥३४॥
विश्वास-प्रस्तुतिः
अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ॥३५॥
मूलम्
अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ॥३५॥
विश्वास-प्रस्तुतिः
एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम्।
भूमिदानं महाराज सर्वपापापहं शुभम् ॥३६॥
मूलम्
एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम्।
भूमिदानं महाराज सर्वपापापहं शुभम् ॥३६॥
इति विष्णुधर्मेषु भूमिदानमतुलफलम्।